व्रणेन दिवं गता (Death with Cancer)
अस्माकं मित्रस्य भार्या प्रेमवर्या सोमवासरे व्रणेन दिवं गता। सा अद्वितीया महिला आसीत्। अन्तकालतः सा प्रसन्नचित्ता आसीत्। तस्याः शान्त्यै अहं प्रार्थनां करोमि।
२०१०-०१-१३ बुधवासरः (2010-01-13 Wednesday)
अस्माकं मित्रस्य भार्या प्रेमवर्या सोमवासरे व्रणेन दिवं गता। सा अद्वितीया महिला आसीत्। अन्तकालतः सा प्रसन्नचित्ता आसीत्। तस्याः शान्त्यै अहं प्रार्थनां करोमि।
२०१०-०१-१३ बुधवासरः (2010-01-13 Wednesday)
आवयोः अपत्यानि तैः मात्रा सह अद्य चलचित्रगृहे त्रयः मूर्खाः इति चलचित्रम् अपश्यन्। शुचिता कथयति तत्र अभारतीयानां बहुत्वम् आसीत् इति। ते हिन्दीचलचित्रे किम् अवगच्छन्ति अहं न जाने।
२०१०-०१-१२ मङ्गलवासरः (2010-01-12 Tuesday)
I want some story in sanskrit .in video form
नेतुः अमरसिंहस्य अन्येषु नेतृषु कीदृशं धारणमस्ति अहं न जाने। सः वैभवे लोटति तथापि दुबईनगरात् यदा त्यागपत्रं प्रेषयति तदा सञ्जयदत्तः अपि कम्पति। मुलायमः मुलायमात् मुलायमः भवति। जयादेव्यौ धावतः। शरदः तस्य स्वागतस्य अपेक्षां कुरुते। अमरः स्वजीवने अमरः अस्ति।
२०१०-०१-११ सोमवासरः (2010-01-11 Monday)
अद्य अहं मम भार्यया मीतया सह चीरकालपरं शाकापणम् अगच्छम्। अहो आश्चर्यम् तत्र केवलं भारतीयाः आसन्। किञ्चित् चीनदेशीयाः आसन् किन्तु भारतीयानां बहुमतम् आसीत्।
२०१०-०१-१० रविवासरः (2010-01-10 Sunday)
अद्य प्रातःकाले नववादने शुचिता स्वकार्याय अगच्छत्। सा चायापणे कार्यं कर्तुम् अगच्छत्। तां तत्र नयित्वा परं गृहं प्रात्यागत्य मया कन्टकोद्धरणं कृतम्। मया क्षुरप्रस्य उपयोगं न कृतं केवलं हस्ताभ्यां उद्धरणं कृतम्। द्विवादने शुचितां चायापणात् नयित्वा पुनः सार्धद्विवादने तस्याः पुष्पापणस्य कार्यम् अनयम्। सा सायंकाले सार्धसप्तवादने कार्यात् प्रत्यागच्छत्।
२०१०-०१-०९ शनिवासरः (2010-01-09 Saturday)
What is क्षुरप्रस्य ?
Thanks
अद्य जलम् अतिवर्षति (raining violently)। अद्य अनभ्रवृष्टिः (rain without clouds) भवति। अस्मिन् वर्षे अपर्तुवृष्टिः (rain without season) अभवत्। अयम् अविरलधारासारः अहं सोढुं न शक्नोमि। पश्य अयम् आखण्डलचापः (rainbow)। केन्बरानगरे शीतकाले तुषारः अपि पतति। अत्र शीतऋतौ शीकरः (drizzle) बाधते।
२०१०-०१-०८ शुक्रवासरः (2010-01-08 Friday)
शीतकाले केन्बरानगरे प्रातःकाले प्रायः कुज्झटिः अस्ति। केन्बरानगरे रात्रौ एकः विमानः आगच्छति यः रात्रौ केन्बराविमानस्थले एव तिष्ठति तथा प्रातःकाले सिडनीनगरं गच्छति। यदि शीतकाले असंशयः गमनीयः तर्हि तस्मिन् उड्डाने एव गमनीयः। ये विमानाः प्रातःकाले आगच्छन्ति ते कुज्झट्यै अनेकवारं अवतरितुं न शक्नुवन्ति तस्मात् विलम्बः भवति। अधुना दिल्लीनगरस्य कुज्झटिविषये प्रचुरा चर्चा अस्ति।
२०१०-०१-०७ गुरुवासरः (2010-01-07 Thursday)
मया तेन सह मन्त्रितम्। प्रधानमन्त्रिणा मन्त्रिभिः सह मन्त्रितम्। प्रशासित्रा (Dictator) केनापि सह न मन्त्रितम्। मम भार्यया मया सह मन्त्रितं किन्तु तया मम मन्त्रणा शेष्या (ignored)।
२०१०-०१-०६ बुधवासरः (2010-01-06 Wednesday)
Srinivasa 7:30 am on January 14, 2010 Permalink |
Himanshu-bhai,
I’m not sure if ‘vraNa’ is really a fitting translation for ‘cancer’. The word ‘vraNa’ is glossed by the Lexicon as ‘wound’, ‘ulcer’, ‘abscess’,'boil’, ‘scar’, ‘tumor’, ‘cancer’ etc. But it is really seen in literature as ‘wound’.
Is this word being commonly used for cancer or cancerous tumor now?
S. L. Abhyankar 6:41 pm on January 14, 2010 Permalink |
Commonly used word for Cancer is कर्करोगः
Srinivasa 3:14 am on January 15, 2010 Permalink |
Himanshu-bhai,
Sorry I didn’t express my condolences before. I guess I was carried away by lexical analysis.