विद्यालयाः आरब्धाः (Schools Started)
अत्र विद्यालयानां द्विसप्ताहात्मकः अवकाशः अद्य पूर्णं गतः। अद्य प्रभृतिः दशसप्ताहपर्यन्तं विद्यालयाः कार्यं करिष्यन्ति तत् परं द्विसप्ताहात्मकः अवकाशः पुनः भविष्यति।
२०१२-०४-३० सोमवासरः (2012-04-30 Monday)
अत्र विद्यालयानां द्विसप्ताहात्मकः अवकाशः अद्य पूर्णं गतः। अद्य प्रभृतिः दशसप्ताहपर्यन्तं विद्यालयाः कार्यं करिष्यन्ति तत् परं द्विसप्ताहात्मकः अवकाशः पुनः भविष्यति।
२०१२-०४-३० सोमवासरः (2012-04-30 Monday)
कृपया पश्यतु http://www.youtube.com/watch?v=b8AS3njQI_k
२०१२-०४-२९ रविवासरः (2012-04-29 Sunday)
अद्य आवयोः रामायणपठनस्य पाठः आसीत्। रात्रौ दशवादने अहं संगणित्रे आगम्य उपाविशं किन्तु आचार्यस्य दर्शनं नाभवत्। आचार्यः उदागच्छत्।
२०१२-०४-२८ शनिवासरः (2012-04-28 Saturday)
अभिवादयीत वृद्धांश्च दद्याच्चैवासनं स्वयम्।
कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात्।।
महाभारते — 13-161-70a13-161-70b
अन्वियात् इति किम्?
अनु+इयात् = अनुगच्छेत्। लिङ्.
Translation:
Salute respectfully the elders and given seat to them yourself. (give your seat them when you see them coming);
Attend them with bowed hands and follow them wherever he goes after him.
This is how आचार्य is to be received by his शिष्य and now if he disapears, you also have to disappear after him.!!!! गच्छन्तम् अनूद्गच्छेत् !!! is the contextual reply to your message.
I think you didn’t mean उदगच्छति, but उद्गच्छति = उद्+गच्छति or उद्-आगच्छत् – you meant he appeared on the screen?
अष्टाध्याय्यां सूत्रं – अदर्शनं लोपः
!!
तस्य लोपः(अष्टाध्यायी ॥ १।३।९) http://s0.wp.com/wp-includes/images/smilies/icon_smile.gif?m=1129645325g
तस्य लोपः(अष्टाध्यायी ॥ १।३।९) =
तस्येतो लोपः स्यात् ।
अद्य दिव्यजीवनसंघस्य स्वामिपद्मनाभानन्दः मुरूगनमन्दिरे व्याख्यात्। सः सिद्धः अस्ति तस्य अनुमानं यथा सः वदति तस्मात् कर्तुं शक्यते। सः प्रश्नानन् संक्षिप्तम् उत्तरति। तं व्याख्याने प्रसक्तिः नास्ति। तस्य संदेशः आसीत् चिन्तां मा कुरु इति। अहं तस्य प्रवचनेन अतीवानन्दितः अभवम्।
२०१२-०४-२७ शुक्रवासरः (2012-04-27 Friday)
अहं सुखं गच्छामि। I go happily. अहं सुखम् अगच्छम्।
सः दुखं गच्छति। He goes unhappily.
त्वं शीघ्रं गच्छसि। You go quickly. ते मन्दं गच्छन्ति। They go slowly.
अहं सुखं स्वपिमि। सः अनायासं करोति। He does effortlessly.
२०१२-०४-२६ गुरुवासरः (2012-04-26 Thursday)
Adverbs can be in तृतीया also. सुखेन करोमि, सुखेन गच्छति, अनायासेन करोति, इत्यादयः प्रयोगाः।
पुस्तकमलब्ध्वा, स दुःखेन निर्गच्छति। अनायासेन पुस्तकं लब्ध्वा स सन्तुष्टो गच्छति।
सुखं करोति इति प्रयोगे तु – किं सुखमेव कर्म करोतीति क्रियापदस्य इति सन्देहः स्यात्। ततश्च सुखेन करोति इति साधीयान् प्रयोगः असन्देहार्थम्।
एवमेव दुःखं करोति इत्यपि स मम दुःखं करोति अन्यस्य कस्यापि दुःखं जनयति इति भ्रमः स्यात्, सुखेन करोति इत्युक्ते क्रियाविशेषणं संगच्छते, स्पष्टतरं च भवति।
भवान् यत् लिखति तत् अवबोधामि। धन्यवादः।
हिमांशुः
कतिपयाः हास्यकार्यक्रमाः सन्ति येषाम् अन्ते एकस्य फल्गुनः पत्रस्य प्रदर्शनं भवति किन्तु तत् अत्यल्पकालाय भवति तस्मात् कोऽपि तं पठितुं न शक्नोति। लेखकेन सर्वाणि फल्गुनी पत्राणि जालपत्रे स्थापितानि यस्मात् दर्शकाः पठितुं शक्नुवन्ति http://chucklorre.com/
२०१२-०४-२५ बुधवासरः (2012-04-25 Wednesday)
कतिपय-शब्दः, प्रथमाबहुवचने सर्वनामत्वात् कतिपये इत्यपि भवति। कतिपये कार्यक्रमाः इत्यपि साधुः प्रयोगः। कतिपयाः इत्यपि साधुरेव।
पठ् भ्वादिगणीयः धातुः परस्मैपदी सकर्मकः।
तेन नित्यं संस्कृतं पठितव्यम्। तया नित्यं गीता पठनीया। इदं पुस्तकं पठ्यं अस्ति।
पुस्तकं पठित्वा सः खादति। गीता संपठ्य ते गायन्ति। रामः पठितुं पुस्तकालयं गच्छति।
सः पाठकः अस्ति। मह्यं पठनं रोचते।
२०१२-०४-२४ मङ्गलवासरः (2012-04-24 Tuesday)
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः।
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्।
रम्यमावसथं कृत्वा रममाणा वने त्रयः।
देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम्।
इमे श्लोकाः रामायणात् सन्ति। सुखम् इति अपि क्रियाविशेषणम् अस्ति अथवा अव्ययः शब्दः अस्ति? यदि तस्मात् नास्ति तर्हि सुखम् इति शब्दस्य कः लिङ्गः का विभक्तिः?
२०१२-०४-२३ सोमवासरः (2012-04-23 Monday)
ते न्यवसन् सुखम्।
सुखशब्दस्यात्र क्रियाविशेषणत्वात्, प्रायेण नपुंसकलिङ्गत्वम्, द्वितीयैकवचनं च क्रियाविशेषणानाम्
‘क्रियाविशेषणानां कर्मत्व क्लीवत्व च’ इति कात्यायनवचनम्, ‘सामान्ये नपुंसकम्।’ इति क्रियाविशेषणानां प्रायेण नियमः। मृदु पचति, मधुरं पश्यति इत्यादयः प्रयोगाः। नामविशेषणत्वे, विशेष्यनिघ्नत्वं च विशेषणानाम् -
नपुंस्ककलिङ्गत्वम्, कर्मत्वं च इति प्रायेण। प्रथमान्तत्वमिति नव्यानां मतम्। सुखशब्दस्तु स्वभावादेव नपुंसकलिङ्गमिति न विशेषः, नामत्वे, क्रियाविशेषणत्वे च। क्रियाविशेषणत्वे, विभक्तिस्तु नियतैव द्वितीयैकवचनं प्रथमैकवचनं वा, न विभक्त्यन्तरमिति बोध्यम्।
नैके धन्यवादाः। अस्मिन् विषये अहं चिरकालात् चिन्तयामि किन्तु कुत्रापि तस्य वर्णनं मया न प्राप्तम् । धन्यवादः।
हिमांशुः
ह्यः अहं शुचिताम् आनेतुं ब्लेकहीथग्रामम् अगच्छम्। तत्र सत्यनारायणगोयन्कावर्येण स्थापितं विपश्यना-केन्द्रम् अस्ति। शुचिता तस्मिन् केन्द्रे एकादशदिवसात्मके शिबिरे अगच्छत्। इदं तस्याः द्वितीयवारम् आसीत्। अहम् अपि एकवारं पूर्वं तत्र एकादशदिवसात्मके शिबिरे अगच्छम्। यस्मात् अहं पूर्वछात्रः अस्ति तस्मात् अहम् अपि तत्र ह्यः रात्रौ वसितुम् अशक्नुवम्। अद्य प्रातः काले अहं शुचितया सह केन्बरानगरं प्रत्यागच्छम्। यानेन मार्गं चतुर्होरात्मकम् अस्ति।
२०१२-०४-२२ रविवासरः (2012-04-22 Sunday)
पठ् भ्वादिगणीयः धातुः परस्मैपदी सकर्मकः।
क्त-क्तवतु भूतकृदन्तौ
तेन वेदः पठितः। तेन कविता पठिता। तेन पुस्तकं पठितम्।
सः वेदं पठितवान्। सा कतिवां पठितवती। मित्रं वेदं पठितवत्।
मित्रे वेदं पठितवती। मित्राणि वेदं पठितवन्ति।
२०१२-०४-२१ शनिवासरः (2012-04-21 Saturday)
ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनः स्थविर आगते।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते।। 13-161-69a 13-161-69b.||
अत्र आचार्यः उदागच्छत्। न तु शिष्यः!