परामृष्टाम् (Seized)
तवादर्शनजः शोको भूयो मां परितापयेत्।
दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर॥५-३९-२३॥
http://avg-sanskrit.org/तरिष्यन्ति-3ap-लृँट्/
अस्मिन् जालपत्रे मया तरिष्यन्ति इति पदस्य सिद्धिं दृष्टम्। तत्र अयं रामायणस्य श्लोकः अस्ति।
परामृष्टाम् इति किं प्रातिपदिकं का विभक्तिः किं वचनम्?
२०१२-०६-२२ शुक्रवासरः (2012-06-22 Friday)
Hn Bhat 5:07 pm on June 22, 2012 Permalink |
तवादर्शनजः शोको भूयो मां परितापयेत् ।
दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ।। ५-३९-२३ ।।
वानर, तवादर्शनजः शोकः भूयो दुःखाद्दुःखपरामृष्टां मां दीपयन्निव परितापयेत् ।
।। ५-३९-२३ ।।
दुःखाद्दुःखपरामृष्टां – दुःखाद्दुःखेन – अत्त्यन्तदुःखेन, परामृष्टां – परा-मृश् + क्त – परामृष्ट – परामृष्टा इति सीताविशेषणम्, द्वितीया एकवचनान्तं रूपम्। मामित्यस्य विशेषणं सीतां परामृशति सर्वनाम्ना इति स्त्रीलिङ्गे परामृष्टशब्दस्य प्रयोगः।
सिद्धिं दृष्टम्। – इति तु न संगच्छते, सिद्धिः दृष्टा इत्येव स्त्रीलिङ्गे सिद्धिशब्दस्य प्रथमा एकवचनम्।
Srinivasa 2:07 am on June 23, 2012 Permalink |
It looks like you get spam comments positively on Fridays. Please report these spammers to WordPress Admin so they don’t spam you anymore.
Himanshu Pota 4:28 pm on June 29, 2012 Permalink |
भवान् सत्यं वदति। अद्य अपि व्यर्थाः उल्लेखाः आसन् । अद्य शुक्रवासरः अस्ति २९-०६-२०१२।