किमस्ति? (What is it?)

गत गुरुवारे वयं सहकर्मिणः सर्वयाने (colleagues in a bus) सिडनीनगरम् अगच्छाम। मार्गे अहं लघुपुस्तिकायाः आकारे गीतायां श्लोकान् स्मर्तुं पठामि स्म। एकः सहकर्मी डगलसवर्यः मम निकषा आगत्वा अपृच्छत् – इयं पुस्तिका का अस्ति, अपि भवतः प्रार्थना पुस्तिका अस्ति इति। अहं अकथयम् – किं वदामि इयं प्रार्थना पुस्तिका अस्ति न वा अस्ति इति। सः पुनः अवदत् – अपि इयं गीता अस्ति इति। अहम् अतीवः विस्मितः अभवम् – सः कथं इदं जानाति। तदा सः अकथयत् – सः गत अष्टादशवर्षात् योगस्य अभ्यासं करोति इति। सः सारंगी (violin) वादयति। सारंगीसम्राट् यहूदी-मेनु‍इनः कुत्रापि अलिखत् यदि कोऽपि सारंगीवादने निपुणः भवितुम् इच्छति तर्हि योगस्य अभ्यासं कुरु। डगलसवर्यः यावत् द्वादशवर्षीयः आसीत् तावत् सः योगस्य अभ्यासं करोति। सः नित्यम् एकहोरा पर्यन्तं प्राणायामस्य हठयोगस्य च अभ्यासं करोति। तस्य भार्या आत्मबिन्दुवर्या सत्यानन्दयोगं शिक्षयति।

२००७-०२-२५ रविवासरः (2007-02-25 Sunday)

Advertisements