केटी-टोम-देवौ अस्मान् छलयतः (Katie Holmes and Tom Cruise Cheat Us)
अस्माकं सामान्यजनानाम् आधरः अस्ति देवानां जीवनम्। ते कथयन्ति केटी-टोम-देवौ कियत् मिथः प्रीतिं कुरुतः। ताभ्यां अस्माभिः शिक्षितव्यम्। किन्तु अद्य ते कथयन्ति ते गत-अनेकमासात् पृथक् आस्ताम्। इदं कियत् छलम् अस्ति। अस्माभिः सामान्यजनैः सह छलं तयोः देवयोः न शोभते। इमौ देवौ अपतताम्। इदानीं कः अस्माकं देवः भवितुम् अर्हति? यः देवः सः अस्मान् न छलयिष्यति।
२०१२-०७-०२ सोमवासरः (2012-07-02 Monday)
Lakshmi Srinivas 2:25 pm on July 3, 2012 Permalink |
टोमवर्यस्य जातके कोऽपि दोषः अस्तीति बहवः मन्यन्ते । तस्य प्रत्येका पत्नी तस्याः त्रयस्त्रिंशत्तमे वयसि एव तं त्यक्त्वा नवजीवनं प्रारभते।
मीमीवर्या, निकोलवर्या च अधुना केटीवर्या आत्मनः ३३ वयसि पृथक्करणं प्रारभन्त ।
अपि च टोमवर्यस्य भार्याः सर्वाः तस्मात् किञ्चिद् दीर्घतरा सन्ति। स्वपतेः दीर्घतरा भार्या प्रायः पार्ष्णिपादुके न धारयति। परन्तु स्त्रीभ्यः एषः महत्त्यागः अस्ति। अतः स्त्रियः स्वरूपालङ्कारस्वातन्त्र्यं अनुभवितुं टोमवर्यं शीघ्रमेव त्यजन्ति इति मम मतः।
निकोलवर्या एकेन वार्त्ताहरेण संभाषणं कुर्वन्ती एवमकथयत् – विवाहविच्छेदपर्यन्तं अहं पार्ष्णिपादुके सहर्षं धारयामि।
http://www.cnn.com/CNN/Programs/people/shows/kidman/profile.html
Himanshu Pota 12:09 am on July 4, 2012 Permalink |
तस्य भार्याः दीर्घकायाः आसन् किन्तु ताः लघुवार्षिकाः अपि आसन् । अहं मन्ये ताः तं न अत्यजन् सः ताः अत्यजत् ।
Kris Dombkowski 12:12 am on July 29, 2012 Permalink |
Very interesting subject , appreciate it for putting up. “The maxim of the British people is ‘Business as Usual.’” by Sir Winston Leonard Spenser Churchill.