शक् अनिट् धातुः (To be able – not it – root)
सः गन्तुं न शक्ष्यति।
शक् + ल्युट् = शकन (अपि शकनम् इति प्रयोगः अस्ति?)
शक् + क्त = शक्त, शक् + क्तवतु = शक्तवत्, शक् + क्त्वा = शक्त्वा। अत्र इडागमः न भवन्ति।
शक् + तुमुन् = शक्तुम्, शक् + तव्यत् = शक्तव्य, शक् + तृच्= शक्तृ।
विवरणाय कृपया पठतु – व्यावहारिकं पाणिनीयम् इति श्री-अरविन्दाश्रमेण प्रकाशितं पुस्तकम्।
यदि अत्र दोषाः सन्ति तर्हि पण्डिताः सूचयन्तु।
२०१२-०६-२३ शनिवासरः (2012-06-23 Saturday)
hnbhat 4:02 pm on June 23, 2012 Permalink |
शक्लृ शक्तौ – क्र्यादिः –
शक्नोतीति शक्तः। शक्तिः, शक्यः, शक्या इत्यादयः प्रसिद्धाः प्रयोगाः।
अन्यत्राप्रयोग एव।
अयं प्रयोगः वक्तुं शक्यः। इदं वक्तुं शक्यम्। इदं कर्तुमहं शक्तः, शक्नोमि इत्यादयः प्रयोगाः।
hnbhat 11:12 pm on June 23, 2012 Permalink |
क्षमां याचे – शक्लृ शक्तौ इति धातुः स्वादिः, न क्र्यादिः।
शक्नोति – गन्तुं शक्नोति, शक्तो भवति, शक्ता – शक्तासि, इत्यार्धधातुकविषये उदाहरणम्।
शक्ष्यति, अशक्ष्यत्,
इमे प्रयोगा वक्तुं शक्या इत्याद्याश्च प्रयोगाः साधवः। अयं केवलो धातुरकर्मक इति कर्मणि प्रत्ययो न भवति।
अहं शक्नोमि, एतत् कर्तुं अहं शक्तः इत्येव। अहं शक्तवान् इत्यादयः दृष्टवानित्यादिषु सकर्मकस्थलेषु प्रयुज्यन्ते, न पुनरकर्मकेषु। गच्छतिस्तु सकर्मकः, गत्यर्थस्य गन्तव्यदेशस्यैव कर्मत्वात्, गतवान्, मया ग्तो देशः इत्यादयः।
sujata 10:11 pm on June 23, 2012 Permalink |
Sir, I don’t know samskrit to talk. I visit here only to learn few words of samskritam. Please pardon my audacity . But in Himanshu sir’s post = sah gantum na shaAKSHYATI = is that a speeling mistake ? I mean would that be shaKYATI instead of shakSHYATI .
Thanks very much
Himanshu Pota 12:36 am on June 24, 2012 Permalink |
शक्ष्यति – He or she will be able to.
शक्नोति – He or she is able to.
hnbhat 1:05 am on June 24, 2012 Permalink
स्वादिगणपठितस्य शक्ष्यति इति भविष्यति, वर्तमाने लटि, शक्नोति इत्येव रूपम्। न तु शक्यति इति।
दिवादिगणपठितस्य तु – शक्यते इति रूपम्। अस्य भविष्यति, शक्ष्यते, अशक्ष्यत इत् च रूपाणि।
hnbhat 4:02 am on June 24, 2012 Permalink |
Please specify why do you feel it is a “speeling” mistake like that you have done in English you use and how did you decide “shaKYATI ” would be the correct one?