अविलम्बेन पश्यतु शृणोतु च – http://www.youtube.com/playlist?list=PL498DD92172740CBE
Sanskrit Stories with subtitles
Updates from July, 2012 Toggle Comment Threads | Keyboard Shortcuts
-
Himanshu Pota
झलां जशोऽन्ते (jhal to jash)
झलां जशोऽन्ते॥८।२।३९॥
अनुवृत्तिः मिलित्वा इदं सूत्रं भवति झलां जशः पदस्य अन्ते।
झल् इति वर्गाणां प्रथम-द्वितीय-तृतीय-चतुर्थवर्णाः, श ष स ह।
जश् इति वर्गाणां तृतीयवर्णाः।
स्थानेऽन्तरतमः॥१॥१॥४९॥ इति सूत्रेण पदान्तः
क् ख् ग् घ् -> ग्
च् छ् ज् झ् -> ज्
ट् ठ् ड् ढ् -> ड्
त् थ् द् ध् -> द्
प् फ् ब् भ् -> ब्
श् -> ज्
ष् -> ड् सम्राज् -> सम्राष् -> सम्राड्
स् -> द्
ह् -> ग्२०१२-०७-१५ रविवासरः (2012-07-15 Sunday)
-
hnbhat
-
Himanshu Pota
प्रिय हिमांशु,
यदि उदाहरणानि दीयन्ते, तेन सूत्राणां “व्यावहारिकता” स्पष्टा भवति खलु ?
यथा वाक् + वर्धिनी = वाग्वर्धिनी (क् –> ग्); उत् +धर्तुम् = उद्धर्तुम् (त् –> द्);तथापि उत् + चारः = उच्चारः (त् –> च् ?) अथवा
सत् + जनः = सज्जनः (त् –> ज्) अथवा
कदाचित् अत्र “स्थानेऽन्तरतमः॥१॥१॥४९॥” इति सूत्रेण (?) यथा -
“उत् + चारः = उच्चारः”-इत्यस्मिन् त्-च्-योः च् अन्तरतमः भवति । अतः त्-स्थाने च् ।
“सत् + जनः = सज्जनः”-इत्यस्मिन् त्-ज्-योः ज् अन्तरतमः भवति । अतः त्-स्थाने ज् ।
उत् + श्वासः = उच्छ्वासः (त् + श् = च् + छ)
अत्र अन्यदेव सूत्रम् कदाचित् ?झल् = झ् भ् (ञ्) घ् ढ् ध् (ष्) ज् ब् ग् ड् द् (श्) ख् फ् छ ठ् थ् च् ट् त् (व्) क् प् (य्) श् ष् स् (र्) ह् (ल्) इति २४ वर्णाः ।
अत्र क्-वर्गात् :- घ् ग् ख् क् ; च्-वर्गात् :- झ् ज् छ च् ; ट्-वर्गात् :- ढ् ड् ठ् ट् ; त्-वर्गात् :- ध् द् थ् त् ; प् – वर्गात् :- भ् ब् फ् प्
तथैव श् ष् स् ह् ।
झलां इति एतेषाम् सर्वेषाम् -
जशोऽन्ते = ज् ब् ग् ड् द् (श्) ।“ज् ब् ग् ड् द् (श्)”-इत्यस्मिन् प्रत्याहारे वर्गाः च्, प्, क्, ट्, त् इति क्रमेण यद्यपि “च् ट् त् (व्) क् प् (य्)”-इत्यस्मिन् प्रत्याहारे क्रमः भिन्नः । कथमिदम् ?
“झलां जशोऽन्ते” इत्यस्य अन्वयार्थः कथम् ? “(यदा झलः) अन्ते (तेषाम्) जशः” इति ?
झलः इति झल्-शब्दस्य बहुवचनम् । झलां-इति झल्-शब्दस्य षष्ठी-बहुवचनम् ।
झल् = झ्-तः ल्-पर्यन्ताः सर्वे वर्णाः ।
जशः इति जश्-शब्दस्य बहुवचनम् ।
जश् = ज्-तः श्-पर्यन्ताः सर्वे वर्णाः ।
यदि “श् ष् स् (र्) ह् (ल्)” अन्ते भवन्ति, तेषामपि जशः? कान्यपि उदाहरणानि ?सन्त्युपरि केऽपि अधोरेखिताः प्रश्नाः । तेषां विषये भवतः विचारान् ज्ञातुमिच्छामि ।
सस्नेहम्,
श्रीपादः |
“श्रीपतेः पदयुगं स्मरणीयम् ।”-
Himanshu Pota
उद् + चारः – इति स्थिते, “स्तोः श्चुना श्चुः” (॥८।४।४०॥) इति तकारस्य श्चुत्वेन जकारः।
उज्+चार – खरि च ।८।४।५५। इति सूत्रेण चर्त्वे
उच्+चारः > उच्चारः इति भवति।एवमेव,
उद् + श्वासः इति “शश्छो ऽटि॥“(पा_८,४.६३) इति शकारस्य वकाररूपः अट्-परः इति छकारः आदेशः।
उद्+छ्वासः – स्तोः श्चुना श्चुः ॥८।४।४०॥ इति दकारस्य श्चुत्वे,
उज् + छ्वासः – पूर्ववत् “खरि च ।८।४।५५।“ इति सूत्रेण चर्त्वे
उच्+छ्वासः > उच्छ्वासः इति रूपम्।हो ढः ॥८।२।३१॥ हकारस्य पदान्ते ढकारः भवति “झलां जशोऽन्ते” ॥८।२।३९॥ इति सूत्रेण जश्त्वस्य अपवादः । तस्मात् हकारस्य जश्त्वं न भवति किन्तु ढकारः भवति। तस्य जश्त्वेन डकारः। लिट्, लिड्, इति जश्त्वे कृते रूपम्। एवं लिड्भ्याम् इत्यादि हकारान्तस्य लिह्-शब्दस्य रूपाणी।
-
hnbhat
यदि उदाहरणानि दीयन्ते, तेन सूत्राणां “व्यावहारिकता” स्पष्टा भवति खलु ?
सत्यम्।
सोदाहरणं प्रक्रिया प्रदर्श्यते एकैकस्यांशस्य।
तत्र अन्वयस्तावत् पदस्य अन्ते झलां जशः भवन्ति इति।
झल्-वर्णानां वर्गीयाणां पञ्चविंशतिवर्णानाम्, अवर्गीयानां श,ष, स, ह इत्येषां च वर्णानाम् ग्रहणम्। पदस्य अन्ते यदा भवन्ति, “सुब्-तिङन्तं पदम्” इति निरुक्तस्य पदस्य अन्ते – अवसाने यदा ते भवन्ति, तदा, तेषां स्थाने, जशः – जश्-प्रत्याहारस्थाः वर्णाः, वर्गाणां तॄतीयवर्णा भवन्ति इति सूत्रार्थः।
तत्र, च-ज-कारान्तशब्दानाम्, “चोः कुः” इति कवर्गादेशः इति उभयोः, मिलित्वा एकमुदाहरणम् -
वाग् -अत्र – वागत्र। इति चकारान्तस्य वाच्-शब्दस्य। जकारान्तस्य तु कुत्वेन गकार एव – भिषग् – अत्र – भिषगत्र।
अत्र, “वावसाने” इति यद्यपि वर्गप्रथमवर्णानां संभवः, तथापि, वाच्-वाक्_वाग् इति क्रमेण गकार एव+ एवमेव द्वितीयोदाहरणेऽपि।
छकारस्य , पृच्छति इति प्राड् इति, “व्रश्चभ्रश्च—” इत्यादिना षकारादेशे, तस्य प्राष् इति जाते, षकारस्य जश्वर्णः – डकारः।
इति षकारस्य, छकारस्य च एकमेवोदाहरणम्।
एवमेव, शकारान्तस्य च, शकारन्तः विश्-शब्दः। तस्यापि, पूर्ववदेव, शकारस्य षकारे, तस्य जश्वर्णः डकारः।
विड्+एव – विडेव।टवर्गस्य च उदाहरणमत्रैवागतम्। विश्- पदान्ते, विड्/ तस्यापि “वावसाने” इति चर्त्वेन टकारे, विट्+एव, इति जाते, पुनः जशेव डकारः।
तवर्गस्य, शत्रुजित् शब्दः, तकारान्तः, तस्य शत्रुजित्, शत्रुजिद् इति पदान्ते रूपद्वयम्। तस्यापि एवमेव, शत्रुजित्+एव, शत्रुजिद्+एव > शत्रुजिदेव।
पवर्गान्तस्यापि, गोपायति इति गुप्, गुब् – इति पकारान्तः शब्दः, प्रथमैकवचने, अवसाने, तस्यापि रूपद्वयमिति तयोरपि एकमेवोदाहरणम्, बकारादेशस्य। गुप्+एव > गुब्+एव > गुबेव इति।
भकारान्तह् स्त्रीलिङ्गे ककुभ्-शब्दः, दिग्वाचकः। तस्य जश्वर्णः, बकारः – ककुभ्+एव > ककुप् > एव > ककुबेव इति जशेव।
हकारान्तस्य कामदुह्- शब्दस्य, कामढुक्, कामधुग् इति कामधुगिति
हकारान्तस्य लिह्-शब्दस्य – लिट्, लिड् – इति लिडितिइति च रूपाणि पदान्ते। यदा तु तेषां वर्गीयावर्गीयव्यञ्जनानां योगः, तदा “झलां जश् झशि” इति सूत्रस्य विषयः इति पूर्वमेव दर्शितम्। तत्र च सूत्रान्तराणामवकाशः यथायोगं वर्तते एव, इति नास्योदाहरणॆष्वन्तर्भावः, किं तु अन्यस्य।
-
-
-
Himanshu Pota
दृष्टः (Seen)
मां सदैव संशयः बाधते स्म, अपि दृष्टः अस्ति अथवा द्रष्टः अस्ति, द्रष्टव्यम् अस्ति अथवा दृष्टव्यम् अस्ति। इति।
क्त क्तवतु क्त्वा इति कृत्-प्रत्ययाः कितः सन्ति तेषु प्रत्ययेषु गुणवृद्धी न भवतः। अन्यत्र गुणवृद्धी भवतः। इति स्थितिः।
दृश्+ण्वुल् – दर्शकः, अनीयः, दर्शनीयः इति। ऋ इति अर् इति भवति।
क्त-क्तवतु-क्त्वा-प्रत्ययेषु तु -
दृश्+त इति स्थिते, “पुगन्तलघूपधस्य च” इति ऋकारस्य गुणः, क्तक्तवतुप्रत्यययोः कित्वात् न भवति।
तथा च, व्रश्वभ्रस्जसृजमृजयजराजभ्राजच्छशां षः॥८।२।३६॥ शकारस्य षत्वे,
दृष्+त, तवत्, त्वा
ष्टुना ष्टुः॥८।४।४१॥ तकारस्य ष्टुत्वे,
दृष्+ट, दृष्+टवत्, दृष्+ट्वा -
दृष्टः, दृष्टवान्/दृष्टवत्, दृष्टवती, दृष्ट्वा इति ऋकारसहितानि रूपाणि।एवमेव दृष्टिः इति क्तिन् प्रत्यये, स्तीलिङ्गे रूपम्।
सृष्टिः, सृष्टवान्, सृष्टवत्, सृष्टवती, सृष्ट्वा इति रूपाणि।क्रमेण व्युत्पत्तिदर्शनं यथा —
दृश् + क्त = दृश् + त (हलन्त्यम्) = दृष्ट (स्तोः ष्टुना ष्टुः)
दृश् + क्तवतु = दृश् + क्तवत् (उपदेशेऽजनुनासिक इत्) = दृश् + तवत् (लशक्वतद्धिते) = दृष्टवत् (स्तोः ष्टुना ष्टुः)
दृश् + क्त्वा = दृश् + त्वा = दृष्ट्वाइति संक्षेपः। कित्प्रत्ययभिन्नेषु, तुमुन्-तव्य-तव्यत्-समानेषु झलादिप्रत्ययेषु कृत्प्रत्ययेषु तु पूर्ववत् लघूपधगुणे प्राप्ते तस्य अपवादः “सृजिदृशोर्झल्यमकिति” (॥६।१।५८॥ ) इति अम् इति आगमः भवति, गुणापवादः, झलादिप्रत्ययेषु अनयोः सृज्-दृश् इति द्वयोर्धात्वोः। अमागमः, मकारस्य “हलन्त्यम्” इति इत्संज्जायाम्, “तस्य लोपः”। शिष्टः अ-कारः, “मिदचोऽन्त्यात् परः” इति अन्त्याद् अचः – ऋकारात् परः विधीयते आगमः।
एवं च – तुमुन् तव्यत्, प्रत्ययेषु दृ+अ-श् +तुम्, तव्य > “इको यणचि”(॥६।१।७७॥) इति ऋकारस्य यण् – रेफादेशे
द्र+श्+तुम्, तव्य > पूर्ववत् “वश्चभ्रश्च- ” इत्यादिना षत्वे, त-कारस्य ष्टुत्वे च क्रमेण —दृश् + तुमुन् = दृश् + तुम् = द् + ऋ + श् + तुम् = द् + ऋ + अम् + श् + तुम् = द्रष्टुम्
दृश् + तव्यत् = द्रष्टव्यम्, द्रष्टव्यः, द्रष्टव्या इति च रूपाणि।
एवमेव, झलादिप्रत्ययेषु कित्त्वाभावे, द्रष्टा, द्रष्टारौ, द्रष्टारः इति तृन्-प्रत्यये पुंलिङ्गे, स्त्रीलिङ्गे
द्रष्ट्री – द्रष्ट्र्यौ – द्रष्ट्र्यः। इति च रूपाणि।————–द्रष्टव्यानि सूत्राणि
हलन्त्यम्॥१।३।३॥ उपदेशेऽजनुनासिक इत्॥१।३।२॥ एकाच उपदेशेऽनुदात्तात्॥७।२।१०॥ सृजिदृशोर्झल्यमकिति॥६।१।५८॥ मिदचोऽन्त्यात् परः॥१।१।४६॥ इको यणचि॥६।१।७७॥ व्रश्वभ्रस्जसृजमृजयजराजभ्राजच्छशां षः॥८।२।३६॥ ष्टुना ष्टुः॥८।४।४१॥
अयम् उल्लेखः मया आरब्धः किञ्चित् लिखितः च किन्तु भट्टवर्येण संशोधितः। धन्यवादः।
२०१२-०७-१४ शनिवासरः (2012-07-14 Saturday)
-
S. L. Abhyankar
Does discussion of कृदन्त-s in Lesson #10 at http://simplesanskrit.wordpress.com/ help in clarifying the doubts raised in this post ?
-
hnbhat
एवमेव स्रष्टा, स्रष्टारौ – स्रष्टारः, इति पुंलिङ्गे ऋकारान्ते तृन्-तृच्-प्रत्यययोः रूपाणि।
स्रष्टुम्, स्रष्टव्यम् इति च।
-
Himanshu Pota
अनुदात्तस्य चर्दुपधस्याऽन्यतरस्याम् ॥६।१।५८॥ इति सूत्रेण अन्येषु अनिट्सु धातुषु ह्रस्वऋकारोपधानां ऋकारस्य विकल्पेन अमागमः भवति झलादौ अकिति प्रत्यये। क्रष्टुम्, कर्ष्टुम्, इत्यादि उभयमपि रूपं भवति।
-
-
Candyce Christison
That’s pretty awesome but… hey, Nintendo, you already have an island!Now put some landing zones, airplanes, jetpacks and bring us a PilotWiings!
-
-
Himanshu Pota
लप्स्यते (Will obtain)
अपि
लभ् + स्य + ते = लप् + स्य + ते (खरि च ८।४।५५)
= लप्स्यते?२०१२-०७-१३ शुक्रवासरः (2012-07-13 Friday)
-
http://www.zimbio.com/Kim+Kardashian/articles/okac40OXzj2/Kim+Kardashian+Blog?add=True
Howdy would you mind stating which blog platform you’re working with? I’m looking to start my own blog in the near future but I’m having a difficult time making a decision between BlogEngine/Wordpress/B2evolution and Drupal. The reason I ask is because your layout seems different then most blogs and I’m looking for something unique. P.S Sorry for getting off-topic but I had to ask!
-
hnbhat
with “अपि” the phrase लप्स्यते would mean Will it can be obtained or
अपि स धनं लप्स्यते? Will he get money/wealth?
अपि तेन धनं लप्स्यते? Will money can be obtained by him? in the passive voice.The same प्रक्रिया as रभ्-
लभ् + स्य + ते “खरि च” चर्त्वम्, लप्+स्य+ते।
-
-
Himanshu Pota
आरब्धव्यः (Started)
आ + रभ् + तव्यत् = आ + रभ् + तव्य (हलन्त्यम् १।३।३)
रभ् इति अनिट् धातुः अस्ति तस्मात् इटागमः न भवति।
झषस्तथोर्धोऽघः॥८।२।४०॥
झषः + त-थोः + धः + अधः। अर्थः – झषः परयोः तकार-थकारयोः स्थाने धकारः आदेशः भवति धा-धातुं वर्जयित्वा। झष् – वर्गाणां चतुर्थवर्णाः। (पृष्ठः ८१, व्यावहारिकं पाणिनीयम्, संस्कृतकार्यालयः, श्रीअरविन्दाश्रमः।)
आ + रभ् + तव्य आ + रभ् + धव्य आरब्धव्य + सु = आरब्धव्यः (झलां जश् झशि ८।४।५३)२०१२-०७-१२ गुरुवासरः (2012-07-12 Thursday)
-
muraleedhara upadhya
namasthe, link to your blog in http://sanskritnetloka.blogspot.in muraleedhara upadhya
-
hnbhat
अत्र प्रत्ययद्वयम्, तव्य, तव्यत् च। तव्यत्-प्रत्यये, अन्त्यस्य तकारस्य “हलन्त्यम्” इति इत्संज्ञायां “तस्य लोपः”। प्रथमे तव्य-प्रत्यये, एषा प्रक्रिया नापेक्षिता इति ज्ञेयम्।
-
-
Srinivasa
ज्यामितिप्राचार्यः सौश्रवसः
गतमासे ३० जून् दिनाङ्के प्यारीस् नगरे तत्रस्थे भारतभवने संस्कृतदिवससमारोहः आयोजितः इति श्रूयते। प्यारीस् नगरे प्रथमवारमायोजिते अस्मिन् समारोहे उपस्थिताः सन्तः जनाः देवभाषायाः महत्त्वं सम्यग् अनुभूतवन्तः भूयः प्रशंसितवन्तः च इत्यपि श्रूयते। समारोहकार्यक्रमपटले ‘सौश्रवसपाणिनिशास्त्ररीतिद्वयपरीक्षा’ इत्येकं चर्चाविषयं दृष्ट्वा अतीव विस्मयभूतोऽभवं कोऽयं सौश्रवसो यस्य शास्त्रः व्याकरणशास्त्रेण सह तुल्यते इति।
कार्यक्रमपटलं किञ्चिद् निरीक्ष्य सौश्रवसनाम्ना सूचितोऽयं शास्त्रज्ञः कः इति अवगच्छम्। स एव आङ्लभाषायां ‘यूक्लिड्’ इति अभिधीयते। यूक्लिड्वर्यः यवनदेशीयज्यामितिप्राचार्य: इति अखिलभुवने सुविदित: सुप्रसिद्धः सुपूजितश्च। तस्य बहुमूल्यशास्त्रः व्याकरणशास्त्रेण सह परीक्षितुमर्हतीति मन्ये।
२०१२-०७-११ बुधवासरः (2012-07-11 Wednesday)
-
Himanshu Pota
ज्वरितः अस्मि (Fever)
अद्य अहं ज्वरितः अस्मि। अत्र प्रचुरं शैत्यं अस्ति तस्मात् अहं शैत्यात् निगृहीतः अस्मि। शिरोवेदना भवति नासिके रुद्धे स्तः च।
२०१२-०७-११ बुधवासरः (2012-07-11 Wednesday)
-
Himanshu Pota
विधा (to do)
अष्टाध्यायी-सूत्रेण दधातेर्हिः ७-४-४२ इति विहितः विहितम् विहितवत् इति रूपाणि भवन्ति। विहितः इति इयम् आकाशवाणी इति संस्कृतसमाचारस्य प्रियः शब्दः अस्ति।
२०१२-०७-१० मङ्गलवासरः (2012-07-10 Tuesday)
-
Himanshu Pota
सिडनीनगरम् अगच्छाव (Went to Sydney)
अद्य अहं ज्वलितया सह सिडनीनगरम् अगच्छम्। तत्र ज्वलिता स्वदन्तचिकित्सकम् अमिलत्। तत् परम् अहं न्यू-साउथ-वेल्स-विश्वविद्यालयम् अगच्छम्। अन्ते दिव्यांशुं नीत्वा केन्बरानगरं प्रत्यागच्छम्।
२०१२-०७-०९ सोमवासरः (2012-07-09 Monday)
-
Himanshu Pota
निशीथः (Night)
निशीथः निशी रात्रिः।
रात्रौ रात्र्याम् इति अव्ययशब्दौ स्तः।२०१२-०७-०८ रविवासरः (2012-07-08 Sunday)
-
hnbhat
(१. ३ .. … … अथ शर्वरी,
निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा
विभावरीतमस्विन्यौ रजनी यामिनी तमी॥(अमरः १. ३-४)
रात्रौ रात्र्य्रामिति सप्तम्यन्तौ शब्दौ।
कुत एतत् अव्ययमिति? स्वरादिगणे पाठात् रात्रौ इत्यव्ययम्।
तत्रैव नक्तमिति रात्रौ।, दोषेति रात्रौ उषेति रात्रौ इति अव्ययत्रयमपि पठितम्।
-
श-ष-सानां तु,
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८।२।३६) इत्युभयोरपि शकारस्य षत्वे, षकारस्य च, जश्त्वे, डकारः।
तयोस्तु अवसाने “वावसाने” इति चर्त्वे, टकार एव। एवम्, सकारस्यापि, जश्त्वेन दकारः, तालव्य एव तृतीयः।
तस्यापि, चर्त्वेन तकारः।
जश् वर्णे डकार-दकारावेव अनयोः।