धनसम्पादनम् (Accumulating wealth)
तस्य प्रवृत्तिः धनसम्पादने अस्ति।
मम वृत्तिः धनसम्पादने अस्ति किन्तु अहं तत् कर्तुं न शक्नोमि।
गृहस्थाः धर्मसम्पादनं कर्तुं अर्हन्ति।
२००९-०९-२९ मङ्गलवासरः (2009-09-29 Tuesday)
तस्य प्रवृत्तिः धनसम्पादने अस्ति।
मम वृत्तिः धनसम्पादने अस्ति किन्तु अहं तत् कर्तुं न शक्नोमि।
गृहस्थाः धर्मसम्पादनं कर्तुं अर्हन्ति।
२००९-०९-२९ मङ्गलवासरः (2009-09-29 Tuesday)
अद्य विजयदशमी-उत्सवः अस्ति। अद्य विद्यालये छात्राणाम् द्विसप्ताहात्मकः अवकाशः आरब्धः। मन्दिरे अद्य अन्तिमं गरबा-नृत्यम् अस्ति तस्मात् गृहात् सर्वे तत्र गतवन्तः। अहं गृहे अस्मि।
२००९-०९-२८ सोमवासरः (2009-09-28 Monday)
नवरात्री-उत्सवे अद्य मन्दिरे गायत्री-हवनस्य आयोजनम् आसीत्। मन्दिरे प्रायः द्विशतं जनाः साकं हवनं अकुर्वन्। एकैकः हवनकुण्डे पञ्च दम्पतयः अतिष्ठन्। हवनः पूजा च प्रातः नववादने आरभत द्वादशवादने पूर्णम् अभवत्। तत् परं भोजनम् अपि आसीत्। उत्सवस्य अन्ते अहम् अतीवक्लान्तः अभवम्।
२००९-०९-२७ रविवासरः (2009-09-27 Sunday)
अद्य वयं राष्ट्रीय-संसद्-भवने गरबा-नृत्यं अकुर्म। प्रायः पञ्चशतं जनाः आसीत्। भारतीय-राजदूता श्रीमती-सुजाता-सिंहवर्या अस्य देशस्य निर्वाचिताः नेतारः च उत्सवे आसन्। उत्सवः अत्यान्दायकः आसीत्।
२००९-०९-२६ शनिवासरः (2009-09-26 Saturday)
अद्य नवरात्री-उत्सवे मन्दिरे केवलाः बालकाः एव अगच्छन्। अहं मम भर्यया सह गृहे एव अतिष्ठाम्। दिव्यांशुः प्रायः स्वभगिनीभ्यां सह नृत्याय मन्दिरं न गच्छति किन्तु अद्य सः ताभ्यां सह अगच्छत्। ते रात्रौ दशवादने प्रसन्नाः गृहं प्रत्यागच्छन्।
२००९-०९-२५ शुक्रवासरः (2009-09-25 Friday)
अद्य नवरात्री-उत्सवे रास-नृत्यं करणाय वयं न अगच्छाम। अद्य शुचिता श्वस्तस्यै एकस्यै परिक्षायै अध्ययनं करोति तस्मात् वयं गृहे एव आसम।
२००९-०९-२४ गुरुवासरः (2009-09-24 Thursday)
अद्य रात्रौ अस्माकं गृहे स्वसारौ गरबा-नृत्याय मन्दिरं गन्तुं उद्युक्तौ भवतः स्म। तदा ज्वलितायाः सखा दूरभाषयति स्म अहं अद्य मन्दिरं न गमिष्यामि इति। तत् ज्ञात्वा ज्वलिता शुचिताम् अकथयत् अद्य अहं न गमिष्यामि इति। अद्य शुचितां नृत्यकरणस्य प्रबला इच्छा आसीत्। यतो हि ज्वलिता न गमिष्यति इति ज्ञात्वा शुचितया स्वस्य गमनम् अपि स्थगितम्। किञ्चित् काल परं ज्वलितायाः सखा पुनः दूरभाषयति अहं मन्दिरं गमिष्यामि इति। तत् परं ज्वलिता शुचिताम् अकथयत् अपि अहम् अपेक्षे भवति मह्यं न कुप्यति यदि अहम् इदानीं मन्दिरं गमिष्यामि इति। तत् श्रुत्वा शुचितायाः कोपबन्धः विस्फोटितः। गृहे स्वस्रोः अकलहतां स्वकक्षे गत्वा अक्रन्दताम् अस्वपिताम् च।
२००९-०९-२३ बुधवासरः (2009-09-23 Wednesday)
अद्य विश्वविद्यालये मया पाठ्यमाणे विषये छात्राणां परीक्षा आसीत्। सामान्यतया अहं सरलपरीक्षापत्रं सज्जीकरोमि अद्यापि परीक्षापत्रम् अतिसरलम् आसीत्। काश्चन छात्राः समीचीनम् अनुष्ठितवन्तः काश्चन छात्राः असमीचीनं कृतवन्तः। असमीचीनं कार्यमाणाः छात्राः अन्यां परीक्षाम् अनुस्थास्यन्ति।
२००९-०९-२२ मङ्गलवासरः (2009-09-22 Tuesday)
वयम् इदं प्रख्यापनं समुपकल्पयितुं कार्यं करोमि।
विज्ञापनस्य इदं प्रथमं समुपकल्पनम् अस्ति।
अपि भवान् मन्यते इदम् अन्तिमं समुपकल्पनम् अस्ति।
२००९-०९-२१ सोमवासरः (2009-09-21 Monday)
Every verb has declensions (changes of form) caused
by person (first – I we, second – you, third – he she it they)
by number of doers (singular : ek-wachan, two together : dwi-vachan, plural : bahu-vachan)
by tense (present, past, future)
by voice (active, passive or Kartaree, karmaNi, bhaave)
by sense (adnyaarth, vidhyarth), etc.
Verb ‘kru’ will become karomi when doer is I, i.e. first person singular and the tense is present.
“karomah” is not a valid declension at all.
ah! right!
I wanted to say ‘kurmah’.. it came out as ‘karomah’
That was my original question: vayam should be have ‘kurmah’ right?
“vayam kurmah” वयं कुर्मः । is correct.
मन्दिरे अद्य प्रातःकाले हवनः आसीत्। सायंकाले चतुर्वादने माता-भजन-कीर्तनानि सन्ति। तस्यै सिडनीनगरतः भजन-कीर्तनानि गातुम् भक्ताः आगच्छन्। रात्रौ गरबा-नृत्य-कार्यक्रमः आसीत्। नृत्ये सर्वे भाक्ताः उपगच्छन्ति (participate)। प्रायः त्रिंशत् भक्ताः आगच्छन्ति। तेभ्यः भोजनस्य नृत्यस्य च आयोजनः कठिनः भवति। किन्तु सर्वे जनाः आनन्दयन्ति तस्मात् कार्यः लाघवम् गच्छति।
२००९-०९-२० रविवासरः (2009-09-20 Sunday)
namonnamah |
aham samskrta pathanam treeNi-chatvaari maasa purvatah aarambham krtavaan. yadi koapi tRti bhavati, tarhi kshamyataam, nirdoshah kreeyataam cha.
eko laghu prasnah:
prathama vaakyaante antima shabdah ‘karomah’ bhavet khalu? tatra ‘karomi’ iti asti.