अकस्मात् (Suddenly)
अकस्मात् इति शब्दः अव्ययः अस्ति।
सः अकस्मात् आगतः। सः अकस्मात् आगच्छत्। मम अग्रे एकं यानम् अकस्मात् आगच्छत्।
अकस्मात् इति शब्दः गुर्जरभाषायां दुर्घटना इति अर्थे प्रयुज्यते।
२०१०-१०-३१ रविवासरः (2010-10-31 Sunday)
अकस्मात् इति शब्दः अव्ययः अस्ति।
सः अकस्मात् आगतः। सः अकस्मात् आगच्छत्। मम अग्रे एकं यानम् अकस्मात् आगच्छत्।
अकस्मात् इति शब्दः गुर्जरभाषायां दुर्घटना इति अर्थे प्रयुज्यते।
२०१०-१०-३१ रविवासरः (2010-10-31 Sunday)
अद्य सायंकाले मन्दिरे स्वामीनारायणसम्प्रदायेन आयोजितः सत्सङ्गः अस्ति। सत्सङ्गे सम्प्रदायस्य रूढास्वामी इति नाम स्वामी प्रवचनं दास्यति। प्रायः पङ्चदशवर्षपूर्वं सः स्वामी अस्माकं गृहे अतिष्ठत्। मम स्मृतिः अस्ति तस्य नाम ज्ञानपुरुषस्वामी इति अस्ति सः कथं रूढास्वामी इति अभवत् इति मया न ज्ञातम्। कोऽपि माम् अकथयत् – गुर्जरभाषायां रूढः इति सुन्दरः सः रूपवान् अस्ति तस्मात् भक्ताः तं रूढास्वामी इति अभिधानं दत्तवन्तः।
२०१०-१०-३० शनिवासरः (2010-10-30 Saturday)
अत्र महिलानाम् अधिसङ्ख्यम् अस्ति। अत्र बालानाम् अधिसङ्ख्यम् अस्ति।
सम्प्रति वार्ताः श्रूयन्ताम् (http://www.newsonair.com/Text-nsd-Bulletins-schedule.asp) इति समाचारस्य प्रवाचकः बलदेवानन्दवर्यः मां विद्युतपत्रेण असूचयत् – अधिसङ्ख्यम् इति शब्दः अव्ययः अस्ति किन्तु तस्य उपयोगः अधिसङ्ख्यं जनाः इति न भवति जनानाम् अधिसङ्ख्यम् अस्ति इति सम्यग् उपयोगः अस्ति। अधिसङ्ख्यम् इति शब्देन सह क्रियापदम् एकवचने प्रथमपुरुषे एव भवेत् इति।
२०१०-१०-२९ शुक्रवासरः (2010-10-29 Friday)
संख्यायामिति सप्तम्यर्थेऽव्ययीभावे – अधिसंख्यमिति अव्ययं भवति।
अधिका संख्या – इति समासे – संख्या आधिक्यं सूच्यते, अधिसंख्यापदेन majority इत्यर्थे प्रयोगस्तु भवत्येव।
किं तु अधिसंख्यमिति महिलानामधिसंख्यमिति न साधुप्रयोगः इत्येव वक्तुं शक्यते, आधिसंख्यमिति तस्मिन्नेवार्थे अधिसंख्यायाः भावः – majority in numbers, आधिसंख्यं महिलानाम्, बालानामिति साधुः प्रयोगः।
अनुशीलनम्
मामकाः पाण्डवाः – अत्र विसर्गपूर्वमेव तिष्ठति।
चेकितानः काशिराजः – अत्र विसर्गपूर्वमेव तिष्ठति।
विक्रान्तः उत्तमौजाः -> (अः + अकारवर्जम् अन्यः स्वरः -> विसर्गलोपः) तथा विक्रान्त उत्तमौजाः
सौभद्रः द्रौपदेयाः -> (अः + मृदुव्यञ्जनम् -> ओ) तथा सौभद्रो द्रौपदेयाः
सर्वः एव -> सर्व एव
कुन्तिपुत्रः युधिष्ठिरः -> कुन्तिपुत्रो युधिष्ठिरः
सः घोषः धार्तराष्ट्राणाम् -> स घोषो धार्तराष्ट्राणाम्
२०१०-१०-२८ गुरुवासरः (2010-10-28 Thursday)
A Higher Sanskrit Grammar by Kale, p. 250, article 396.
The following seven roots form their base like the Desiderative in the senses indicated. There are: कित् to administer medicine, to treat as a patient चिकित्सति-ते; गुप् to censure, जुगुप्सते; तिज् to bear, to forgive, तितिक्षते; बध् to abhor, to act loathsomely, बीभत्सते; दान् to make straight दीदांसति-ते; मान् to reason, to think मीमांसते; शान् to sharpen, शीशांसति-ते। But कित् to desire केतति, to dwell, केतयति; दान् to cut, दानयति-ते।
२०१०-१०-२७ बुधवासरः (2010-10-27 Wednesday)
जुगुप्सते जुगुप्सेते जुगुप्सन्ते, जुगुप्से जुगुप्सेथे जुगुप्सध्वे, जुगुप्से जुगुप्सावहे जुगुप्सामहे। – लट्
जुगुप्सिष्यते जुगुप्सिष्येते जुगुप्सिष्यन्ते, जुगुप्सिष्ये जुगुप्सिष्येथे जुगुप्सिष्यध्वे, जुगुप्सिष्ये जुगुप्सिष्यावहे जुगुप्सिष्यामहे। – लृट्
जुगुप्सताम् जुगुप्सेताम् जुगुप्सन्ताम्, जुगुप्सस्व जुगुप्सेथाम् जुगुप्सध्वम्, जुगुप्सै जुगुप्सावहै जुगुप्सामहै। – लोट्
अजुगुप्सत अजुगुप्सेताम् अजुगुप्सन्त, अजुगुप्सथाः अजुगुप्सेथाम् अजुगुप्सध्वम्, अजुगुप्से अजुगुप्सावहि अजुगुप्सामहि। – लङ्
अजुगुप्सिष्यत अजुगुप्सिष्येताम् अजुगुप्सिष्यन्त, अजुगुप्सिष्यथाः अजुगुप्सिष्येथाम् अजुगुप्सिष्यध्वम्, अजुगुप्सिष्ये अजुगुप्सिष्यावहि अजुगुप्सिष्यामहि। – लृङ्
जुगुप्सेत जुगुप्सेयाताम् जुगुप्सेरन्, जुगुप्सेथाः जुगुप्सेयाथाम् जुगुप्सेध्वम्, जुगुप्सेय जुगुप्सेवहि जुगुप्सेमहि। – विधिलिङ्
२०१०-१०-२६ मङ्गलवासरः (2010-10-26 Tuesday)
नमो नमः श्रीमन् |
अहं धातूनां एकस्य कोष्टकस्य निर्माणं कुर्वन् अस्मि |
तस्मिन् एकां पन्क्तीम् कृपया दृश्यतां :
पठति / पठामि / पठितवान् / पठिष्यति / पठतु / पठितव्यम् / पठितम् / पठित्वा / पठितुम् / पठन् / पठेत्
आत्मनेपदान् एवं कथं लेखितव्यं इति संशयः अस्ति |
उदाहरणे:–
मन्यते / मन्ये / ??? / ??? / ??? / ??? / ??? / ??? / ??? / ??? / ??? /
श्रूयते / श्रूये / ??? / ??? / ??? / ??? / ??? / ??? / ??? / ??? / ??? /
लभ्यते / लभ्ये / ??? / ??? / ??? / ??? / ??? / ??? / ??? / ??? / ??? /
वर्तते / वर्ते / ??? / ??? / ??? / ??? / ??? / ??? / ??? / ??? / ??? /
भवान कृपया मम साहाय्यं क्रियताम् |
संस्कृतचन्दमामापत्रिका मया अद्य जालपत्रे दृष्टा। http://www.chandamama.com/lang/index.php?lng=SAN
कृपया पठतु। तस्यां पत्रिकायां निबन्धाः (Sanskrit essays), वार्ताः अन्याः रोचकलेखाः अपि सन्ति।
२०१०-१०-२५ सोमवासरः (2010-10-25 Monday)
I CAME TO KNOW FROM INTERNET THAT THERE IS CHANDAMAMA IN SANSKRIT LANGUAGE . IS IT TRUE?
THEN HOW CAN I GET IT.
TIMIR KUMAR BAKSHI.
गत शुक्रवासरे २२-१०-२०१० तिथौ इदं वृत्तपत्रम् सर्वाधिकजनाः आगच्छन्। तेषां सङ्ख्या अस्ति चतुष्षष्ट्यधिकपञ्चशतम्।
२०१०-१०-२४ रविवासरः (2010-10-24 Sunday)
समवेता युयुत्सवः <– समवेताः युयुत्सवः
सेनयोरुभयोर्मध्ये <– सेनयोः उभयः मध्ये
कैर्मया <– कैः मया
एवमुक्तो हृषीकेशो <– एवमुक्तः हृषीकेशः
भोगैर्जीवितेन <– भोगैः जीवितेन
प्रपश्यद्भिर्जनार्दन <– प्रपश्यद्भिः जनार्दन
दोषैरेतैः <– दोषैः एतैः
विसर्गात् पूर्वम् अकाराऽऽकारवर्जं कोऽपि स्वरः + कठोरव्यञ्जनं विहाय यः कोऽपि वर्णः = र् (विसर्गस्य र् भवति)
२०१०-१०-२३ शनिवासरः (2010-10-23 Saturday)
स्पर्धायाः साक्षाद्विवरणं भविष्यति। लोकसभायाः वाद-विवादस्य साक्षाद्विवरणं भविष्यति। दूरदर्शनम् अस्य द्वन्दस्य साक्षाद्विवरणं न करिष्यति।
२०१०-१०-२१ गुरुवासरः (2010-10-21 Thursday)
बहुत अच्छा !