अर्मकं क्षेप्तम् (Threw away rubbish)

अद्य अहं कार्यालये मम कक्षात् अर्मकं क्षेप्तम्। अनेकाः मञ्जुषाः मया दशवर्षात् अपि अधिककालात् न दृष्टाः। यदा मया मञ्जुषाः उद्घाटिताः दृष्टाः च तदा ज्ञातम् अन्तरे कीदृशानि पत्राणि सन्ति। तेषाम् इदानीं कोऽपि उपयोगः नास्ति। मया अनेकमञ्जुषा-पुर्णमितानि पत्राणि क्षेप्तानि।

२००९-१०-२४ शनिवासरः (2009-10-24 Saturday)

दिव्यांशुः शृणोति (Divyanshu Listens)

अद्य सायंकाले दिव्यांशुः यानेन मम कार्यालयम् आगच्छति स्म। सः मम यानं चालयति स्म तस्मात् तस्य समीपे कोऽपि सङ्गीत-कोषिका (CD) नासीत्। सः वितन्तुकेन (by radio) एकं गीतं शृणोति स्म। अस्य गीतस्य सः एव सङ्गीतकारः अस्ति। स्व विरचितं गीतं वितन्तुकेन श्रुत्वा सः किम् अनुभवति तस्य कल्पनां अहं कर्तुं न शक्नोमि|

२००९-१०-२३ शुक्रवासरः (2009-10-23 Friday)

अन्तिमम् अनुवचनम् (Last Lecture)

अद्य अस्य वर्षस्य मम पाठ्यक्रमस्य अन्तिमम् अनुवचनं मया दत्तम्। अस्य पाठ्यक्रमस्य मुख्यपरीक्षा सोमवासरे २-११-२००९दिवसे अस्ति। तत् परम् अहं परीक्षापत्राणि आकलयिष्यामि (will examine)।

२००९-१०-२२ गुरुवासरः (2009-10-22 Thursday)

प्रभूतस्त्रिककुब्धाम (manifested-thrice better than the best-abode)

प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्।
प्रभूतः त्रिककुद् धाम पवित्रं मङ्गलं परम्।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः।
हिरण्यगर्भः भूबर्भः माधवः मधुसूदनः।

२००९-१०-२१ बुधवासरः (2009-10-21 Wednesday)

अप्रमेयः (Unlimited)

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः।
अप्रमेयो हृषिकेशः पद्मनाभः अमरप्रभुः।
अः + अ = ओऽ

२००९-१०-२० मङ्गलवासरः (2009-10-20 Tuesday)

स्वयम्भूः (self-created)

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः।
स्वयम्भूः शम्भुः आदित्यः पुष्कराक्षः महास्वनः।
विसर्गात् पूर्वम् अकाराऽऽकारवर्जं कोऽपि स्वरः + कठोरव्यञ्जनं विहाय यः कोऽपि वर्णः = र्

२००९-१०-१९ सोमवासरः (2009-10-19 Monday)

सम्भवो भावनो (origin-creator)

सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः।
सम्भवः भावनः भर्ता प्रभवः प्रभुः ईश्वरः।

२००९-१०-१८ रविवासरः (2009-10-18 Sunday)