अञ्ज् - रुधादिगणीयः परस्मैपदी (to smear, honour, decorate)

दशरथः रामम् अनक्ति इति सर्वं मन्यन्ते। सः अञ्जिष्यति इति ते आशसन्ते। किन्तु रामः दशरथेन न अज्यते। दशरथः रामं न आनग् (anointed) इति सर्वे जानन्ति।
२००७-११-२२ गुरुवासरः (2007-11-22 Thursday)

छिद् धातुः (chhid - to cut)

छिद् रुधादिगणीय उभयपदी धातुः अस्ति। सः शाकं छिनत्ति, तौ शाकं छिन्तः, ते शाकं छिन्दन्ति। लिट्-लकारे सा शाकं चिच्छेद इति।
आत्मनिपदी प्रयोगः अस्ति - सः छिन्ते, तौ छिन्दाते, ते छिन्दते।

२००७-११-०१ गुरुवासरः (2007-11-01 Thursday)

युज् - रुधादिगण परस्मैपदी (to join)

युनक्ति युङ्‍क्तः युञ्जन्ति, युनक्षि युङ्‍क्थः युङ्‍क्थ, युनज्मि युञ्‍ज्वः युञ्‍ज्मः - लट्

योक्ष्यति योक्ष्यतः योक्ष्यन्ति, योक्ष्यसि योक्ष्यथः योक्ष्यथ, योक्ष्यामि योक्ष्यावः योक्ष्यामः - लृट्

युनक्तु युङ्‍क्ताम् युञ्जन्तु, युङ्‍ग्धि युङ्‍क्तम् युङ्‍क्त, युनजानि युनजाव युनजाम - लोट्

अयुनक् अयुङ्‍क्ताम् अयुञ्जन्, अयुनक् अयुङ्‍क्तम् अयुङ्‍क्त, अयुनजम् अयुञ्‍ज्व अयुञ्‍ज्म - लङ्

अयोक्ष्यत् अयोक्ष्यताम् अयोक्ष्यन्, अयोक्ष्यः अयोक्ष्यतम् अयोक्ष्यत, अयोक्ष्यम् अयोक्ष्याव अयोक्ष्याम - लृङ्

युञ्‍ज्यात् युञ्‍ज्याताम् युञ्‍ज्युः, युञ्‍ज्याः युञ्‍ज्यातम् युञ्‍ज्यात, युञ्‍ज्याम् युञ्‍ज्याव युञ्‍ज्याम - विधिलिङ्