एकदिवसीया फालकाशृङ्खला (ODI Cricket Series)
अद्य ओस्ट्रेलिया-आङ्गलदेशयोः मध्ये अस्मिन् शृङ्खलायां पञ्चमा स्पर्धा आसीत्। इयं स्पर्धा ओस्ट्रेलियादेशेन जिता तथा शृङ्खलायां ४-१अङ्के अग्रे सृता। शृङ्खलायां सप्त स्पर्धाः सन्ति तस्मात् ओस्ट्रेलियादेशेन शृङ्खला जिता।
२०११-०१-३१ सोमवासरः (2011-01-31 Monday)
स्पृहयामि खलु दुर्ललितायास्मै – शकुन्तलायाम्
स्पृहेरीप्सितः (१।४।३६) इति सम्प्रदानसंज्ञा भवति। पुष्पेभ्यः स्पृहयति, फलेभ्यः स्पृहयति इति काशिकावृत्तिः। साधारणतया सम्प्रदानसंज्ञा एव भवति। किन्तु ‘कर्तुरीप्सिततमं कर्म’ (१।४।४९) इति कर्मसंज्ञा अपि भवितुं शक्नोति।
अतः व्याख्याकारेणोक्तं – यहाँ ध्यातव्य है कि ‘ईप्सित’ की सम्प्रदानसंज्ञा होती है तथा ईप्सिततम की (परत्व के कारण) कर्मसंज्ञा होती है। यथा – फलानि स्पृहयति। यहाँ ‘फल’ शब्द की कर्मसंज्ञा हुई।