भस्मबुधवासरः (Ash Wednesday)
कार्यवशादद्य न्यूयारिकनगरगतोऽहमनेकजनानामलिकलेखान् दृष्ट्वा अतीव विस्मयभूतोऽऽसम्। अद्य भस्मबुधवासरमिति कार्यव्यग्रत्वात् मया विस्मृतमेव। ख्रिस्तवानां क्रूसचिह्नालङ्कृतललाटान् दृष्ट्वा अहं गतभानुवासरे मन्दिरे महाशिवरात्रिसमारोहे समागतानां शिवभक्तानां भस्मललाटिकान् अस्मरम् । अनन्तरमस्मदीयानां स्वधर्मपरिपालनं च स्वसंप्रदायसंरक्षणं प्रति मयि अभिमानमजायत ।
कामं खलु सर्वस्यापि कुलानुष्ठानं बहुमतं न पुनरस्माकं सनातनसंप्रदायं प्रति मिथ्यागौरवम्।
२०१२-०२-२२ बुधवासरः (2012-02-20 Wednesday)
Himanshu Pota 1:58 pm on February 25, 2012 Permalink |
कानिचित् शोधनानि –
न्यूयारिकनगरगतोऽहम् अनेकजनानाम् अलिकक्त्खान् – अस्मरम् – अनन्तरम् अस्मदीयानां – अभिमानम् अजायत इति |
अहम् अन्तिमवाक्यस्य अर्थम् अवगन्तुं न शक्नोमि।
Srinivasa 10:28 pm on February 25, 2012 Permalink |
धन्यवादाः