यस् यत् धातू (to try - verbal roots)

यस् इति दिवादिगणीयः परस्मैपदी धातुः अस्ति। तस्मात् प्रयासः इत्यादयः शब्दाः जायन्ते।
कर्तरि - अहं संस्कृतं शिक्षणाय (for learning) यस्यामि। त्वमपि यस्य। सः अपि यस्यतु।
कर्मणि - मया संस्कृतं शिक्षणाय यस्यते। त्वया अपि यस्यते। तेन अपि यस्यते।
यत् इति भ्वादिगणीय आत्मनेपदी धातुः अस्ति। तस्मात् प्रयत्नः इत्यादयः शब्दाः जायन्ते।
कर्तरि - सः गमनाय यतते। गीतायां - यतते च ततः भूयः।
कर्मणि - तेन गमनाय यत्यते।

२००७-१०-२५ गुरुवासरः (2007-10-25 Thursday)

नीतिशतकात् धातवः - १(Verbal roots from Nitishatakam - 1)

समुज्जृम्भते - 1.A; 1. to yawn; 2. to extend; 3. to appear; 4. to attempt
रोद्धुं समुज्जृम्भते - in the sense of attempt
सन्नह्यते - 4.U; 1. to tie; 2. to wear; 3. to put on; 4. to make oneself ready
छेत्तुं सन्नह्यते - in the sense of make oneself ready
इहते - to expect रचयितुम् इहते।
वाञ्छति - to desire नेतुं वाञ्छति।

२००७-१०-१९ शुक्रवासरः (2007-10-19 Friday)

आशास् धातुः (aashaas - To desire, wish, ask, pray for)

आशास् - (wish, desire, hope) - आत्मनेपदी भ्वादिगणीयः धातुः अस्ति।

विदुषः संसर्गः अतिलाभकरः अस्ति। डॉसदानन्देन अद्य मां एकः संदेशः प्रेषितम्। संदेशे तेन आशासे इति शब्दः प्रयुक्तः। अहं चिरकालात् हिन्दीभाषायाम् - आशा करता हूँ - इति कथं संस्कृतभाषायाम् कथ्यते इति चिन्तितवान्। मया आशा इति धातुः शब्दकोशे दृष्टः किन्तु सः धातुः एव नास्ति। अद्य अजानं तस्मिन् अर्थे आशास् इति धातुः भवति।

अहं आशासे तव सर्वं कुशलं भवति। सः आशासते तस्य माता आगच्छतु इति। ते आशासन्ते भोजनम्। ते आशासन्ते सुखम्। माता आशासत बालकानां सुखम्।

२००७-०६-२८ गुरुवासरः (2007-06-28 Thursday)

युज् - दिवादिगण आत्मनेपदी (to meditate)

युज्यते युज्येते युज्यन्ते, युज्यसे युज्येथे युज्यध्वे, युज्ये युज्यावहे युज्यामहे - लट्

योक्ष्यते योक्ष्येते योक्ष्यन्ते, योक्ष्यसे योक्ष्येथे योक्ष्यध्वे, योक्ष्ये योक्ष्यावहे योक्ष्यामहे - लृट्

युज्यताम् युज्येताम् युज्यन्ताम्, युज्यस्व युज्येथाम् युज्यध्वम्, युज्यै युज्यामहै युज्यावहै - लोट्

अयुज्यत अयुज्येताम् अयुज्यन्त, अयुज्यथाः अयुज्येथाम् अयुज्यध्वम्, अयुज्ये अयुज्यावहि अयुज्यामहि - लङ्

अयोक्ष्यत अयोक्ष्येताम् अयोक्ष्यन्त, अयोक्ष्यथाः अयोक्ष्येथाम् अयोक्ष्यध्वम्, अयोक्ष्ये अयोक्ष्यावहि अयोक्ष्यामहि - लृङ्

युज्येत युज्येयाताम् युज्येरन्, युज्येथाः युज्येयाथाम् युज्येध्वम्, युज्येय युज्येवहि युज्येमहि - विधिलिङ्

सेव् - भ्वादिगण आत्मनेपदी (to give)

सेवते सेवेते सेवन्ते, सेवसे सेवेथे सेवध्वे, सेवे सेवावहे सेवामहे। - लट्

सेविष्यते सेविष्येते सेविष्यन्ते, सेविष्यसे सेविष्येथे सेविष्यध्वे, सेविष्ये सेविष्यावहे सेविष्यामहे। - लृट्

सेवताम् सेवेताम् सेवन्ताम्, सेवस्व सेवेथाम् सेवध्वम्, सेवै सेवावहै सेवामहै। - लोट्

असेवत असेवेताम् असेवन्त, असेवथाः असेवेथाम् असेवध्वम्, असेवे असेवावहि असेवामहि। - लङ्

असेविष्यत असेविष्येताम् असेविष्यन्त, असेविष्येथाः असेविष्येथाम् असेविष्यध्वम्, असेविष्ये असेविष्यावहि असेविष्यामहि। - लॄङ्

सेवेते सेवेयाताम् सेवेरन्, सेवेथाः सेवेयाथाम् सेवेध्वम्, सेवेय सेवेवहि सेवेमहि। - विधिलिङ्