मा भूत् कालस्य पर्ययः (Let there be no loss of time)
इदम् अतिसुन्दरं वाक्यमस्ति मा भूत् कालस्य पर्ययः। श्रीवाल्मीकीरामायणे बालकाण्डे द्वाविंशतितमे सर्गे द्वादशे श्लोके इदं वाक्यमस्ति। अतिसुन्दरम्।
२०१०-०३-३१ बुधवासरः (2010-03-31 Wednesday)
इदम् अतिसुन्दरं वाक्यमस्ति मा भूत् कालस्य पर्ययः। श्रीवाल्मीकीरामायणे बालकाण्डे द्वाविंशतितमे सर्गे द्वादशे श्लोके इदं वाक्यमस्ति। अतिसुन्दरम्।
२०१०-०३-३१ बुधवासरः (2010-03-31 Wednesday)
समाहितः इति शब्दः मया अनेकवारः पठितः। वाल्मीकीरामायणे अस्ति तपस्यन्तमिह स्थाणुं नियमेन समाहितम् इति। अत्र अस्य शब्दस्य अर्थमस्ति एकध्यानम् इति।
मया कार्यं समाहितम् इति वाक्ये समाहितम् इति शब्दस्य अर्थमस्ति अनुष्ठितं विहितम् वा।
२०१०-०३-३० मङ्गलवासरः (2010-03-30 Tuesday)
“समाहित”-शब्दः “सम् + आ + धा” इति धातुनः कर्मणि-भूतकाल-वाचकं विशेषणम् । अस्मात् धातुनः एव “समाधानम्” इति नाम । अतः “समाहित”-शब्दस्य अर्थः अपि “समाधानमभवत्” एवम् इति मन्ये । कथमेतत् ?
समाधीयते इति समाधिः, सम्यग् आधीयते मनः अत्र इति कृत्वा, समाहितं मनः – इत्यादाविव – concentration इत्यर्थः स्वरस एव।
अस्मादेव समाधानं समाधिरिति स्वरसत एव प्रयोगौ। न केवलं धात्वर्थमात्रे एव प्रयोगस्य साधुत्वम् -
“उपसर्गेण धात्वर्थो बलादन्यत्र नीयते” इति वाक्यात्।
अद्य वयम् एकेन नवीनमार्गेन ज्वलितायाः विद्यालयं अगच्छाम। पूर्वं वयं केन्बरानगरस्य मुख्यमार्गं अपरिहर्तुं विविधमार्गे गच्छामः स्म किन्तु अद्य यस्मिन् नवीनमार्गे अगच्छाम सः मार्गः मुख्यमार्गं द्विवारं अतिक्रमति तथापि यातायातकालस्य अपचयं करोति।
२०१०-०३-२९ सोमवासरः (2010-03-29 Monday)
दिव्यांशुः ह्यः सिडनीनगरं तस्य गायकेन सह सङ्गीतरचनां कर्तुम् अगच्छत्। अद्य सायंकाले सः प्रत्यागच्छत्। तौ एकस्य नूतनस्य गीतस्य रचनाम् अकुरुताम्। तस्मिन् गीते एकस्य संयुक्तराज्यस्य गायकस्य स्वरः अपि अस्ति। तत् गीतं मह्यं रोचते।
२०१०-०३-२८ रविवासरः (2010-03-28 Sunday)
अभिनंदनम् दिव्यांशुनः तस्य मित्रगणस्यापि ।
कः विषयः अस्य गीतस्य ननु ।
सुखमस्तु ।
अद्य प्रातःकाले अहं दिव्यांशुं कृष्णस्य गृहे नीतवान्। दिव्यांशुः कृष्णेन सह सिडनीनगरम् अगच्छत्। तत् परं मया मेल्बोर्नस्थप्रहलादवर्येण सह एकसङ्क्रमकविषये वार्तालापं कार्यं च अकरवम्। मध्याह्ने मित्रैः सह विहाराय भोजनाय च उद्याने अगच्छम्। ततः प्रत्यागम्य मया सुप्तम्। उत्थाय चलचित्रं दृष्टवान्। इति दिवसः।
२०१०-०३-२७ शनिवासरः (2010-03-27 Saturday)
अद्य मया रात्रौ दशवादने गृहं प्रत्यागच्छम्। दिव्यांशुः नववादनपर्यन्तं कार्यं करोति स्म। शुचिता विश्वविद्यालये पुस्तकालये पठति स्म। नववादने दिव्यांशुः मां सूचितवान् सः आपणे एकलः अस्ति तस्मात् आपणं पिधानं कृत्वा धनं गणनाय विलम्बः भविष्यति इति। अन्ते ऊनविंशतिदशवादने सः गृहम् गमनाय सज्जः अभवत्। तत् परम् आवां शुचितां नीत्वा दशवादने गृहं प्रत्यागच्छाम।
२०१०-०३-२६ शुक्रवासरः (2010-03-26 Friday)
सः अस्मिन् कार्ये संपृक्तः अस्ति। सः पठन्कार्ये संपृक्तः नासीत्। वयं सर्वे राष्ट्रनिर्माणकार्ये संपृक्ताः स्याम।
२०१०-०३-२५ गुरुवासरः (2010-03-25 Thursday)
The popular usage is the benedictory verse of रघुवंश of Kalidasa:
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ १.१ ॥
इति।
सम्पृक्तः इति संसर्ग उच्यते, संपर्कः – contact, hence कार्ये संप्रुक्तः इति न समीचीनः प्रयोगः।
अहो दुर्जनसम्पर्कात् मानहानिः पदे पदे।
मुद्गरो लोहसंगेन मुद्गरैरभिहन्यते॥
इति सुभाषितम्।
Better would कार्ये लग्न, मग्नः – engaged in work, busy with work, इति प्रयोगः।
2 samparka m. (ifc. f. %{A}) mixing together , mixture , commingling , conjunction , union , association , touch , contact between (comp.) or with (instr. with or without %{saha} gen. , or comp.) MaitrUp. MBh. Ka1v. &c. ; bodily contact , sexual intercourse with (comp.) Kull. ; addition , sum A1ryabh.
अद्य रामचन्द्रस्य जन्मदिवसः अस्ति। तुलसीदासेन अस्य दिवसस्य वर्णनं रामचरितमानसग्रंथे कृतम्। सः लिखति न तदा उष्णं न शीतं न अतिवातः न अनावातः सर्वथा संतुलितं वातावरम् आसीत्। केन्बरानगरे अस्मिन् काले प्रायः शीतम् आरब्धं भवति किन्तु अद्य रामचन्द्रस्य जन्मदिवसे यथा अयोध्यानगर्यां वातवरणम् आसीत् तथा अत्रापि आसीत्। सायंकाले अहं मम भार्यया सह भ्रमणाय अगच्छम्। तत् तु अस्माकं रामनवमीसमारोहः आसीत्।
२०१०-०३-२४ बुधवासरः (2010-03-24 Wednesday)
मङ्गलवासरे सायंकाले षट्वादनात् अष्टवादनपर्यन्तम् अहं हिन्दीभाषां पाठयामि। अद्य शुचितापि कक्षायाम् आसीत्। ज्वलिता प्रायः आगच्छति किन्तु अद्य तस्याः गणवाद्ययन्त्रस्य प्रदर्शनम् आसीत् तस्मात् सा न आगच्छत्।
२०१०-०३-२३ मङ्गलवासरः (2010-03-23 Tuesday)
मम सोमवासरः कुत्र गच्छति इति अहं न जानामि। सोमवासरे यातायतैः मार्गाः परिपूर्णाः सन्ति तस्मात् कार्यालयाय नियतकालपूर्वं निर्गन्तव्यम्। अद्य मम शोधप्रतुतिकरणमपि आसीत्। सायंकाले रोचकाः दूरदर्शनकार्यक्रमाः दृश्यन्ते। सार्धसप्तवादनात् सार्धाष्टवादन् पर्यन्तं हास्यकार्यक्रमौ स्तः तत् परं सामयिककार्यक्रमः अस्ति। दूरदर्शनं संदृश्य अहं क्लान्तः भवामि तस्मात् रात्रौ प्रत्यग्रं स्वपिमि।
२०१०-०३-२२ सोमवासरः (2010-03-22 Monday)
गिरिजेश राव 10:35 pm on April 3, 2010 Permalink |
आभारम्।