संमानयति (To Honour)
यं यं नृपोऽनुरागेण संमानयति संसदि।
तस्य तस्योत्सारणाय यतन्ते राजवल्लभाः॥
Whomever the king with affection honours in the court, the courtiers try to drive them away.
२०११-०६-३० गुरुवासरः (2011-06-30 Thursday)
यं यं नृपोऽनुरागेण संमानयति संसदि।
तस्य तस्योत्सारणाय यतन्ते राजवल्लभाः॥
Whomever the king with affection honours in the court, the courtiers try to drive them away.
२०११-०६-३० गुरुवासरः (2011-06-30 Thursday)
तस्य गृहम् अस्माकं गृहस्य अन्तिके अस्ति। सः अन्तिके अस्ति। अन्तिकः सः किं वदति। अन्तिका कन्या किं करोति। अन्तिकात् गृहात् आनय। अन्तिकात् गृहात् ध्वनिम् आगच्छति।
२०११-०६-२९ बुधवासरः (2011-06-29 Wednesday)
सम्पत् इति धातोः अनेकाः अर्थाः सन्ति तेषाम् एकः अर्थः अस्ति – take place। यं विषयं अहं अस्मिन् सत्रे पाठयामि तस्य विषयस्य परीक्षा अद्य सम्पत्स्यति। सम्पत् इति धातोः अन्यः अर्थः अस्ति – together। तस्मात् सम्पत्तिः इति शब्दः प्रभवति।
२०११-०६-२८ मङ्गलवासरः (2011-06-28 Tuesday)
The normal usage of सम्+पत् will be as follows:
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव। ४ ९ ३
तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा॥
which means to fall together, or generalised to to gather at a place. But I think the above meaning you have given, may not be posible.
On the other hand, the word सम्पत्तिः is derived from the verb sam+ pad which would give you the form sampatsyante = take place in the plural.
प्रत्येकदिवसे वयं प्रातःकाले सपादाष्टवादनात् सार्धाष्टवादनस्य मध्ये गृहात् निर्गम्य प्रथमे ज्वलितायाः विद्यालयं गच्छामः। तत्र ज्वलितां अवतार्य परं शुचितां तस्याः विश्वविद्यालये अवतार्य स्व विश्वविद्यालयं गच्छामि। अद्य यदा अहं सार्धाष्टवादने गन्तुं उद्युक्तः आसीत् मया ज्वलिता अह्वायिता आवां गमिष्यावः इति किन्तु किमपि उत्तरं न श्रुत्वा मया तस्याः शय्या दृष्टा। सा स्वशय्यायां स्वपिति स्म। सा न्यूनातिन्यूनं विंशतिवारं जागरयित्वा अपि स्वपिति स्म। किं कथितव्यम्।
२०११-०६-२७ सोमवासरः (2011-06-27 Monday)
अद्य यदा अहं सार्धाष्टवादने गन्तुं उद्युक्तः आसीत् मया ज्वलिता अह्वायिता आवां गमिष्यावः
====
अहं … उद्युक्तः आसम् इति साधुः प्रयोगः।
एवम्, आ+ह्वय् – धातोः, भूते क्तान्तं रूपम् – आहूत इति, स्त्रियाम्, आहूता इत्येव स्यात्, न तु आह्वयिता (?) इति।
कौटिल्येन रचितस्य अर्थशात्रस्य आदिमः श्लोकः अस्ति -
विद्याविनीतो राजा हि प्रजानां विनये रतः।
अनन्यां पृथ्वीं भुङ्क्ते सर्वभूतहिते रतः॥
Only a king who has acquired humility through learning can instill discipline in the people. He, engaged in everyone’s welfare, without any enemy, enjoys the earth.
अपि अनन्याम् इति शब्दस्य अर्थः शत्रुरहितम् अस्ति इति अथवा अद्वितीयम् इति।
२०११-०६-२६ रविवासरः (2011-06-26 Sunday)
अद्य मया The Last Lecture by Randy Pausch इति पुस्तकं पठितम्। अस्मिन् पुस्तके एकः प्राध्यापकः यः व्रणरोगात् पीडितः अस्ति सः स्वस्य ज्ञानं जनेभ्यः यच्छति।
२०११-०६-२५ शनिवासरः (2011-06-25 Saturday)
I am new to learning Sanskrit. I wanted to read this last lecture. But I could not see it. How to see it?
कृपया पश्यतु http://sanskritcentral.com/। तत्र येषां संस्कृतपत्राणां संकेतानि सन्ति तानि संस्कृतपत्राणि पठित्वा अहं अत्यन्तः प्रसन्नः अस्मि।
२०११-०६-२४ शुक्रवासरः (2011-06-24 Friday)
अहं छात्रैः सह विमर्शनं करोमि। अहं आशासे छात्राः अपि विचारान् प्रस्तोष्यन्ति किन्तु प्रायः ते मां शृण्वन्ति स्वविचारान् न प्रस्तोष्यन्ति। ते सम्यग् शृण्वन्ति अथवा न इति अपि अहं न जानामि। यत् अहं वदामि तस्य अंशम् अपि ते न कुर्वन्ति। तैः सह आदानप्रदानं विमर्शनम् इति कथयितुं शक्यते इति संदेहः अस्ति।
२०११-०६-२३ गुरुवासरः (2011-06-23 Thursday)
अद्य वर्षस्य लघुतमः दिवसः अस्ति। प्रत्येकवर्षे लघुतमे दिवसे अद्य लघुतमः दिवसः अस्ति इति अहं विस्मरामि किन्तु अद्य मया तत् न विस्मृतम्।
२०११-०६-२२ बुधवासरः (2011-06-22 Wednesday)
नमो नमः प्रिय हिमांशु !
यः लघुतमः दिवसः तत्र ऑस्ट्रेलिया-देशे स एव अत्र भारतदेशे दीर्घतमः दिवसः !!
सस्नेहम्
अभ्यंकरकुलोत्पन्नः श्रीपादः ।
“श्रीपतेः पदयुगं स्मरणीयम् ।”
अहं आवयोः कनियसीं कन्यां वात्सल्येन मूर्खा इति आह्वयामि। सा अकथयत् भवान् मां मूर्खा इति आह्वयति इति मह्यं न रोचते। सा पुनः अकथयत् अहं न जानामि कथं मम मित्राणि अपि मां मूर्खा इति आह्वयन्ति इति।
२०११-०६-२१ मङ्गलवासरः (2011-06-21 Tuesday)
यदि मूर्खा-शब्दः स्त्रीलिङ्गः आकारान्तः, तर्हि आह्वाने सम्बुद्धौ संस्कृते हे मूर्खे इति रूपं स्यात्, न तु हे मूर्खा इति।
अन्तिकं ग्रामस्य, अन्तिकाद् ग्रामस्य, अन्तिकेन ग्रामस्य।
इति तिस्रो विभक्तयोऽपि भवन्ति।