विश्वस् (to trust)
विश्वसिति विश्वसितः विश्वसन्ति
विश्वसिषि विश्वसिथः विश्वसिथ
विश्वसिमि विश्वसिवः विश्वसिमः
विश्वस् धातुः परस्मैपदी अदादिगणीयः धातुः अस्ति। तस्य रूपाणि स्वप् इति धातुवत् भवन्ति।
२०१०-०५-३१ सोमवासरः (2010-05-31 Monday)
विश्वसिति विश्वसितः विश्वसन्ति
विश्वसिषि विश्वसिथः विश्वसिथ
विश्वसिमि विश्वसिवः विश्वसिमः
विश्वस् धातुः परस्मैपदी अदादिगणीयः धातुः अस्ति। तस्य रूपाणि स्वप् इति धातुवत् भवन्ति।
२०१०-०५-३१ सोमवासरः (2010-05-31 Monday)
अद्य केन्बरानगरे भारतात् आगछन्तः बालगायकानां कार्यक्रमः आसीत्। इमे गायकाः भारतदेशे दूरदर्शनप्रतियोगितासु जयमानाः गायकाः सन्ति। अहं ज्वलितया सह कार्यक्रमे अगच्छम्। मीता ज्वरिता असीत्।
२०१०-०५-३० रविवासरः (2010-05-30 Sunday)
लालजीवर्यः अस्माकं गृहस्य नातिदूरे निवसति। अद्य सायंकाले अहं मीतया सह तयोः गृहं भोजनाय अगच्छम्। दिव्यांशुः सिडनीनगरे आसीत्, शुचिता अभ्यासार्थं विश्वविद्यालये, ज्वलिता स्वमित्रस्य गृहे च। भोजनं सार्धसप्तवादने आरब्धं रात्रौ एकादशवादने समाप्तम्। लालजीवर्यस्य भार्या अनेकानि सुस्वादूनि
भोज्यपदार्थानि अपचत्।
२०१०-०५-२९ शनिवासरः (2010-05-29 Saturday)
An attempt at English translation:
लालजीवर्यः अस्माकं गृहस्य नातिदूरे निवसति।
Mr. Lalji doesn’t live very far from our house.
अद्य सायंकाले अहं मीतया सह तयोः गृहं भोजनाय अगच्छम्।
Today evening I went to his (their?) house with Meeta for dinner.
दिव्यांशुः सिडनीनगरे आसीत्, शुचिता अभ्यासार्थं विश्वविद्यालये, ज्वलिता स्वमित्रस्य गृहे च।
Divyanshu was in Sydney, Shuchita was studying in the University, and Jwalita was at her friend’s house.
भोजनं सार्धसप्तवादने आरब्धं रात्रौ एकादशवादने समाप्तम्।
The dinner started on 7:30 and finished at 11 in the night.
लालजीवर्यस्य भार्या अनेकानि सुस्वादूनि भोज्यपदार्थानि अपचत्।
Lalji’s wife cooked many very tasty dishes.
अद्य दिव्यांशुः चतुर्वादने सिडनीनगरं गमनाय निश्चयम् अकरोत्। अहं यदा सायंकाले षड्वादने गृहं प्रत्यागच्छं सः गृहे एव आसीत्। सः अकथयत् अहं विलम्बितः अस्मि। अहं कथम् अनुमानं कर्तुं शक्नोमि सः द्विहोरापर्यन्तं विलम्बितः भविष्यति।
२०१०-०५-२८ शुक्रवासरः (2010-05-28 Friday)
An attempt at English translation:
अद्य दिव्यांशुः चतुर्वादने सिडनीनगरं गमनाय निश्चयम् अकरोत्।
Today Divyanshu decided to go to Sydney at 4′o clock.
अहं यदा सायंकाले षड्वादने गृहं प्रत्यागच्छं सः गृहे एव आसीत्।
But today I came home at 6 in the evening, he was (still) at home.
सः अकथयत् अहं विलम्बितः अस्मि।
He said I’m late (He said I was late)
अहं कथम् अनुमानं कर्तुं शक्नोमि सः द्विहोरापर्यन्तं विलम्बितः भविष्यति।
(Couldn’t get this one properly): He believed what he said, (therefore) he was delayed by two hours.
अद्य मेल्बोर्नविश्वविद्यालयात् मम मित्रं पलनीवर्यः केन्बरानगरम् आगच्छत्। सः मया सह मम छात्रैः सह च अमिलत् किञ्चित् शोधकार्यस्य चर्चाम् अकरोत्। रात्रौ सः मया मम भार्यया कन्यया सह च वीयटनामदेशीयं भोजनगृहं भोजनम् अकरोत्।
२०१०-०५-२७ गुरुवासरः (2010-05-27 Thursday)
An attempt at English translation:
अद्य मेल्बोर्नविश्वविद्यालयात् मम मित्रं पलनीवर्यः केन्बरानगरम् आगच्छत्।
Today my friend Mr. Palani came from Melbourne University to Canberra.
सः मया सह मम छात्रैः सह च अमिलत् किञ्चित् शोधकार्यस्य चर्चाम् अकरोत्।
He met my students with me and talked of some research work.
रात्रौ सः मया मम भार्यया कन्यया सह च वीयटनामदेशीयं भोजनगृहं भोजनम् अकरोत्।
In the night him, I, my wife and my daughters went to a Vietnamese restaurant for dinner.
हिन्दीभाषायाः शब्दः कमरा इति शब्दस्य संस्कृत-अनुवादः कः अस्ति। अपि कोष्ठः, प्रकोष्ठः, शाला, आगारः, अन्तर्गृहम्।
२०१०-०५-२६ बुधवासरः (2010-05-26 Wednesday)
Following results from on-line dictionary -
कक्षा kakSaa f. room
कक्ष kakSa m. room
कोष्टक koSTaka m. room
प्रकोष्ठ prakoSTha m. room
कोष्ठ koSTha m. room
अवकाश avakaaza m. room
निवेशन nivezana n. room
व्यचस् vyacas n. room
वासगृह vaasagRha m. bed-room
स्नानशाला snaanazaalaa f. bath-room
कण्डोलक kaNDolaka m. srore-room
कोष koSa m. n. store-room
स्नानशाला snaanazaalaa f. bath room
अतिथिप्रकोष्ठ atithiprakoSTha m. guest room
कोष्ठ koSTha m. inner room
कोष्ठ koSTha m. store room
पठनप्रकोष्ठ paThanaprakoSTha m. study room
नेपथ्यगृह nepathyagRha n. change room
नेपथ्यगृह nepathyagRha n. locker room [ am. ]
धारागृह dhaaraagRha n. shower room [ shower stall ]
नेपथ्यगृह nepathyagRha n. toilet room
वाचनालय vaacanaalaya m. reading room
अवकाश avakaaza m. room (space)
प्रतीक्षालय pratiikSaalaya m. waiting room
आस्थान aasthaana n. assembly room
गर्भगृह garbhagRha m. sleeping room
स्वागतकक्ष svaagatakakSa m. reception room
अयं प्रकोष्ठः मदीय ayaM prakoSThaH madiiya m. This is my room.
अस्य प्रकोष्ठस्य वस्न asya prakoSThasya vasna m. rent of this room edit
किम् अयम् तव प्रकोष्ठः? kim ayam tava prakoSThaH? sentence Is this your room?
सभा sabhaa f. large assembly room
कस्य अयम् प्रकोष्ठः? kasya ayam prakoSThaH? sentence Whose room is this?
आम, अयम् प्रकोष्ठः मदीयः. aam, ayam prakoSThaH madiiyaH. sentence Yes, this room is mine.
शालिन् zaalin adj. possessing a house or room
The dictionary which I accessed provides for editing these entries. I think the words generally useful for translating “room” are कक्ष, प्रकोष्ठ, गृह, aalaya
Although all these appear to be synonyms, it seems one has to use them all judiciously. For example, for conference hall one would rather say सभागृह than सभाप्रकोष्ठ
मङ्गलवासरे अहं हिन्दीभाषां पाठयामि। अद्य प्रथमवारम् अहं चेतनावत् अवागच्छम् एकं वचः द्विप्रकारेण कथितुं शक्यते। यथा
मैंने सेव को खाया। मैंने रोटी को खाया। मैंने रोटीयों को खाया।
मैंने सेव खाया। मैंने रोटी खाई। मैंने रोटीयाँ खाईं।
अत्र कारकनियामाः कुत्र गच्छन्ति।
२०१०-०५-२५ मङ्गलवासरः (2010-05-25 Tuesday)
सोमवासरस्य दूरदर्शनकार्यक्रमाः मह्यं भृशं रोचन्ते किन्तु अद्य मया मनोबलं दृढीकृतं दूरदर्शनं न दृष्टम् च। अहं प्रसन्नः अस्मि।
२०१०-०५-२४ सोमवासरः (2010-05-24 Monday)
अद्य सायंकाले अहं मीतया सह सलीमवर्यस्य सङ्गीतकार्यक्रमं श्रोतुम् अगच्छम्। सलीमवर्यः भारतीयमूलकः न्यूज़ीलेण्डनिवासी अस्ति। सः मोहम्मदरफीवर्यस्य स्वरः एव अस्ति। तस्य व्यक्तित्वम् अतीवसरलम् अस्ति। सः धैर्यतया सर्वाणाम् इष्टगीतानि क्रमेण अगायत्। सः सायंकाले सार्धसप्तवादनात् रात्रौ सार्ध-एकादशवादन् पर्यन्तम् अगायत्। तस्य गायनम् आवाभ्याम् रोचते।
२०१०-०५-२३ रविवासरः (2010-05-23 Sunday)
विधा इति जुहोत्यादिगणीयः धातुः सम्प्रति वार्ताः श्र्यूयन्ताम् इति आकाशवाणीप्रवाचकानां प्रियः धातुः अस्ति।
विधास्यति विधास्यतः विधास्यन्ति
विधास्यसि विधास्यथः विधास्यथ
विधास्यामि विधास्यावः विधास्यामः
अहं श्वः पाठं विधास्यामि। विदेशमन्त्री श्वः चीनदेशस्य यात्रां विधास्यति।
२०१०-०५-२२ शनिवासरः (2010-05-22 Saturday)
An attempt at English translation
बालगायकाः (Child-singers)
अद्य केन्बरानगरे भारतात् आगछन्तः बालगायकानां कार्यक्रमः आसीत्।
Today there was a singing program in Canberra city by children who have come from India.
इमे गायकाः भारतदेशे दूरदर्शनप्रतियोगितासु जयमानाः गायकाः सन्ति।
There were winners of Doordarshan (Indian TV channel) competition among the singers.
अहं ज्वलितया सह कार्यक्रमे अगच्छम्।
I went to the program with Jwalita.
मीता ज्वरिता असीत्।
Meeta was febrile.