Updates from June, 2012 Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 12:14 pm on June 30, 2012 Permalink | Reply  

    प्रापकः (One who gets or obtains) 

    इयम् आकाशवाणी इति समाचारे भारतीयप्राविधिकसंस्थानां प्रवेशनं विषये अस्ति – राज्यशिक्षामण्डलेषु सर्वाधिकाङ्कप्रापकाः प्रतिशतं विंशतिः छात्राः – इति। Students getting highest twenty per cent marks in the state boards.
    अहं न तु धनप्रापकः किन्तु आशीर्वादप्रापकः अस्मि।

    २०१२-०६-३० शनिवासरः (2012-06-30 Saturday)

     
  • Himanshu Pota 11:43 am on June 29, 2012 Permalink | Reply  

    निर् + चिञ् (To decide) 

    निर् + चि + शप् + तिप् -> निर् + चे + अ + ति  -> निर् + चयति
    निर् + चयति -> निश्चयति (खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, स्तोः श्चुना श्वुः)
    निश्चयति निश्चयतः निश्चयन्ति
    निश्चयसि निश्चयथः निश्चयथ
    निश्चयामि निश्चयावः निश्चयामः

    २०१२-०६-२९ शुक्रवासरः (2012-06-29 Friday)

     
  • Himanshu Pota 10:57 pm on June 28, 2012 Permalink | Reply  

    उगिदचाम्॥७-१-७०॥ (uk indicatory suffixes 7.1.10) 

    उगिदचां सर्वनामस्थानेऽधातोः नुम् अङ्गस्य॥७-१-७०॥ अनेन सूत्रेण भवन्ति कनीयस् इति शब्दस्य रूपाणि
    प्रथमा – कनीयान् कनीयांसौ कनीयांसः
    द्वितीया – कनीयांसम् कनीयांसौ कनीयसः
    किन्तु चन्द्रमस् इति शब्दस्य रूपाणि भवन्ति
    प्रथमा – चन्द्रमाः चन्द्रमसौ चन्द्रमसः
    द्वितीया – चन्द्रमसम् चन्द्रमसौ चन्द्रमसः
    केवलः सर्वनामस्थाने (प्रथमा – एकवचनम् द्विवचनम् बहुवचनम्, द्वितीया – एकवचनम् द्विवचनम्, इति) रूपाणि भिन्नानि सन्ति। अवशिष्टानि रूपाणि समानानि भवन्ति।

    २०१२-०६-२८ गुरुवासरः (2012-06-28 Thursday)

     
  • Himanshu Pota 10:38 pm on June 27, 2012 Permalink | Reply  

    पाणिनि-कन्या-महाविद्यालयः (Panini Girls College) 

    श्रीभट्टवर्येण इदं जालपत्रं http://ganga-sanskrit.blogspot.in/2010/10/panini-kanya-mahavidyalaya.html सूचितम्। तस्मिन् जालपत्रे महाविद्यालयस्य समीचीनं विवरणम् अस्ति। इदानीम् अहं पण्डित-ब्रह्मदत्त-जिज्ञासु-वर्येण लिखितं संस्कृत-पठन-पाठन-की-अनुभूत-सरलतम-विधि इति पुस्तकं पठामि। अयं महाविद्यालयः तेन पण्डितेन आरब्धः। मम मनसि श्रीजिज्ञासुवर्याय अत्यन्तः आदरः अस्ति।

    २०१२-०६-२७ बुधवासरः (2012-06-27 Wednesday)

     
  • Himanshu Pota 9:59 pm on June 26, 2012 Permalink | Reply  

    निदाघः (The hot season) 

    इयम् आकाशवाणी इति अस्य २४-०६-२०१२तमस्य दिवसस्य समाचारे ग्रीष्म-प्रकोपस्य चर्चा अस्ति। निदाघ-स्थितिः गभीरा अस्ति। चुरु-नगरे पञ्च-दशमलावाधिक-त्रि-चत्वारिंशन्मितं तापमानमाकलितम्। अहं मन्ये  पञ्च-दशमलावाधिक-त्रि-चत्वारिंशन्मितं इति 43.5 degree C इति अस्ति। कथं 43.52 इति संस्कृतभाषायां लेखितुं शक्यते।

    २०१२-०६-२६ मङ्गलवासरः (2012-06-26 Tuesday)

     
    • kevinbui89 7:07 am on June 28, 2012 Permalink | Reply

      I’m really sorry about bothering you Sir . But could you please help me to translate my younger name from Vietnamese to the Devanagari please !!!! HIs name is
      BÙI PHƯƠNG ANH
      If the Devanagari doesn’t have the ” ù ” “ư ” or ” ơ ” word or impossible to translate with these word . Can you translate name like PHUONG ANH BUi please ? Please help me as soon as possible Sir . It mean very much to me !!!! Thank you so much Sir !!!

    • baldevaanand-saagarah 6:44 pm on June 30, 2012 Permalink | Reply

      यम् आकाशवाणी इति अस्य २४-०६-२०१२तमस्य दिवसस्य समाचारे ग्रीष्म-प्रकोपस्य चर्चा अस्ति। निदाघ-स्थितिः गभीरा अस्ति। चुरु-नगरे पञ्च-दशमलावाधिक-त्रि-चत्वारिंशन्मितं तापमानमाकलितम्। अहं मन्ये पञ्च-दशमलावाधिक-त्रि-चत्वारिंशन्मितं इति 43.5 degree C इति अस्ति। कथं 43.52 इति संस्कृतभाषायां लेखितुं शक्यते।

      २०१२-०६-२६ मङ्गलवासरः (2012-06-26 Tuesday)—– अत्र मया निज-विवेकानुसारेण किमपि वक्तव्यमस्ति -४३.५ इत्यस्य कृते शब्देषु ” त्रिचत्वारिन्शत्-दशमलव-पञ्च” इति, अपिच , ४३.५२ इत्यस्य कृते ” त्रिचत्वारिन्शत्-दशमलव-पञ्च-द्वि” इति लेखनीयम्. आकाशवाण्याः २०१२-०६-२६- मङ्गलवासरीय–प्रसारणे अशुद्धिः वर्तते. गणित-शास्त्रानुसारेण ”दशमलव”- गणनायां ८८ उतवा ३६ अस्ति चेत्- ”…………दशमलव-अष्ट-अष्ट” इति, उतवा ”……………..दशमलव-त्रि-षट्” इति वक्तव्यं लेखनीयम् अस्ति ….बलदेवानन्द-सागरः.

      • Himanshu Pota 12:43 pm on July 1, 2012 Permalink | Reply

        इदानीं मया ज्ञातं भवान् न तु संस्कृतप्रवीणः अस्ति किन्तु गणितप्रवीणः अपि अस्ति। मम मतेन दशमलवपरं केवलं अङ्कानि एव पठितानि। यथा १.२२ – एकः दशमलव-द्वि द्वि इति।
        धन्यवादः ।

      • hnbhat 11:47 pm on July 6, 2012 Permalink | Reply

        तत्र काचन समस्या, संस्कृतानुसारेण चतुःपर्यन्तानां संख्यानां संख्यावाचित्वे, संख्येयवाचित्वे च भेदः। लिङ्गसंख्यान्वयस्तु दुर्वार एव। अविभक्तिकनिर्देशस्तु कथंचित् साध्य इति मे मतिः। (अपदं न प्रयुञ्जीत ; न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययः — महाभाष्यम् on ‘अनभिहिते’ ). दशमलवांशाः इति विशेष्यस्याभिमतत्वेन स्वीकारे, पुंलिङ्गे प्रयोक्तुं शक्यते पञ्च, त्रयः द्वौ, एकः, इति पृथक् पृथक्। अथवा समस्तप्रयोगस्तु दुर्घट एव। आङ्गलानुकरणं तु “प्रकृतिवद्विकृतिः” इति कथंचित् समाधेयम्।

        संस्कृते दशमांशपद्धतिः कीदृशी आसीदिति न ज्ञायते, ततश्च तदनुसारेणे पठनं वा लेखनं वा न शक्यमिति चिन्तयामि।

  • Himanshu Pota 8:40 am on June 25, 2012 Permalink | Reply  

    अमरनाथयात्रा (Amarnath Yatra) 

    इयम् आकाशवाणी इति वार्तायां श्री-अमरनाथयात्रायां कति जनाः सन्ति तस्य विवरणम् अधः लिखितम् अस्ति।
    चतुनण्णर्वत्यधिक-द्विशतोत्तर-द्विसहस्रंयात्रिणः विद्यन्ते – २२९४
    ऊनसप्तत्यधिकचतुश्शतोत्तरैकसहस्रं पुरुषाः – १४६९
    षट्सप्तत्यधिकचतुःशतं महिलाः – ४७६
    अष्टोत्तरैकशतं बालाः – १०८
    एकचत्वारिंशदधिकद्विशतं साधवः – २४१
    चतुष्षष्टिः यानाधिरूढाः सुरक्षकार्मिकादयश्च समाविशन्ति – ६४
    पुरुषाः महिलाः बालाः साधवः सुरक्षाकार्मिकादयः मिलित्वा २३५८ इति भवन्ति। कथं यात्रिणां संख्या २२९४ इति भवति? चतुष्षष्टिः सुरक्षाकार्मिकादयः ६४ अतः २३५८ – ६४ = २२९४।

    २०१२-०६-२५ सोमवासरः (2012-06-25 Monday)

     
  • Himanshu Pota 12:46 am on June 24, 2012 Permalink | Reply  

    संस्कृतनिबन्धाः (Sanskrit Essays) 

    शङ्करवर्यः लिखति http://sanskritessays.blogspot.in/ has nearly 30 Sanskrit essays meant for Sanskrit students.
    अस्मिन् जालपत्रे नैके छात्राः संस्कृत-निबन्धाय आगच्छन्ति। अहम् आशासे ते छात्राः संस्कृत-निबन्ध-जालपत्रे ईप्सितं निबन्धं प्राप्नुयुः।

    २०१२-०६-२४ रविवासरः (2012-06-24 Sunday)

     
    • Tamas 4:35 am on June 27, 2012 Permalink | Reply

      Have a nice day.
      I write from Hungary. I’ve hurt my love (hers name is Bea), I always wear these words, on tattooed myself

      Please Forgive me
      I’ love you forever Bea

      help me, how to write in Sanskrit?

      thank you

      Tamás

    • tarun 6:49 pm on June 29, 2012 Permalink | Reply

      i want an article on “mera pustakalaya” and “gita ka mehatva” in sanskrit

  • Himanshu Pota 2:41 pm on June 23, 2012 Permalink | Reply  

    शक् अनिट् धातुः (To be able – not it – root) 

    सः गन्तुं न शक्ष्यति।
    शक् + ल्युट् = शकन (अपि शकनम् इति प्रयोगः अस्ति?)
    शक् + क्त = शक्त, शक् + क्तवतु  = शक्तवत्, शक् + क्त्वा = शक्त्वा। अत्र इडागमः न भवन्ति।
    शक् + तुमुन् = शक्तुम्, शक् + तव्यत् = शक्तव्य, शक् + तृच्=  शक्तृ।
    विवरणाय कृपया पठतु – व्यावहारिकं पाणिनीयम् इति श्री-अरविन्दाश्रमेण प्रकाशितं पुस्तकम्।
    यदि अत्र दोषाः सन्ति तर्हि पण्डिताः सूचयन्तु।

    २०१२-०६-२३ शनिवासरः (2012-06-23 Saturday)

     
    • hnbhat 4:02 pm on June 23, 2012 Permalink | Reply

      शक्लृ शक्तौ – क्र्यादिः –

      शक्नोतीति शक्तः। शक्तिः, शक्यः, शक्या इत्यादयः प्रसिद्धाः प्रयोगाः।

      अन्यत्राप्रयोग एव।

      अयं प्रयोगः वक्तुं शक्यः। इदं वक्तुं शक्यम्। इदं कर्तुमहं शक्तः, शक्नोमि इत्यादयः प्रयोगाः।

      • hnbhat 11:12 pm on June 23, 2012 Permalink | Reply

        क्षमां याचे – शक्लृ शक्तौ इति धातुः स्वादिः, न क्र्यादिः।

        शक्नोति – गन्तुं शक्नोति, शक्तो भवति, शक्ता – शक्तासि, इत्यार्धधातुकविषये उदाहरणम्।

        शक्ष्यति, अशक्ष्यत्,

        इमे प्रयोगा वक्तुं शक्या इत्याद्याश्च प्रयोगाः साधवः। अयं केवलो धातुरकर्मक इति कर्मणि प्रत्ययो न भवति।

        अहं शक्नोमि, एतत् कर्तुं अहं शक्तः इत्येव। अहं शक्तवान् इत्यादयः दृष्टवानित्यादिषु सकर्मकस्थलेषु प्रयुज्यन्ते, न पुनरकर्मकेषु। गच्छतिस्तु सकर्मकः, गत्यर्थस्य गन्तव्यदेशस्यैव कर्मत्वात्, गतवान्, मया ग्तो देशः इत्यादयः।

    • sujata 10:11 pm on June 23, 2012 Permalink | Reply

      Sir, I don’t know samskrit to talk. I visit here only to learn few words of samskritam. Please pardon my audacity . But in Himanshu sir’s post = sah gantum na shaAKSHYATI = is that a speeling mistake ? I mean would that be shaKYATI instead of shakSHYATI .
      Thanks very much

      • Himanshu Pota 12:36 am on June 24, 2012 Permalink | Reply

        शक्ष्यति – He or she will be able to.
        शक्नोति – He or she is able to.

        • hnbhat 1:05 am on June 24, 2012 Permalink

          स्वादिगणपठितस्य शक्ष्यति इति भविष्यति, वर्तमाने लटि, शक्नोति इत्येव रूपम्। न तु शक्यति इति।

          दिवादिगणपठितस्य तु – शक्यते इति रूपम्। अस्य भविष्यति, शक्ष्यते, अशक्ष्यत इत् च रूपाणि।

      • hnbhat 4:02 am on June 24, 2012 Permalink | Reply

        Please specify why do you feel it is a “speeling” mistake like that you have done in English you use and how did you decide “shaKYATI ” would be the correct one?

  • Himanshu Pota 3:44 pm on June 22, 2012 Permalink | Reply  

    परामृष्टाम् (Seized) 

    तवादर्शनजः शोको भूयो मां परितापयेत्।
    दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर॥५-३९-२३॥
    http://avg-sanskrit.org/तरिष्यन्ति-3ap-लृँट्/
    अस्मिन् जालपत्रे मया तरिष्यन्ति इति पदस्य सिद्धिं दृष्टम्। तत्र अयं रामायणस्य श्लोकः अस्ति।

    परामृष्टाम् इति किं प्रातिपदिकं का विभक्तिः किं वचनम्?

    २०१२-०६-२२ शुक्रवासरः (2012-06-22 Friday)

     
    • Hn Bhat 5:07 pm on June 22, 2012 Permalink | Reply

      तवादर्शनजः शोको भूयो मां परितापयेत् ।
      दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ।। ५-३९-२३ ।।

      वानर, तवादर्शनजः शोकः भूयो दुःखाद्दुःखपरामृष्टां मां दीपयन्निव परितापयेत् ।
      ।। ५-३९-२३ ।।

      दुःखाद्दुःखपरामृष्टां – दुःखाद्दुःखेन – अत्त्यन्तदुःखेन, परामृष्टां – परा-मृश् + क्त – परामृष्ट – परामृष्टा इति सीताविशेषणम्, द्वितीया एकवचनान्तं रूपम्। मामित्यस्य विशेषणं सीतां परामृशति सर्वनाम्ना इति स्त्रीलिङ्गे परामृष्टशब्दस्य प्रयोगः।

      सिद्धिं दृष्टम्। – इति तु न संगच्छते, सिद्धिः दृष्टा इत्येव स्त्रीलिङ्गे सिद्धिशब्दस्य प्रथमा एकवचनम्।

    • Srinivasa 2:07 am on June 23, 2012 Permalink | Reply

      It looks like you get spam comments positively on Fridays. Please report these spammers to WordPress Admin so they don’t spam you anymore.

      • Himanshu Pota 4:28 pm on June 29, 2012 Permalink | Reply

        भवान् सत्यं वदति। अद्य अपि व्यर्थाः उल्लेखाः आसन् । अद्य शुक्रवासरः अस्ति २९-०६-२०१२।

  • Himanshu Pota 6:24 pm on June 21, 2012 Permalink | Reply  

    निर्समयः (Without Condition) 

    ते आन्दोलनं निर्समयं त्यक्ष्यन्ति। समयः इति कालः अपि अर्थे प्रयुज्यते।
    समयं करोति makes an agreement, तेन सह समयं संवदति makes agreement with him, समयं ददाति offers terms of agreement, समयं अभिदधाति state the terms of an agreement, समयं गृह्णाति enters into an agreement, समयं रक्षति keeps an agreement, समयं त्यजति breaks an agreement, समयं तिष्ठति keeps an agreement, समयं निवेशयति imposes conditions of an agreement.

    २०१२-०६-२१ गुरुवासरः (2012-06-21 Thursday)

     
c
compose new post
j
next post/next comment
k
previous post/previous comment
r
reply
e
edit
o
show/hide comments
t
go to top
l
go to login
h
show/hide help
shift + esc
cancel
Follow

Get every new post delivered to your Inbox.

Join 312 other followers