Updates from Karthik Toggle Comment Threads | Keyboard Shortcuts

  • Karthik 2:40 pm on November 10, 2007 Permalink | Reply  

    नूतनवर्षः (New Year) 

    अद्य गुर्जरप्रदेशे नूतनवर्षस्य आरंभः भवति। गुर्जरप्रदेशे नववर्शोत्सवः महत्तमः उत्सवः अस्ति। तत्र प्रातःकालात् जनाः साल-मुबारक इति घोषं कुर्वन्ति। सर्वेषं गृहेषु मिष्टान्नं अस्ति – अतिथयः आगते ते मिष्टान्नं ददति। बालकाः अनेकवारं आगच्छन्ति मिष्टान्नमपि खादन्ति। तस्य दिवसस्य आनन्दः अद्वितीयः एव अस्ति।

    २००७-११-१० शनिवासरः (2007-11-10 Saturday)

     
    • Tamas 4:36 am on June 27, 2012 Permalink | Reply

      Tamas 7:35 pm on June 26, 2012 Permalink | Reply

      Have a nice day.
      I write from Hungary. I’ve hurt my love (hers name is Bea), I always wear these words, on tattooed myself

      Please Forgive me
      I’ love you forever Bea

      help me, how to write in Sanskrit?

      thank you

      Tamás

  • Karthik 3:11 pm on June 25, 2007 Permalink | Reply  

    यदा-कदा विकल्पः – रामायणात् उदाहरणानि (Alternative to When-then construct – Examples from Ramayana) 

    श्रीनिवासवर्यः लिखति – यदा-तदा रचनायाम् अन्यः विकल्पः अपि अस्ति। यथा -रामायणे सुन्दरकाण्डात् सर्गः ४६ श्लोकः २४ -

    अर्द्यमानः ततः तेन दुधरेणानिलात्मजः। चकार निनदं भूयो व्यवर्धत च वेगवान्॥

    (When Durdhara attacked Hanuman fiercely, he (Hanuman) enlarged his body further and gave out terrific roars.)

    रामायणे सुन्दरकाण्डात् सर्गः ३८ पङ्क्तिः ६१ -

    हियमाणां तदा विरो न तु मां वेद लक्ष्मणः। ((Sita telling Lakshmana that) When she was

    abducted, Lakshmana was not by her side.)

    रामायणे सुन्दरकाण्डात् सर्गः ४२ श्लोकः ६ -

    कोऽयं कस्य कुतो वाऽयं किन्निमित्तमिहागतः? कथं त्वया सहानेन सम्वादः कृत इत्युत॥

    (Who’s he, whose servant is he? Where did he come here from? What is

    his purpose here? Tell us how you managed to speak with him.)

    २००७-०६-२५ सोमवासरः (2007-06-25 Monday)

     
  • Karthik 3:10 pm on June 24, 2007 Permalink | Reply  

    यदा-कदा विकल्पः (Alternative to When-then construct) 

    श्रीनिवासवर्यः लिखति – यदा-तदा रचनायाम् अन्यः विकल्पः अपि अस्ति। यथा -यदा अहं गच्छामि तदा सा रोदिति। मयि गच्छति सा रोदिति। गच्छति – सप्तमि-एकवचने।

    यदा कन्याः मोदन्ते तदा मातरो मोदन्ते। कन्यासु मोदमानासु मातरो मोदन्ते।

    यदा मुनिः गृहं प्रविष्टः तदैव सङ्कटानि अनश्यन्। गृहं प्रविष्टे मुनौ सङ्कटानि अनश्यन्।

    यदा रामेण रावणो हतः तदा विभीषणो लङ्काधिपतिरभवत्। रामेण रावणे हते विभीषणो लङ्काधिपतिरभवत्।

    २००७-०६-२४ रविवासरः (2007-06-24 Sunday)

     
  • Karthik 3:10 pm on June 23, 2007 Permalink | Reply  

    लघुसिद्धान्तकौमुद्याः तृतीयः पाठः (Third Lession Laghu Siddhanta Kaumudi) 

    अद्य रात्रौ अस्माकं द्वितीयः पाठः आसीत्। वयं अधोलिखितानि सूत्राणि अपठम -४२ अकः सवर्णे दीर्घः ६।१।१०१। दैत्यारिः। श्रीशः। विष्णुदयः। होतृकारः।

    ४३ एङः पदान्तादति ६।१।१०९। हरेऽव। विष्णोऽव।

    ४४ सर्वत्र विभाषा गोः ६।१।१२२। गो‍अग्रम् गोऽग्रं वा।

    ४५ अनेकाल् शित् सर्वस्य १।१।५५।

    ४६ ङिच्च १।१।५३।

    ४७ अवङ् स्फोटायनस्य ६।१।१२३। गवाग्रम्। गोऽग्रम्।

    ४८ इन्द्रे च ६।१।१२४ गवेन्द्रः।

    ४९ दूराधूते च ८।२।८४।

    ५० प्लुत-प्रगृह्या अचि नित्यम् ६।१।१२५। आगच्छ कृष्ण ३ अत्र गौश्चरति।

    ५१ ईदूदेद् द्विवचनं प्रगृह्यम् १।१।११। हरी एतौ। विष्णू इमौ। गङ्गे अमू।

    ५२ अदसो मात् १।१।१२। अमी ईशाः।

    २००७-०६-२३ शनिवासरः (2007-06-23 Saturday)

     
    • R.subasriAravind 12:25 am on June 30, 2007 Permalink | Reply

      Its a commendable service rendered by u, iam a research scholar doing my ph.d on dharmasastra and modern hindu law in chennai, tamilnadu.iam reminded of my college days when i read these sutras.one thing i wished to know is -where are those vartikakaras interpretation on each sutras and the examples could be even more elaborated with real workings of them in the cited ones.{if Possible)

      samskrtam nama deivivak
      aano bhadrah kratavo yantu visvatah

      once again kudos to u and whomsoever behind this task
      with regards and best wishes
      R.Subasri Aravind

      • pinky 6:57 pm on November 8, 2010 Permalink | Reply

        I want a email subscription

    • Ananta narayan nanda 11:55 pm on May 15, 2013 Permalink | Reply

      I want all theory of laghu sidhanta koumudi

  • Karthik 3:09 pm on June 22, 2007 Permalink | Reply  

    वृषेणेति – नलोपाख्यानपर्वे (From Mahabharat – meaning?) 

    श्रीमहाभारते वनपर्वणि नलोपख्यानपर्वे एकोनषष्टितमोऽध्याये सप्तमः श्लोकः अस्ति -

    आसाद्य तु नलं वीरं पुष्करः परवीरहा।
    दीव्यावेत्यब्रवीद् भ्राता वृषेणेति मुहुर्मुहुः॥७॥

    Pushkara, the slayer of brave enemy, having approached Nala, repeatedly asked him, “Oh brother, let us gamble.”

    अस्मिन् श्लोके प्रथमं तु अहं न जानामि कथं दिव्यावेति इति शब्दस्य सन्धिविग्रहः भवति, द्वितीयं न जानामि वृषेण शब्दस्य कः अर्थः भवति। कृपया पण्डिताः मां बोधयन्तु।

    २००७-०६-२२ शुक्रवासरः (2007-06-22 Friday)

     
    • Himanshu Pota 7:26 pm on June 26, 2007 Permalink | Reply

      Himanshu,
      It should be दीव्यावेत्यब्रवीत्, I think.
      वृषेण दीव्याव means to play dice (first person dual). So that’s fine. That leaves one ‘iti’ too many.

      May be one ‘iti’ could be taken within quotation marks. Thus,

      “वृषेण दीव्याव इति” मुहुर्मुहुः अब्रवीत् इति. Is this whole narration inside another narration. In that case, we can account for the double ‘iti’ else back to the drawing board :)

      btw, वृषेण दिव् , अक्षैः दिव् means to gamble. दीव्याव is लोट् लकार, उत्तम पुरुष, द्विवचन् of

      दिव् in दिवादिगण्
      Srini

  • Karthik 2:40 pm on June 21, 2007 Permalink | Reply  

    सेत्स्यते (Will attain) 

    ह्यः अखिलभारतीयसंस्कृत-समाचारे तैः सेत्स्यते इति शब्दं प्रयुक्तम्। प्रथमं तु मया http://sanskrit.inria.fr/DICO/index.html जालपत्रात् ज्ञातं सेत्स्यते इति सिध् धातवः लृट्लकाररूपमस्ति। मया किञ्चित् शब्दकोशे दृष्टं तत्र सिध् दिवादिगणियः परस्मैपदी धातुः अस्ति। तस्मात् कथं सेत्स्यते इति रूपं भवति। कऽपि पण्डितः तत् मां स्पष्टिकरोतु। धन्यवादाः।

    २००७-०६-२१ गुरुवासरः (2007-06-21 Thursday)

     
  • Karthik 2:39 pm on June 20, 2007 Permalink | Reply  

    दृष्टिं न ददासि (Do not see me.) 

    मालविकाग्निमित्रम् नाम्नः कालिदासविरचितं नाटके प्रथमे अङ्के -सखि कौमुदिके, कुतस्त इयं धीरता। यत्समीपेनापि मामतिक्रामन्तीतो दृष्टिं न ददासि।

    (Hola, Kaumudika, what makes you so serious that you do not see me although you pass so close to me?

    गत सप्ताहे मया अस्मिन् वार्तापत्रे लिखितं कथं मम मित्रं मां अदृष्ट्वा माम् अत्यक्रामयत्। श्रीनिवासवर्यः (http://srinilakshmi.wordpress.com) तत् पठित्वा कालिदासविरचितं उपरिदत्तं वाक्यम् अदर्शयत्। श्रीनिवासवर्यस्य इच्छास्ति वयं कालिदास-इव लिखेम। अहम् इच्छामि तस्य इच्छा सार्थका भवेत्।

    २००७-०६-२० बुधवासरः (2007-06-20 Wednesday)

     
  • Karthik 2:39 pm on June 19, 2007 Permalink | Reply  

    हलन्तानां शब्दानां सुबन्तरूपाणि 

    प्रायः पुस्तकेषु प्रथमं तु स्वरान्तानां शब्दानां सुबन्तरूपाणि दीयन्ते। यथा – रामः रामौ रामाः। स्वरान्त-सुबन्तरूपाणि क्लिष्टानि सन्ति। हलन्त-सुबन्तरूपाणि सरलानि सन्ति – त्रिषु अपि लिङ्गेषु समानानि सन्ति। एकवचने अन्ते सन्ति – स् अम् आ ए अस् अस् इ – यथावाच् – वाक् वाच्म् वाचा वाचे वाचः वाचः वाचि।

    राज् – राड् राजम् राजा राजे राजः राजः राजि।

    प्राञ्च् – प्राङ् प्राञ्चम् प्राञ्चा प्राञ्चे प्राञ्चः प्राञ्चः प्राञ्चि।

    धीमत् – धीमान् धीमन्तम् धीमता धीमते धीमतः दीमतः धीमति।

    महत् – महान् महान्तम् महता महते महतः महतः महति।

    करिन् – करी करिणम् करिणा करिणे करिणः करिणः करिणि।

    २००७-०६-१९ मङ्गलवासरः (2007-06-19 Tuesday)

     
  • Karthik 2:38 pm on June 18, 2007 Permalink | Reply  

    काव्यम् आदयः (Poem, etc.) 

    एते अधोलिखिताः शब्दाः नपुंसकलिङ्गाः सन्ति -काव्यम् (poem), पत्रम् (letter or leaf), नेत्रम् (eye), चक्रम् (circle), अग्रम् (front), नाट्यम् (drama), अरण्यम् (forest), हिरण्यम् (deer), क्षीरम् (milk), पापम् (sin)

    महाभारत नाम्नः काव्यं मह्यं रोचते। सः नियमितरूपेण पत्रं लिखति। तस्याः नेत्रे चारुनी स्तः (Her eyes are pretty)। अस्माकं गृहस्य पुरः मार्गे एकं चक्रम् अस्ति। सा अग्रम् एव गन्तुम् इच्छति। ते संस्कृत-नाट्यं अभिनयन्ति। तपस्विनम् अरण्यम् आह्वयति। अस्माभिः सुन्दरं हिरण्यं दृष्टम्। बालकैः क्षीरं पीतम्। तैः पापं न कृतम्।

    २००७-०६-१८ सोमवासरः (2007-06-18 Monday)

     
  • Karthik 2:38 pm on June 17, 2007 Permalink | Reply  

    लघुसिद्धान्तकौमुदयः द्वितीयः पाठः (Second Lesson Laghu Siddhanta Kaumudi) 

    ह्यः रात्रौ अस्माकं द्वितीयः पाठः आसीत्। अस्मिन् पाठे भारतात् कामेशवरवर्यः अपि योजितवान्। वयं अधोलिखितानि सूत्राणि अपठम -३५ उपसर्गाः क्रियायोगे १।४।५९। – प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः।

    ३६ भूवादयो धातवः १।३।१।

    ३७ उपसर्गादृति धातौ ६।१।९१।

    ३८ एङि पररूपम् ६।१।९४।

    ३९ अचोऽन्त्यादि टि १।१।६४।

    ४० ओमोङोश्च ६।१।९५।

    ४१ अन्तादिवच्च ६।१।८५।

    २००७-०६-१७ रविवासरः (2007-06-17 Sunday)

     
c
compose new post
j
next post/next comment
k
previous post/previous comment
r
reply
e
edit
o
show/hide comments
t
go to top
l
go to login
h
show/hide help
shift + esc
cancel
Follow

Get every new post delivered to your Inbox.

Join 312 other followers