दिवं गता (Passed Away)

गत रविवासरे रात्रौ केन्बरानगरस्य प्रतिष्ठितस्य परिवारस्य या पितामही मातामही च आसीत् सा दिवं गता। तस्याः निधनं शान्तिपूर्वकम् एव अभवत् यतो हि सा एकः पवित्रात्मा आसीत्। वयम् ईश्वरं प्रार्थामहे तस्याः आत्मानं सद्गतिं ददातु इति।

२००८-०४-२९ मङ्गलवासरः (2008-04-29 Tuesday)

नूतनवर्षः (New Year)

अद्य गुर्जरप्रदेशे नूतनवर्षस्य आरंभः भवति। गुर्जरप्रदेशे नववर्शोत्सवः महत्तमः उत्सवः अस्ति। तत्र प्रातःकालात् जनाः साल-मुबारक इति घोषं कुर्वन्ति। सर्वेषं गृहेषु मिष्टान्नं अस्ति - अतिथयः आगते ते मिष्टान्नं ददति। बालकाः अनेकवारं आगच्छन्ति मिष्टान्नमपि खादन्ति। तस्य दिवसस्य आनन्दः अद्वितीयः एव अस्ति।

२००७-११-१० शनिवासरः (2007-11-10 Saturday)

मनःसंपदा

मनःसंपदा एव संपदा खलु। मनःशांतये सर्वे प्रयतेरन्। “शरीरमाद्यं खलु धर्मसाधनम्।” इत्यस्ति प्राचीनं सुभाषितं तु “मनः आद्यं खलु शरीरसाधनम्।” इत्यस्ति संदेशः नवयुगाय। मनोयोगः श्रेष्ठयोगः। मनोयोगः मनसः योगः ईश्वरस्थाने इति। सर्वे मनःसामर्थ्यं वर्धितुं प्रयतंताम्।

वृत्तिवरणम् (choice of profession)

अचिरं ममैकः सुहृत्वैद्यकः अस्माकं गृहमागतः। केनापि कारणेन मयि गृहान्निर्गते सः मम पुत्रं चतुरंगम्(chess) अशिक्षत। तस्मात्मम पुत्रः अतीव हर्षितः। सः सुहृदमवदत् ,” चतुरंगपारंगतः वैद्यकवृत्त्या वर्तसे किमिति?” मम सुहृदवदत् ,” बाल्यात्प्रभृत्येव गणितविषये न मे रुचिः। तस्मात्महाविद्यालये गणितं त्यक्त्वा जीवशास्त्रं पठितं मया। तदनंतरं वैद्यकमहाविद्यालयं गत्वा शरीरशास्त्रं पठित्वा वैद्यकः भूतः अहमिति।” मम पुत्रस्यापि गणितविषये न विद्यते रुचिः। तेन चिंतितम्, ” यदि अद्यं गणितं न पठामि तर्हि वैद्यकः भविष्यामि।” तस्माद्दिनात् “वैद्यकः भविष्यामि।” इति वदति। तस्मिन्दिने तमेवैकं विषयं पुनः पुनः स्मृत्वा सर्वे भृशमहसन्।

संस्कृत-शिक्षणाय सहायकाः (Helpful aids in learning Sanskrit)

अनयोः जालपत्रयोः रत्नभण्डारः अस्ति।

http://sanskrit.inria.fr/sanskrit.html, http://sanskrit.jnu.ac.in/index.jsp

अद्य अहं तावान् इति शब्दः अपठम्। तस्य अर्थः कः अस्ति इति न अजानम्। तदा http://sanskrit.inria.fr/DICO/index.html गत्वा search for inflected formsस्थाने तावान् इति दत्तवान् उत्तरं च प्राप्तवान् - तावान् इति तावत् शब्दस्य प्रथमाविभक्याः एकवचनस्य रुपमस्ति। इदं कीदृषं लाभकरमस्ति तस्य वर्णनम् अहं कर्तुं न शक्नोमि।

अनुवादार्थे कृपया पश्यतु - http://spokensanskrit.de/index.php

यदि भवता सकाशे अयं शब्दकोशः नास्ति तर्हि भवता शीघ्रातिशीघ्रं तत् गृहितव्यः http://members.chello.nl/l.bontes/sans_n.htm। अधिकाधिकः भवन्तं तत् स्थापनाय दश-पञ्चादश कला भविष्यन्ति। यदि कापि बधा भविष्यति तर्हि मम सम्पर्कः करोतु।

अन्यान् सहायकरान् पश्यतु - http://www.ee.adfa.edu.au/staff/hrp/personal/sanskrit/index.html

२००७-०७-१९ गुरुवासरः (2007-07-19 Thursday)

युगपद् (Together, simultaneous)

युगपद् - together - मोनियर-विलियम्स्-शब्दकोशे सः शब्दः अव्ययः अस्ति किन्तु ह्यः मया अखिलभारतीय-संस्कृत-समाचरे श्रुतं युगपदे इति, कथमेतत्।

युगपत्कर्मन् (simultaneous action) - तौ युगपत्कर्म कुरुतः।

युगपत्काल (taking place at the same time) - युगपत्काले सर्वस्मिन् देशे मतदानं भविष्यति।

युगपत्प्राप्ति (reaching simultaneously) - कतिवारं अहं मम भार्या च गृहं युगपत्प्राप्तिं कुरुतः।

युगपत्भाव (simultaneousness or togetherness) - युगपत्भावः कार्यकरान् बलं ददाति।

अयुगपद् इति न युगपद्।

२००७-०६-२९ शुक्रवासरः (2007-06-29 Friday)

कर्मणि-प्रयोगे दिनचर्या-लेखनम् - २ (Daily activity sentences - Passive construct - 2)

डॉ-सदानन्दवर्यः जर्मनदेशतः इमानि वाक्यानि अप्रेषयत।कर्मणि-प्रयोगे कर्ता तृतीया-विभक्त्याम् अस्ति कर्म प्रथमा-विभक्त्याम् अस्ति च।

प्रार्थना क्रियते। ततः परमल्पाहारः क्रियते। (अवधेहि - आहारः - पुंलिङ्गः शब्दः अस्ति।)

अनन्तरं सङ्गणकेन किञ्चित्कार्यं क्रियते।

मया ततो विश्वविद्यालयो गम्यते।

तत्र कक्षाद्वयं अध्याप्यते। छात्रैः सह किञ्चित् सम्भाषणं क्रियते सम्भाष्यते वा। (अवधेहि - सम्भाषणं - नपुंसकलिङ्गः शब्दः अस्ति।)

ततः विद्युत्पत्राणि पठ्यन्ते लिख्यन्ते च। (अवधेहि - पठ्यन्ते बहुवचने अस्ति, सः पत्राणि अनुसरति।)

२००७-०६-२७ बुधवासरः (2007-06-27 Wednesday)

कर्मणि-प्रयोगे दिनचर्या-लेखनम् - १ (Daily activity sentences - Passive construct - 1)

डॉ-सदानन्दवर्यः जर्मनदेशतः इमानि वाक्यानि अप्रेषयत।

कर्मणि-प्रयोगे कर्ता तृतीया-विभक्त्याम् अस्ति कर्म प्रथमा-विभक्त्याम् अस्ति च।

अद्य मया प्रातः सप्तवादने उत्थीयति (get up)(अवधेहि - मया - तृतीया विभक्तिः।)

ततः परं मुखं प्रक्षाल्यते (wash or clean)(अवधेहि - मुखम् - नपुंसकलिङ्गः शब्दः अस्ति।)

दन्तधावनं क्रियते। (अवधेहि - दन्तधावनम् - नपुंसकलिङ्गः शब्दः अस्ति।)

चायं पीयते।

ततः परं मम पुत्री बालविद्यालयं नीयते।

मया अनन्तरमागत्य स्नानं क्रियते स्नायते वा।

मया ततो देवः पूज्यते।

प्रार्थना क्रियते प्रार्थ्यते वा।

२००७-०६-२६ मङ्गलवासरः (2007-06-26 Tuesday)

यदा-कदा विकल्पः - रामायणात् उदाहरणानि (Alternative to When-then construct - Examples from Ramayana)

श्रीनिवासवर्यः लिखति - यदा-तदा रचनायाम् अन्यः विकल्पः अपि अस्ति। यथा -रामायणे सुन्दरकाण्डात् सर्गः ४६ श्लोकः २४ -

अर्द्यमानः ततः तेन दुधरेणानिलात्मजः। चकार निनदं भूयो व्यवर्धत च वेगवान्॥

(When Durdhara attacked Hanuman fiercely, he (Hanuman) enlarged his body further and gave out terrific roars.)

रामायणे सुन्दरकाण्डात् सर्गः ३८ पङ्क्तिः ६१ -

हियमाणां तदा विरो न तु मां वेद लक्ष्मणः। ((Sita telling Lakshmana that) When she was

abducted, Lakshmana was not by her side.)

रामायणे सुन्दरकाण्डात् सर्गः ४२ श्लोकः ६ -

कोऽयं कस्य कुतो वाऽयं किन्निमित्तमिहागतः? कथं त्वया सहानेन सम्वादः कृत इत्युत॥

(Who’s he, whose servant is he? Where did he come here from? What is

his purpose here? Tell us how you managed to speak with him.)

२००७-०६-२५ सोमवासरः (2007-06-25 Monday)

यदा-कदा विकल्पः (Alternative to When-then construct)

श्रीनिवासवर्यः लिखति - यदा-तदा रचनायाम् अन्यः विकल्पः अपि अस्ति। यथा -यदा अहं गच्छामि तदा सा रोदिति। मयि गच्छति सा रोदिति। गच्छति - सप्तमि-एकवचने।

यदा कन्याः मोदन्ते तदा मातरो मोदन्ते। कन्यासु मोदमानासु मातरो मोदन्ते।

यदा मुनिः गृहं प्रविष्टः तदैव सङ्कटानि अनश्यन्। गृहं प्रविष्टे मुनौ सङ्कटानि अनश्यन्।

यदा रामेण रावणो हतः तदा विभीषणो लङ्काधिपतिरभवत्। रामेण रावणे हते विभीषणो लङ्काधिपतिरभवत्।

२००७-०६-२४ रविवासरः (2007-06-24 Sunday)