कारितम् (Caused to be done)
तेन सा स्वप्रकोष्ठस्य मार्जनं कारिता। मया सा गृहकार्यं कारिता। तया पचनं कारितम्। तेन गृहनिर्माणं कारितम्।
अपि इमानि वाक्यानि समीचीनानि सन्ति?
२०१२-०२-१२ रविवासरः (2012-02-12 Sunday)
तेन सा स्वप्रकोष्ठस्य मार्जनं कारिता। मया सा गृहकार्यं कारिता। तया पचनं कारितम्। तेन गृहनिर्माणं कारितम्।
अपि इमानि वाक्यानि समीचीनानि सन्ति?
२०१२-०२-१२ रविवासरः (2012-02-12 Sunday)
hnbhat 1:12 pm on February 12, 2012 Permalink |
तेन सा स्वप्रकोष्ठस्य मार्जनं कारिता। मया सा गृहकार्यं कारिता। तया पचनं कारितम्। तेन गृहनिर्माणं कारितम्।
अत्र सर्वत्र अयं क्रमः -
सः (कर्मकरः) गृहमार्जनं कृतवान् – तेन सा गृहमार्जनं कारितवती
स गृहमार्जनं करोति – तेन सा गृहमार्जनं कारयति – इति वर्तमानकाले।
भूते स अकरोत् – कृतवान् – प्रेरणे – तेन अकारयत्, कारितवती। इति साधुः प्रयोगः।
तेन तया गृहमार्जनं कारितम्। गृहमार्जनम् – कर्म – क्तप्रत्ययेन उच्यते, न तु कर्ता। इति कर्मणि प्रयोगः।
एवमेव अन्येष्वपि वाक्येषु द्रष्टव्यम्। साधव एवैते प्रयोगाः।
कर्मकरः मार्जनं कृतवान्। सा
अपि इमानि वाक्यानि समीचीनानि सन्ति?
Pramod Kushwaha 10:21 pm on February 14, 2012 Permalink |
तेन सा स्वप्रकोष्ठस्य मार्जनं कारिता (कारितवती भवेत्) ।
मया सा गृहकार्यं कारिता (कारितवती भवेत्)।
तया पचनं कारितम् (समीचीनम्)।
तेन गृहनिर्माणं कारितम् (समीचीनम्)।
Hn Bhat 5:55 pm on February 20, 2012 Permalink |
m on February 14, 2012 Permalink | Reply
तेन सा स्वप्रकोष्ठस्य मार्जनं कारिता (कारितवती भवेत्) ।
स तया स्वप्रकोष्ठस्य मार्जनं कारितवान् > तेन सा स्वप्रकोष्ठस्य मार्जनं कारिता इति समीचीनमेव।
मया सा गृहकार्यं कारिता (कारितवती भवेत्)।
एवमत्रापि।
अहं तया (प्रयोजककर्त्रा) गृहकार्यं कारितवान् > मया (कर्त्रा) सा(प्रयोजककर्त्री) गृहकार्यं कारिता इत्यपि समीचीनमेव।
इति भाति।
Pramod Kushwaha 7:23 pm on February 25, 2012 Permalink |
तेन सा स्वप्रकोष्ठस्य मार्जनं कारिता (कारितवती स्यात्, यतः सा इति कर्ता । तेन इति उपकरणं मात्रम्)
अथवा – तेन तया स्वप्रकोष्ठस्य मार्जनं कारिता – इति समीचीनम् ।
तथा
मया (कर्त्रा) सा(प्रयोजककर्त्री) गृहकार्यं कारिता (कारितवती स्यात्, यतः सा इति कर्ता । मया इति उपकरणं मात्रम्)
अथवा – मया तया गृहकार्यं कारिता – इति समीचीनम्