सिडनीनगरं गतम् (Went to Sydney)
अद्य प्रातः सार्धसप्तवादने मया सिडनीनगरं गतम्। तत्र विश्वविद्यालये एकं प्रस्तुतीकरणम् आसीत्। प्रस्तुतीकरणस्य परम् एकवादने ततः प्रत्यागतम्। प्रत्यागम्य मया ज्ञातं ज्वलिता अस्वस्था अस्ति। सा गत बुधवासरे एकं शिविरं गतवती किन्तु अद्य प्रातःकाले दिव्यांशुः तां शिविरात् प्रत्यानयत् यतो हि सा अस्वस्था अस्ति।
२०१०-०२-१९ शुक्रवासरः (2010-02-19 Friday)