संवेदनशीलः (Sensitive)
अद्य अन्नावर्यः अवदत् इदं प्रशासनं संवेदनशीलं नास्ति। अहं चिरकालात् sensitive इति अर्थे सम्यग् शब्दम् अन्वेष्यामि। अन्नावर्यस्य सम्माने अद्य प्रभृति संवेदनशीलः इति शब्दस्य sensitive इति अर्थे प्रयोगं करिष्यामि।
२०१२-०३-२५ रविवासरः (2012-03-25 Sunday)
hnbhat 10:21 pm on March 25, 2012 Permalink |
धन्यवादाः। यद्यत्र न दृष्टम्, तर्हि आंगलपदानां संस्कृतानूद्या शब्दाः अन्वेष्टुं शक्यन्ते –
http://spokensanskrit.de/index.php?script=HK&beginning=0+&tinput=sensitive&trans=Translate&direction=ES
With regards
Himanshu Pota 7:54 am on March 26, 2012 Permalink |
धन्यवादाः। मया पूर्वमेव भवतः सूचितं जालपत्रं दृष्टम् । तत् जालपत्रं सहायकरम् अस्ति किन्तु तस्मिन् जालपत्रे अशुद्धयः अपि सन्ति। यदि पण्डिताः संशोधनं करिष्यन्ति तर्हि वरं भविष्यति।
Ranganatha 7:45 pm on March 29, 2012 Permalink |
हरये नमः
“सुक्ष्मः” इति भाति यथा सुक्ष्मविचरः (Sensitive information/matter) सुक्ष्मप्रकृतिः (Sensitive health)
धन्यवादाः
hnbhat 2:27 am on April 9, 2012 Permalink |
सूक्ष्म-शब्दः विशेषणमात्रम्। सूक्ष्ममतिः, इति। सूक्ष्मविचारः इति तन्तुवत् सूक्ष्मत्वं चिचारस्य दर्शयति, स्थूलत्वविरुद्धधर्मः, broadly or delicate इत्यर्थे प्रयोगः। सूक्ष्मशब्दस्य।