विशदः (Clear)
इयम् आकाशवाणी इति संकृतसमाचारे असीत् सः संस्कृतसमाचारस्य उपयोगिता विशदीकृता इति। विशदः इति उपयोगी शब्दः अस्ति।
अद्य मया इमौ श्लोकौ पठितौ
पण्डितकृष्णाचर्यैः तिङन्तरूपाख्यसागरं सम्यक्।
निर्मथ्य सज्जनेभ्यः प्रत्ता सुबृहती सुधातुरूपालिः॥१॥
इयमिह तु धातुरूपं दर्शयति नकेवलं विशदम्।
अपि तु समये बुधानां स्वरूपमपि हन्त सर्वतो विशदम्॥२॥
अहम् अन्तिमपङ्क्त्याः अर्थं न बोधामि। यदि भवान् अर्थं कर्तुं शक्नोति तर्हि कृपया अधः अर्थं लिखतु।
प्रत्ता – given by, हन्त – Ah!
२०१२-०७-०४ बुधवासरः (2012-07-04 Wednesday)
hnbhat 3:56 pm on July 5, 2012 Permalink |
प्रत्ता – प्रकर्षेण दत्ता इत्यर्थः। अजन्तादुपसर्गात् परस्य दा-धा-रूपाणां धातूनां त् इत्यादेशः। अत्र प्र इत्युपसर्गाद् दा-द्गात्तोः क्तप्रत्यये रूपम्। “अच उपसर्गात्तः” इति। एवमन्यत्राप्युसर्गेषु – अवत्तम्, उपत्तम्, – समीपे दत्तम्, उपहाररूपेण दत्तमितियर्थः।
एवमकारान्ताद् उपसर्गात्। अन्यथा, नीत्तम्, सूत्तम्, परीत्तम्, अनूत्तमित्यादिः नि, सु, परि, अनु इत्युपसर्गेभ्यः दा-धातोः रूपाणि। अत्र विशेशः – “दस्ति”(६।३।१२३) इत्युपर्गस्याचः इकारस्य उकारस्य च दीर्घः। अयमादेशः, अजन्तेभ्यः उपसर्गेभ्य एव। तेन, निर्दत्तम्, दुर्दत्तम्, इत्यत्र न भवति।
सम्यक् तिङन्तरूपाख्यसागरं निर्मथ्य – सम्यग्रीत्या तिङ्गन्तरूपाख्यं सागरं निर्मथ्य – निःशेषतो मन्थनं कृत्वा, आलोड्य, आलोच्य इत्यर्थः। पण्डितकृष्णाचर्यैः आचार्यैः लेखकैः,
सुबृहती सुधातुरूपालिः – तन्नामकः ग्रन्थविशेषः,
सज्जनेभ्यः प्रत्ता – विदुषां कृते समर्पिता इत्यर्थः।
इयमिह तु – इयं तु धातुरूपावलिः, न केवलं धातुरूपं विशदं दर्शयति, – धातूनां रूपम् – क्रियापदरूपम्, विशदं यथा स्यात् तथा इति क्रियाविशेषणम्, दर्शयति – प्रकाशयति,
अपि तु = किं तु, समये बुधानां स्वरूपमपि = कदाचित् बुधानाम् = विदुषाम्, कृष्णमाचार्याणाम्, स्वरूपमपि = स्वपाण्डित्यरूपमपि, सर्वतो विशदम् दर्शयति – सर्वथा स्पष्टतया प्रकाशयति। हन्त इति हर्षे अव्ययम्।
अनेन श्लोकस्य कठिनपदार्थानामन्वयपुरःसरं विशदं व्याख्यानं कृतम्। यदि सन्देहः, तदा तदा परिप्रश्नेन निवारयितुं शक्यते।
hnbhat 4:20 pm on July 5, 2012 Permalink |
अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि ।
सुदत्तमनुदत्तं च निदत्तमि इति चेष्यते । । (पा-७,४.४६)
इति महाभाष्यप्रयोगादेतेषु रूपान्तराणि अर्थान्तरे दृश्यन्ते। आदिकर्मणि क्तप्रत्यय इत्यर्थः। दातुमारब्धवानिति अर्थः। अन्यत्र भूते क्तः, तकारादेशस्य विषयः इति विवेकः। अथवा,
अत्र अवगतं दत्तम् इत्यादिरर्थविशेषे अवशब्देन प्रादिसमासे, उपसर्गाभावात् अच उपसर्गादिति न तकारादेशः इत्यपरः प्रकारः। पूर्वं गतिसमासः। अत्र् प्रादिसमासः इति भेदः।
परं प्रसिद्धानि रूपाणि तु – व्यात्तम् – वि+आ+ददाति, अदात्, > व्यात्तम्, opened mouth, cavity etc. उद्+आ+दा > उदात्तः स्वरः। आत्तम् = आ+दा- = to take, receive. आत्तम्, उपात्तम् – taken. उप+ददाति = gives as a gift. इत्यादयः प्रसिद्धाः प्रयोगाः। उक्तेभ्योन्यत्र न रूपद्वयम्।