चरः (Formerly)
आकाशवाण्याः समाचारे अस्ति नारायणदत्ततिवारी राज्यपालचरः इति। रामः अध्यापकचरः इदानीं निवृतः अस्ति। अटलबिहारीवाजपेई-प्रधानमंत्रिचरः अस्ति। सः क्रीडादलस्य नायकचरः अस्ति। विजयसिंहः सेनापतिचरः अस्ति।
२०१२-०५-१३ रविवासरः (2012-05-13 Sunday)

hnbhat 11:54 am on May 22, 2012 Permalink |
चर इति प्रत्ययविशेषः। भूतपूर्वः राज्यपालः – राज्यपालचरः इत्यर्थः। “भूतपूर्वे चरट् ५।३।५३”। पूर्वं राज्यपालो भूतः इति सामान्यं वाक्यम्।
अन्यच्चास्य प्रयोगविशेषः –
पूर्वं हिमांशोः भूतं गृहम् – हिमांशुचरं गृहम्, हिमांशुरूप्यम्, the property belonging to हिमांशुः – “षष्ठ्या रूप्य च” (५।३।५३).
hnbhat 12:38 pm on May 22, 2012 Permalink |
अटलबिहारीवाजपेई-प्रधानमंत्रीचरः अस्ति।
==========
मन्त्रिचरः इति ह्रस्वान्तमेव, मन्त्रिन्-शब्दस्य। मन्त्री इति प्रथमायाः एकवचनम्।
मन्त्री -मन्त्रिणौ – मन्त्रिणः इति।