दिव्यांशुः चालयति (Divyanshu Drives)

दिव्यांशुः ह्यः रात्रौ अस्माभिः सह सिडनीनगरात् केन्बरानगरम् आगच्छत्। मार्गे अहं क्लान्तः अभवम् तस्मात् मध्ये दिव्यांशुः यानचालनम् आरब्धवान्। यः राजमार्गः सिडनीनगरात् मेल्बोर्ननगरतः अस्ति तस्मात् मार्गात् केन्बरानगरं गमनाय एकः निष्काशनः (exit) अस्ति। याने अग्रे दिव्यांशुना सह तस्य कनीयसीस्वसा ज्वलिता उपाविशत्। अहं पृष्ठे उपाविशम् अस्वपम् च। एकहोरा परं मया यानात् बहिः दृष्टम् अयं केन्बरानगरं गमनाय मार्गः नास्ति इति चिन्तितम्। दिव्यांशुः ज्वलिता च वार्तालापे मग्नौ आस्ताम् तस्मात् तौ निष्काशनं अदृष्टं कुर्वन्तौ मेल्बोर्ननगरं प्रति यानम् अनयताम्। ततः वयं प्रत्यागच्छाम एकहोराधिकं च यात्राम् अकुर्म। यदा अहं दिव्यांशवे क्रुध्यामि स्म तदा ज्वलिता अवदत् सर्वे स्खलनं कुर्वन्ति कस्मात् दिव्यांशवे भवान् क्रुध्यति इति। सा दिव्यांशुना सह अग्रे उपविशनस्य असीमानन्दम् अभुनक्। सा इति न अचिन्तयत् यतो हि वयं रात्रौ द्वादशवादने गृहं प्राप्तवन्तः। तस्याः मनसि दिव्यांशुना सह वार्तालापस्य आनन्दस्य तुलनायां गृहे आगमनस्य विलम्बं किमपि नास्ति।

२०११-१२-२८ बुधवासरः (2011-12-28 Wednesday)

About these ads