महत्तमः अपमानः (Greatest Insult)

अद्य आवयोः कन्या स्वगृहकार्यं करोति स्म। मया पृष्टा किं करोति इति। अपि मम सहाय्यं इच्छसि इति अहम् अकथयम्। सा उत्तरम् अददात् – आङ्ग्लभाषायाः गृहकार्यं करोमि यदि सहाय्यम् इच्छामि तर्हि शुचितां प्रक्ष्यामि। भारतीयदेशीयेभ्यः अस्मात् महत्तरः अपमानः कः भविष्यति। सर्वेषु प्रकारेषु अपमानेषु भवान् आङ्ग्लभाषां सम्यग् न जानाति इति अपमानः बृहत्तमः अस्ति। मम कन्या मम महत्तमः अपमानम् अकरोत्।

२०११-०३-२३ बुधवासरः (2011-03-23 Wednesday)

About these ads