नौकाविहारम् (Boating)
अद्य प्रातःकाले आकाशः मेघाच्छादितः आसीत् जलं च वर्षति स्म। तस्मात् वयं निश्चयम् अकुर्म प्रत्यागमिष्यामि यतो हि अत्र किञ्चित् अपि कर्तुं न शक्नुमः इति। किन्तु किञ्चित् अग्रे गत्वा सूर्यदेवस्य दर्शनम् अभवत् तस्मात् वयं परिवर्त्य उमम् (wharf) अगच्छाम। तत्र भाटनौकाम् आदाय समुद्रे नौकाविहाराय अगच्छाम। त्रिहोरापर्यन्तं विहारं कृत्वा सिडनीनगरं प्रति अगच्छाम। तत्र दिव्यांशुः स्वकार्याय अगच्छत्। सिडनीनगरे मीतावर्यायाः दन्तपरीक्षा अभवत् तत् परं वयं केन्बरानगरम् आगच्छाम। इति अवकाशः पूर्णः।
२०१२-०१-२३ सोमवासरः (2012-01-23 Monday)
Advertisement