सः अङ्गति। त्वम् अङ्गसि। अहम् अङ्गामि। सः आन्ङ्गम (He went)। आवाम् अङ्गिष्यावः।
२००७-११-२० मङ्गलवासरः (2007-11-20 Tuesday)
Learn Sanskrit while blogging
सः अङ्गति। त्वम् अङ्गसि। अहम् अङ्गामि। सः आन्ङ्गम (He went)। आवाम् अङ्गिष्यावः।
२००७-११-२० मङ्गलवासरः (2007-11-20 Tuesday)
श्रीलक्ष्मणसूरविरचितो भारतसंग्रहः इति पुस्तके आदिपर्वणि अस्ति –
ततश्च नागरैरभ्यर्थितो धृतराष्ट्रः स्वपित्रा गाङ्गेयेन कनीयसा भ्रात्रा विदुरेण चानुमतः स्वयं राज्यमकरोत्।
Then Dhritrashtra, asked by the citizens and permitted by his elder Bhishma and younger brother Vidur, he himself ruled.
२००७-११-१९ सोमवासरः (2007-11-19 Monday)
ह्यः रात्रौ अस्माभिः अधोलिखितानि सूत्राणि कृतानि –
जसी च ७।३।१०९॥
ह्रस्वस्य गुणः ७।३।१०८॥
शेषो ध्यसखि १।४।७॥
आङो नाऽस्त्रियाम् ७।३।१२०॥
घेर्ङिति ७।३।१११॥
ङसिङसोश्च ६।१।११०॥
अच्च घेः ७।३।११९॥
२००७-११-१८ रविवासरः (2007-11-18 Sunday)
उब्ज् (to press down, keep under, subdue, make straight) इति तुदादिगणीय परस्मैपदी धातुः अस्ति। तस्मात् धातवः न्युब्जः (नि + उब्ज्), उदुब्जः (उद् + उब्ज्) शब्दाः जायेते।
बालकाः कुक्कुरम् उब्जन्ति। अहं आच्छादनम् (bed-sheet) उब्जामि।
न्युब्जे दर्पणे प्रतिबिम्बस्य आकारः बृहत्तमः भवति।
उदुब्जे दर्पणे प्रतिबिम्बस्य आकारः लघुतमः भवति।
२००७-११-१२ सोमवासरः (2007-11-12 Monday)
ह्यः रात्रु अस्माभिः अधोलिखितानि सूत्राणि कृतानि।
स्वमज्ञातिधनाख्यायाम् १।१।३५॥
अन्तरं बहिर्योगोपसंव्यानयोः १।१।३६॥
पूर्वादिभ्यो नवभ्यो वा ७।१।१६॥
प्रथमचरमतयाल्पार्द्धकतिपयनेमाश्च १।१।३३॥
जराया जरसन्यतरस्याम् ७।२।१०१॥
दीर्घाञ्जसि च ६।१।१०५॥
सुडनपुंसकस्य १।१।४३॥
स्वादिष्वसर्वनामस्थाने १।४।१७॥
यचि भम् १।४।१८॥
आकडारादेका संज्ञा १।४।१॥
आतो धातोः ६।४।१४०॥
२००७-११-११ रविवासरः (2007-11-11 Sunday)
अद्य गुर्जरप्रदेशे नूतनवर्षस्य आरंभः भवति। गुर्जरप्रदेशे नववर्शोत्सवः महत्तमः उत्सवः अस्ति। तत्र प्रातःकालात् जनाः साल-मुबारक इति घोषं कुर्वन्ति। सर्वेषं गृहेषु मिष्टान्नं अस्ति – अतिथयः आगते ते मिष्टान्नं ददति। बालकाः अनेकवारं आगच्छन्ति मिष्टान्नमपि खादन्ति। तस्य दिवसस्य आनन्दः अद्वितीयः एव अस्ति।
२००७-११-१० शनिवासरः (2007-11-10 Saturday)
दीपोत्सवः अतिलोकप्रियः महान् उत्सवः अस्ति। लक्ष्मीपूजा तस्य अभिन्नाङ्गमस्ति। अहं स्वयं गृहे पूजा इत्यादि न करोमि। मम पितरौ नित्यरूपेण पूजाम् अकुरुताम्। मम माता अधुनापि सर्वाः पूजाः करोति। अद्य सायंकाले मया मन्दिरं गतं तत्र पण्डितशैलेशेन अतिसुन्दरा पूजा कृता। तत् परं प्रसादं खादित्वा मया गृहं प्रत्यागतम्।
२००७-११-०९ शुक्रवासरः (2007-11-09 Friday)
गत मासस्य एकादशम्यां तिथौ (11-Oct-2007) न्यूयोर्कनगरस्थः श्रीचिन्मयः दिवं गतः। सः श्रीअरविन्दस्य शिष्यः आसीत्। तस्य संक्षिप्तं जीवनम् (http://www.srichinmoy.org/sri_chinmoy) पठतु।
स्वामीगहनानन्दः अस्य मासस्य चतुर्थ्यां तिथौ (4-11-2007) कोलिकत्तानगरे दिवं गतः। सः श्रीरामकृष्णमठस्य प्रधानः आसीत्।
यदा तौ केन्बरानगरे आगच्छतां तदा मया तौ मिलितौ।
२००७-११-०८ गुरुवासरः (2007-11-08 Thursday)
अद्य प्रथमवारे https://learnsanskrit.wordpress.com वृत्तपत्रे द्विशताः लोकाः आगच्छन्। यदि तेषां दशप्रतिशतः जनाः स्वेच्छयाम् आगच्छन् तर्हि वरं भवेत्।
२००७-११-०७ बुधवासरः (2007-11-07 Wednesday)
मेल्बोर्न-नगरे अद्य औट्रेलियादेशस्य महत्तरा अश्वधावनस्पर्धा अस्ति। नवेम्बरमासस्य प्रथमे मङ्गलवासरे इयं स्पर्धा भवति। सामान्यतः केन्बरानगरे अयं दिवसः अवकाशदिवसः नास्ति किन्तु अस्मिन् वर्षे सर्वकारः निर्णितवान् अद्य जन-अवकाशः भविष्यति। प्रति मङ्गलवासरे अहं मम भार्यया सह एकः हिन्दीपाठ्यक्रमः पाठयामि तस्य अपि अद्य अवकाशः अस्ति। किन्तु छात्राः मम भार्या च एच्छन् – वयम् अस्माकं गृहे मेलिष्यामः पाठः भोजनमपि करिष्यामः इति। वयं तत् अकरवं सर्वे आनन्दिताः अभवन् च।
२००७-११-०६ मङ्गलवासरः (2007-11-06 Tuesday)