शोधपत्रम् अवसितम् (Finished a paper)

शोधपत्रम् अवसितम् (Finished a paper)
२००९-०८-२४ सोमवासरः (2009-08-24 Monday)
मम छात्रः शीलिन्वर्यः त्रिमासात् शोधपत्रं लिखति स्म किन्तु सदैव किञ्चित् अवशेषम् अस्ति। अद्य अहं तेन सह द्विहोरापर्यन्तं शोधपत्रविषये चर्चाम् अकरोत्। अहं मन्ये यदि सः चर्चाविषयं शोधपत्रे उपादास्यति (will include) तर्हि शोधपत्रम् अवसितं भविष्यति।

मम छात्रः शीलिन्वर्यः त्रिमासात् शोधपत्रं लिखति स्म किन्तु सदैव किञ्चित् अवशेषम् अस्ति। अद्य अहं तेन सह द्विहोरापर्यन्तं शोधपत्रविषये चर्चाम् अकरोत्। अहं मन्ये यदि सः चर्चाविषयं शोधपत्रे उपादास्यति (will include) तर्हि शोधपत्रम् अवसितं भविष्यति।

२००९-०८-२४ सोमवासरः (2009-08-24 Monday)

Advertisements

गणेशचतुर्थी-उत्सवः(Ganesh Chaturthi festival)

सामान्यतः अहम् उत्सवान् न अभ्यर्चामि। अद्य गणेशचतुर्थी आसीत्। प्रातः मन्दिरे हवनः आसीत् तत् परम् अस्माकं मित्रस्य जैनेन्द्रस्य गृहे गणेशपूजा आसीत्। अहं अन्यं कार्यं करिष्यामि इति निर्णितवान् किन्तु अद्य पूर्णदिवसः पूजाकार्यक्रमे एव अगच्छत्।

२००९-०८-२३ रविवासरः (2009-08-23 Sunday)

उत्पादकः दिवसः (Productive Day)

अद्य आवयोः कन्या ज्वलिता प्रातः अष्टवादनात् पुष्पापणे कार्यम् आरब्धवती। सा मध्याह्ने एकवादने प्रत्यागच्छत्। तत् परं सा भोजनं खादित्वा किञ्चित् शयनम् अकरोत्। यदा सा शयनं करोति स्म तदा अहं मम कार्यालये गतवान्। कार्यालयात् गृहं यदा दूरभाषेण सम्पर्कम् अकरोत् तदा ज्ञातवान् सा स्वमित्रेण सह उद्यानम् अगच्छत् इति। अहं न जानामि उद्यानात् प्रत्यागम्य सा किम् अकरोत् किन्तु रात्रौ दशवादने यदा अहं गृहं प्रत्यागच्छं तदा सा माम् अकथयत् – अद्य मम दिवसः अति-उत्पादकः आसीत् इदानीम् अहं स्वपितुं गच्छामि इति।

२००९-०८-२२ शनिवासरः (2009-08-22 Saturday)

लोकरबी-विस्फोतख़ह् कुक्तः अभवत् (Lockerbee Bomber was released)

अद्य लोकरबी-विस्फोटकः मुक्तः अभवत्। काश्चन् लोकाः क्रुद्धाः अभवन् किन्तु अहं मन्ये तस्य मुक्तीकरणं सम्यग् अस्ति। सः अपराधी अस्ति किन्तु सः मृतः इव अस्ति। तस्य मुक्ती विश्वस्य सद्भावना दर्शयति।

२००९-०८-२१ शुक्रवासरः (2009-08-21 Friday)

भ्रमणाय अगच्छाम (Went for a walk)

अद्य दिवसः किञ्चित् उष्णः आसीत्। उच्चतमः तापमानः अष्टादश-सेल्सियसमितः आसीत्। अहं शुचितया सह गृहं सायंकाले षट्वादने प्रत्यागच्छम्। तत् परं अहं शुचितया तस्याः मात्रा सह च भ्रमणाय अगच्छम्। प्रत्यागम्य ज्वलितां तस्याः कार्यात् नेतुम् अगच्छम्। तत् परं रात्र्याः अष्टवादने भोजनम् अखादम्।

२००९-०८-२० गुरुवासरः (2009-08-20 Thursday)

विस्फोटः (Blast)

मन्दिरस्य वार्षिक-आम-सभा रविवासरे अगस्तमासस्य त्रिंशतः दिनाङ्के अस्ति। तस्मात् पीडाकारकाः व्यस्ताः सन्ति। ते सर्वकारस्य कार्यालयं गत्वा अस्मासु आक्षेपं अकरवन्। ते मन्यन्ते ते शन्तिस्थले मन्दिरे विस्फोटं कर्तुं शक्ष्यन्ति। सर्वकारस्य कार्यालयत् अद्य एकं पत्रम् आगच्छत्।वयम् आमसभायाः सूचनां सम्यग् न अददाम इति कोऽपि सदस्यः कार्यालयम् अकथयत् इति पत्रे विवरणम् अस्ति। किन्तु तस्य आक्षेपे कोऽपि तथ्यः नास्ति। जनाः अन्यान् पीडां दातुं किं न कुर्वन्ति।

२००९-०८-१९ बुधवासरः (2009-08-19 Wednesday)