निदाघः (The hot season)
इयम् आकाशवाणी इति अस्य २४-०६-२०१२तमस्य दिवसस्य समाचारे ग्रीष्म-प्रकोपस्य चर्चा अस्ति। निदाघ-स्थितिः गभीरा अस्ति। चुरु-नगरे पञ्च-दशमलावाधिक-त्रि-चत्वारिंशन्मितं तापमानमाकलितम्। अहं मन्ये पञ्च-दशमलावाधिक-त्रि-चत्वारिंशन्मितं इति 43.5 degree C इति अस्ति। कथं 43.52 इति संस्कृतभाषायां लेखितुं शक्यते।
२०१२-०६-२६ मङ्गलवासरः (2012-06-26 Tuesday)
kevinbui89 7:07 am on June 28, 2012 Permalink |
I’m really sorry about bothering you Sir . But could you please help me to translate my younger name from Vietnamese to the Devanagari please !!!! HIs name is
BÙI PHƯƠNG ANH
If the Devanagari doesn’t have the ” ù ” “ư ” or ” ơ ” word or impossible to translate with these word . Can you translate name like PHUONG ANH BUi please ? Please help me as soon as possible Sir . It mean very much to me !!!! Thank you so much Sir !!!
baldevaanand-saagarah 6:44 pm on June 30, 2012 Permalink |
यम् आकाशवाणी इति अस्य २४-०६-२०१२तमस्य दिवसस्य समाचारे ग्रीष्म-प्रकोपस्य चर्चा अस्ति। निदाघ-स्थितिः गभीरा अस्ति। चुरु-नगरे पञ्च-दशमलावाधिक-त्रि-चत्वारिंशन्मितं तापमानमाकलितम्। अहं मन्ये पञ्च-दशमलावाधिक-त्रि-चत्वारिंशन्मितं इति 43.5 degree C इति अस्ति। कथं 43.52 इति संस्कृतभाषायां लेखितुं शक्यते।
२०१२-०६-२६ मङ्गलवासरः (2012-06-26 Tuesday)—– अत्र मया निज-विवेकानुसारेण किमपि वक्तव्यमस्ति -४३.५ इत्यस्य कृते शब्देषु ” त्रिचत्वारिन्शत्-दशमलव-पञ्च” इति, अपिच , ४३.५२ इत्यस्य कृते ” त्रिचत्वारिन्शत्-दशमलव-पञ्च-द्वि” इति लेखनीयम्. आकाशवाण्याः २०१२-०६-२६- मङ्गलवासरीय–प्रसारणे अशुद्धिः वर्तते. गणित-शास्त्रानुसारेण ”दशमलव”- गणनायां ८८ उतवा ३६ अस्ति चेत्- ”…………दशमलव-अष्ट-अष्ट” इति, उतवा ”……………..दशमलव-त्रि-षट्” इति वक्तव्यं लेखनीयम् अस्ति ….बलदेवानन्द-सागरः.
Himanshu Pota 12:43 pm on July 1, 2012 Permalink |
इदानीं मया ज्ञातं भवान् न तु संस्कृतप्रवीणः अस्ति किन्तु गणितप्रवीणः अपि अस्ति। मम मतेन दशमलवपरं केवलं अङ्कानि एव पठितानि। यथा १.२२ – एकः दशमलव-द्वि द्वि इति।
धन्यवादः ।
hnbhat 11:47 pm on July 6, 2012 Permalink |
तत्र काचन समस्या, संस्कृतानुसारेण चतुःपर्यन्तानां संख्यानां संख्यावाचित्वे, संख्येयवाचित्वे च भेदः। लिङ्गसंख्यान्वयस्तु दुर्वार एव। अविभक्तिकनिर्देशस्तु कथंचित् साध्य इति मे मतिः। (अपदं न प्रयुञ्जीत ; न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययः — महाभाष्यम् on ‘अनभिहिते’ ). दशमलवांशाः इति विशेष्यस्याभिमतत्वेन स्वीकारे, पुंलिङ्गे प्रयोक्तुं शक्यते पञ्च, त्रयः द्वौ, एकः, इति पृथक् पृथक्। अथवा समस्तप्रयोगस्तु दुर्घट एव। आङ्गलानुकरणं तु “प्रकृतिवद्विकृतिः” इति कथंचित् समाधेयम्।
संस्कृते दशमांशपद्धतिः कीदृशी आसीदिति न ज्ञायते, ततश्च तदनुसारेणे पठनं वा लेखनं वा न शक्यमिति चिन्तयामि।