सार्वजनिकयातायातम् (Public Transport)
मह्यं मिनियापोलिस्नगरस्य सार्वजनिकयातायातं रोचते। अहं विमानपत्तनात् नगरमध्ये स्थितं भाटनिवासं (hotel) संयानेन (by train) अगच्छम्। प्रत्यागमनस्य काले अपि अहं संयानेन विमानपत्तनं प्राप्तवान्। एकमेव यात्रापत्रं क्रीत्वा द्विसार्धहोरापर्यन्तं संयानेन सर्वयानेन (by bus) च यात्रां कर्तुं शक्यते। नगरमध्ये तु यात्रा निःशुल्कास्ति।
२०१०-०७-३० शुक्रवासरः (2010-07-30 Friday)
Sir, can I have your phone number?