शीतम् (Cold)
अद्य प्रातःकाले आकाशः मेघाच्छादितः आसीत्। पवनः अपि आसीत् तस्मात् वातावरणं शीतलम् आसीत्। बालकाः जले तरितुं न अशक्नुवन्। वयं सर्वे समुद्रतीरे एव भ्रमणम् अकुर्म। अपराह्णे दिवाकरस्य दर्शनम् अभवत् तदा कन्ये अतरतां दिव्यांशुः तु क्लान्तः आसीत् तस्मात् सः समुद्रतीरे एव अस्वपत्। सायंकाले वर्षाम् अपतत् तस्मात् वयं भाटनिवासे एव अतिष्ठाम।
२०१२-०१-२२ रविवासरः (2012-01-22 Sunday)
Advertisement