Updates from Himanshu Pota RSS Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 12:02 am on May 30, 2012 Permalink | Reply  

    सिडनीनगरम् अगमाम (Went to Sydney) 

    अद्य प्रातःकाले वयं सिडनीनगरम् अगमाम। अपराह्णे प्रत्यागमाव। तत्र गमनसमये दिव्यांशुः यानम् अचालयत् तस्मात् इदानीम् अहं न क्लिद्यामि।
    पश्यतु http://www.youtube.com/watch?v=VV5XzxvggTY&feature=related

    २०१२-०५-३० बुधवासरः (2012-05-30 Wednesday)

     
  • Himanshu Pota 8:26 am on May 29, 2012 Permalink | Reply  

    त्यजिष्यामि (I will quit) 

    मनमोहनवर्यः निगदति यदि दोषी अस्मि तर्हि पदं त्यजिष्यामि इति। श्रवणे इदं अति साधुः प्रतीयते किन्तु ये स्मरन्ति सः एव अकथयत् यदि लोकसभासदस्यतायाः निर्वाचने असफलः भविष्यामि तर्हि राज्यसभासदस्यता त्यजिष्यामि इति ते जानन्ति तस्य वचने कादृशी सत्यता अस्ति। सः निर्वाचने असफलः अभवत् किन्तु त्याजनस्य स्थाने सः फेवीकोल इति लेपेन स्वयं श्लेषित्वा तत्र एव उपविशति। सत्यमेव जयते।

    २०१२-०५-२९ मङ्गलवासरः (2012-05-29 Tuesday)

     
  • Himanshu Pota 12:06 am on May 28, 2012 Permalink | Reply  

    व्यापृतः (Busy) 

    सोमवासरे अहं प्रायः व्यापृतः अस्मि। अपि सोमवासरे तावत् (really) व्यापृतः अस्मि अथवा द्विदिवसस्य अवकाशस्य परं तत् अनुभवामि इति न जानामि। किन्तु व्यापृतः अस्मि इति भावः मयि अस्ति।

    २०१२-०५-२८ सोमवासरः (2012-05-28 Monday)

     
  • Himanshu Pota 11:52 am on May 27, 2012 Permalink | Reply  

    पूर्वसङ्ग्रहः (Archives) 

    सर्वे जानन्ति अहं – इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् – इति अस्य प्रशंसकः अस्मि। ह्यः मया ज्ञातम् जालपत्रे पूर्वसमचाराणाम् सङ्ग्रहः अपि अस्ति।
    http://www.newsonair.com/language-text-bulletins-archive.asp – text archive
    http://www.newsonair.com/language-bulletins-archive.asp – MP3 audio archive
    मन्ये इमे समाचाराः शिक्षणाय उत्तमसाधनानि सन्ति।

    मुख्यपृष्ठे अपि सङ्केतः अस्ति – Audio/Text Archives.

    २०१२-०५-२७ रविवासरः (2012-05-27 Sunday)

     
  • Himanshu Pota 10:01 am on May 26, 2012 Permalink | Reply  

    चिञ् चयने (To arrange in order) 

    चिञ् इति धातुः स्वादिगणी उभयपदी धातुः अस्ति।
    सः चिनोति। तौ चिनुतः। ते चिन्वन्ति। त्वं चिनोषि। युवां चिनुथः। यूयं चिनुथ। अहं चिनोमि। आवां चिन्वः। वयं चिन्मः।
    अस्मात् धातोः उपचयः इति वृधिः अर्थे अपचयः इति क्षयः अर्थे इमौ शब्दौ भवतः।
    इदानीं विनिमये रुप्प्यकाणां मूल्ये अपचयः भवति किन्तु डोलरस्य मूल्ये उपचयः भवति।
    इदानीं विनिमये रुप्प्यकाणां मुल्यम् अपचिनोति/अपचीयते। किन्तु डोलरस्य मूल्यम् उपचिनोति।

    २०१२-०५-२६ शनिवासरः (2012-05-26 Saturday)

     
    • hnbhat 1:45 pm on May 26, 2012 Permalink | Reply

      चि – 1 To collect, gather, accumulate (said to govern two accusatives being a द्विकर्मक root, but this use is very rare in classical literature), वृक्षं पुष्पाणि चिन्वती. -2 To gather for oneself, acquire, gather.

      This is transitive verb and also as given by Apte double object द्विकर्मक also. Its use is dissimilar to English verb to increase (which has got both transitive and intransitive usages). Intransitive usage is equal to वर्धते and transitive usage is somewhate similar to this verb. The increased the number of boys – ते बालानां संख्यामुपचिन्वन्ति could hardly convey the English Meaning.

      सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः।
      शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्॥

      The three pluck the earth flowering wealth,(or they make the earth to yield golden flowers). the valorous,the scholar and the one who knows to serve others.

      In other words, they themselves pluck the golden flowers of the earth.

  • Himanshu Pota 10:54 pm on May 25, 2012 Permalink | Reply  

    सशेषं कार्यं कृतम् (Did Incomplete Work) 

    अद्य मया कार्यालये सशेषं कार्यम् एव कृतम्। किञ्चित् तथापि अवशेषम् अस्ति तं कार्यं सुप्त्वा पूर्वं करिष्यामि।

    २०१२-०५-२५ शुक्रवासरः (2012-05-25 Friday)

     
    • hnbhat 2:51 am on May 26, 2012 Permalink | Reply

      अवेशेषम् अस्ति तं कार्यं सुप्त्वा पूर्वं करिष्यामि। ?

      • Himanshu Pota 8:58 am on May 26, 2012 Permalink | Reply

        अवशेषम् इति लेखनीयम् ।

        • hnbhat 2:59 pm on May 27, 2012 Permalink

          अवशिष्टमिति साधीयान् प्रयोगः।

      • hnbhat 3:05 pm on May 27, 2012 Permalink | Reply

        अवशिष्टं कार्यं सुप्त्वोत्थितः करिष्यामि इति सुन्दरं वाक्यम्। पूर्वं सुप्त्वा, पश्चाद् उत्थाय, अवशिष्टं कार्यं करिष्यामि इति सरलं वाक्यं स्पष्टार्थप्रतिपत्तिं जनयति।

        तं कार्यमिति असाधुरेव, कार्यशब्दस्य नपुंसकलिङ्गे प्रयोगात्, तत् इति सर्वनामापि नपुंसकलिङे एव प्रयोक्तव्यः।

        पूर्वं सुप्त्वा, पश्चात् करिष्यामि इति तु संगच्छते, स्वापानन्तरं करिष्यामि इति स्पष्टतरं वाक्यम्।

        • Himanshu Pota 11:15 am on May 28, 2012 Permalink

          धन्यवादः।

        • hnbhat 12:29 pm on May 28, 2012 Permalink

          सुप्त्वोत्थितः – पूर्वं सुप्तः, पश्चादुत्थितः इत्यस्मिन्नर्थे,

          समासोऽपि – सुप्तोत्थितः इत्यपित् समासरूपम्, सुप्त्वा उत्थितः इति व्यस्तः प्रयोगः, यत्र समासो न भवत्येव। अनन्तरे वाक्ये तु समासस्तु भवत्येव, तस्मिन्नेव वाक्यार्थे। इति विदांकरोतु।

  • Himanshu Pota 10:54 pm on May 24, 2012 Permalink | Reply  

    ज्वलिता परीक्षते (Jwalita Examines) 

    आगामिवर्षे ज्वलिता अन्यस्मिन् विद्यालये प्रवेक्ष्यति तस्मात् सा अद्य निकटस्थस्य विद्यालयस्य परीक्षणस्य करणाय/परीक्षणाय मया सह अगच्छत्। विद्यालयः नूतनः अस्ति। अन्तः प्रविश्य अहं न जानामि विद्यालये अस्मि अथवा चलचित्रगृहे।

    २०१२-०५-२४ गुरुवासरः (2012-05-24 Thursday)

     
    • hnbhat 2:50 am on May 26, 2012 Permalink | Reply

      अन्यशब्दस्य सर्वनामत्वात् अन्यस्मिन् इति साधुप्रयोगः।

      “उभय। डतर। डतम। अन्य। अन्यतर। इतर। त्वत्। त्व। नेम। सम। सिम। ” इति सर्वनाम्नां गणपाठः।

      एवं परीक्षणं करणाय – इति न साधुः प्रयोगः – परीक्षणस्य करणाय इति साधीयान् प्रयोगः।
      “कर्तृकर्मणॊः कृति”(6.1.5) इति नियमात्। परीक्षणाय इति सुलभः प्रयोगः साधीयान्।

      एवं अन्तः प्रविश्य इति साधीयान् प्रयोगः।

      • Himanshu Pota 9:08 am on May 26, 2012 Permalink | Reply

        धन्यवादः। परीक्षणं करणाय इति ईदृशः प्रयोगान् अहम् अनेकवारम् अकरवम् । अयं न साधुः प्रयोगः तत् दर्शणाय नैके धन्यवादाः।

  • Himanshu Pota 10:55 pm on May 23, 2012 Permalink | Reply  

    ज्वलितायाः तरणाभ्यासः (Jwalita’s Swimming Practice) 

    अद्य सायंकाले ज्वलिता तरणाभ्यासाय अगच्छत्। तदा अहं तां विद्यालयम् अगच्छम्। तस्याः विद्यालये वाद्यवृन्दाय धनार्जनाय श्वः खाद्यसामग्रयां विक्रयस्य कार्यक्रमः अस्ति। तस्मात् अहं वातीन्धनस्य तिस्रः कुप्यः शीनस्य (of ice) त्रयः प्रसेवः च आपणात् आनयम्। इदं कृत्वा ज्वलितां तरणकुण्डात् नयित्वा गृहम् आगच्छम्।

    २०१२-०५-२३ बुधवासरः (2012-05-23 Wednesday)

     
  • Himanshu Pota 10:08 pm on May 22, 2012 Permalink | Reply  

    सत्सङ्गत्वे निस्सङ्गत्वम् (Detachment from attachment) 

    सङ्गः अस्मात् कर्तव्यं यस्मात् निस्सङ्गत्वं जायते। सः सङ्गः सत्सङ्गः एव अस्ति।

    २०१२-०५-२२ मङ्गलवासरः (2012-05-22 Tuesday)

     
    • hnbhat 3:16 pm on May 27, 2012 Permalink | Reply

      इदं वाक्यं -

      सत्सङ्गत्वे निस्स्ङ्गत्वं निस्स्ङ्गत्वे निर्मोहत्वं ।
      निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्तिः ॥

      इति भजगोविन्दस्तोत्रस्थश्लोकस्य प्रथमः पादः।

      सताम् = सज्जनानाम्, सङ्गः – सेवनम्, शुश्रूषा, सत्सङ्गः इति तात्पर्यम्। न तु सन् सङ्गः – सत्सङः इति कर्मधारयः।
      यदा सज्जनसंसर्गः भवति, तदा निस्स्ङ्गत्वम् = वैराग्यम्, उत्पद्यते इति वाक्यार्थः।

      For a lucid English Translation of the complete verse, please see:

      https://sites.google.com/site/avshouston/home

  • Himanshu Pota 10:02 pm on May 21, 2012 Permalink | Reply  

    अपचितिः (Loss) 

    तस्मात् विनिमयात् एकलक्षरुप्यकाणाम् अपचितिः अभवत्। अनावृष्ट्याः सस्यस्य अपचितिः अभवत्।
    मन्ये चयः इति वृद्धिः इति अर्थे प्रयोक्तुं शक्यते किन्तु तस्य प्रयोगः कथं करणीयम् इति न जाने।

    २०१२-०५-२१ सोमवासरः (2012-05-21 Monday)

     
    • hnbhat 1:47 am on May 26, 2012 Permalink | Reply

      उपचयः – वृद्धिः – उपचिनोति – increases in size or quantify.

      अपचयः – क्षयः – अपचिनॊति, अपचीयते – decreases in size or quantify or quality.

      इति चिञ् चयने – इति धातोः, उपसर्गबलादर्थविशेषः। अपचयः – strictly means decline. and final state is loss. नाशः।

      षड् भावविकारा भवन्ति इति वार्षायणिः।
      जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यति इति निरुक्तम्(१,२).

      केवलस्य चय इति शब्दस्य समूहः इत्यर्थः रूढः, उपसर्गाभवे न वृद्दिरिति ((increase), अपचयः इति क्षयः(decrease) इति
      नार्थलाभः।

    • hnbhat 3:24 pm on May 27, 2012 Permalink | Reply

      According to Amara, अपचिति is synonym for नमस्या worship.

      1. नमस्या स्त्रीलिंग
      2. अपचितिः स्त्रीलिंग
      3. सपर्या स्त्रीलिंग
      4. अर्चा स्त्रीलिंग
      5. अर्हणा स्त्रीलिंग

      All these are in feminine and the word you quoted means पूजा, अर्चा. Here is one more अमर online search database:

      http://sanskrit.jnu.ac.in/amara/viewdata.jsp

      Before using any new word, you can just search for its popular usage in the above data base. For searching you are required to know the “varga” in the word occurs. Otherway you can get alphabetical list like a dictionary unlike the one provided by Mm. Amaba Kulkarni.

c
compose new post
j
next post/next comment
k
previous post/previous comment
r
reply
e
edit
o
show/hide comments
t
go to top
l
go to login
h
show/hide help
shift + esc
cancel
Follow

Get every new post delivered to your Inbox.

Join 236 other followers