ज्योत्स्नावर्या लिखिता कथा
न्यु यार्क् नगरे एक: भारतीय व्यापारिक: रामप्रसाद: नामनीय निवसति स्म । २००८ संवत्सरे तेन व्यवसाय: नष्ट:, प्रथमवारं स: क्षीणधन: । दुखित:, स इतस्तत: समाधानम् अन्वेषितवान् । एकस्मिन् दिने स: श्रुतवान् यत् भारतात् कोऽपि साधु: आगत: अस्ति इति । साधो: दर्शनार्थं स: वेगेन गतवान् । रामप्रसाद: स्वकष्टं साधुं सूचितवान् अपि च परिहारं पृष्टवान् । साधु: प्रत्युत्तरं दत्तवान् “भगवद्गीता नित्य मार्गदर्शिका, गृहं गत्वा ध्यानं करोतु, आनन्तरं भगवद्गीतापुस्तकम् उद्घाटयतु, यस्मिन् पृष्ठे भवति, तत्र यत् बोधितम् अस्ति मह्यमेव इति स्वीकृत्य अग्रे कार्यं करोतु” इति ।
कालातीत:, २००९ संवत्सरे साधु: पुन: न्यु यार्क् नगरम् आगतवान् । रामप्रसाद: आनन्देन दर्शनार्थं गतवान् । एतस्मिन् समये तु रामप्रसादस्य बृहत् वाहनं, नूतनवस्त्राणि, सुवर्णहस्तघटीं दृष्टवा तत्र जना: ज्ञातवन्त: यत् इदानीं स: धनिक: अस्ति इति । नमस्कृत्य, रामप्रसाद: अति विनयेन गुरुदक्षिणाम् अर्पितवान् । धन्यवादार्पणानन्तरं, साधुं रामप्रसाद: उक्तवान्, “भवान् यत् सूचितवान् तथैव कृतवान् । गत संवत्सरे भवत: दर्शनानन्तरं, गृहं गत्वा, ध्यानं कृत्वा, भगवद्गीतापुस्तकम् उद्घाट्य, पृष्ठे यत् बोधितम् आसीत्, मह्यमेव इति स्वीकृत्य अग्रे कार्यं कृतवान् । साधुं कुतूहलम् अभवत् , कस्मिन् पृष्ठे किं लिखितम् अस्ति, कथम् दैन्यपुरुष: शीघ्रमेव धनिक: अभवत् इति । असशाङ्क्तया, साधु: रामप्रसादं पृष्टवान् एतस्मिन् विषये । तदा रामप्रसाद: उक्तवान्, ” भगवद्गीताया: एकादशोध्यायपृष्ठ: उद्घाटितवान् । यदा “एकादशोध्याय:” पठितवान् झटिति ज्ञातवान् किं करणीयम् इति । सद्यैव परिक्षीणता* कृता !! भगवद्गीता किं न बोधयते?!!
June 6, 2009 at 11:54 pm
This time I couldn’t understand a lot of words, and couldn’t connect many known words as they were used. Still…
An attempt at English translation:
ज्योत्स्नावर्या लिखिता कथा
A story written by Jyotsna Ji
न्यु यार्क् नगरे एक: भारतीय व्यापारिक: रामप्रसाद: नामनीय निवसति स्म ।
An Indian businessman named Ramprasad used to live in New York.
२००८ संवत्सरे तेन व्यवसाय: नष्ट:, प्रथमवारं स: क्षीणधन: ।
In the year 2008, his business was destroyed, he was without money for the first time.
दुखित:, स इतस्तत: समाधानम् अन्वेषितवान् ।
Sad, he was finding a solution here and there.
एकस्मिन् दिने स: श्रुतवान् यत् भारतात् कोऽपि साधु: आगत: अस्ति इति ।
One day he heard that some sadhu (ascetic) from India has arrived.
साधो: दर्शनार्थं स: वेगेन गतवान् ।
He went to see the sadhu quickly.
रामप्रसाद: स्वकष्टं साधुं सूचितवान् अपि च परिहारं पृष्टवान् ।
Ramprasad informed the sadhu of his problem, and asked for a solution.
साधु: प्रत्युत्तरं दत्तवान् “भगवद्गीता नित्य मार्गदर्शिका, गृहं गत्वा ध्यानं करोतु, आनन्तरं भगवद्गीतापुस्तकम् उद्घाटयतु, यस्मिन् पृष्ठे भवति, तत्र यत् बोधितम् अस्ति मह्यमेव इति स्वीकृत्य अग्रे कार्यं करोतु” इति ।
Sadhu replied, “The BG is an eternal guide, go home, meditate, after that open the BG book, whatever page opens consider what is instructed as specifically for me, accepting thus work ahead.”
कालातीत:, २००९ संवत्सरे साधु: पुन: न्यु यार्क् नगरम् आगतवान् ।
As time went by, the sadhu came to New York again in the year 2009.
रामप्रसाद: आनन्देन दर्शनार्थं गतवान् ।
Ramprasad went to see (the sadhu) happily.
एतस्मिन् समये तु रामप्रसादस्य बृहत् वाहनं, नूतनवस्त्राणि, सुवर्णहस्तघटीं दृष्टवा तत्र जना: ज्ञातवन्त: यत् इदानीं स: धनिक: अस्ति इति ।
That time, seeing Ramprasad’s big car, new clothes, golden watch, the people there knew that now he’s very rich.
नमस्कृत्य, रामप्रसाद: अति विनयेन गुरुदक्षिणाम् अर्पितवान् ।
After greeting (“Namaste”) the sadhu, Ramprasad offered his offerings to the sadhu with great respect.
धन्यवादार्पणानन्तरं, साधुं रामप्रसाद: उक्तवान्, “भवान् यत् सूचितवान् तथैव कृतवान् । गत संवत्सरे भवत: दर्शनानन्तरं, गृहं गत्वा, ध्यानं कृत्वा, भगवद्गीतापुस्तकम् उद्घाट्य, पृष्ठे यत् बोधितम् आसीत्, मह्यमेव इति स्वीकृत्य अग्रे कार्यं कृतवान् ।
After thanking, Ramprasad said to sadhu, “I have done what you asked me to. After seeing you last year, I went home and meditated (prayed), opened the book of Bhagvad Gita, whatever was instructed there on the page, I did it”
साधुं कुतूहलम् अभवत् , कस्मिन् पृष्ठे किं लिखितम् अस्ति, कथम् दैन्यपुरुष: शीघ्रमेव धनिक: अभवत् इति ।
Sadhu was curious, what is written on what page, how a pooer person became rich so quickly.
असशाङ्क्तया, साधु: रामप्रसादं पृष्टवान् एतस्मिन् विषये ।
Astonished, sadhu asked Ramprasad about this.
तदा रामप्रसाद: उक्तवान्, ” भगवद्गीताया: एकादशोध्यायपृष्ठ: उद्घाटितवान् । यदा “एकादशोध्याय:” पठितवान् झटिति ज्ञातवान् किं करणीयम् इति । सद्यैव परिक्षीणता* कृता !!
Then Ramprasad said “Bhagvad Gita’s eleventh chapter opened. After reading “chapter 11″ (implying just the title), I quickly came to know what I need to do. Immediately, I filed for *bankruptcy.”
(Note: Chapter 11 is associated with business reorganization bankruptcy in the USA.)
भगवद्गीता किं न बोधयते?!!
What is there that Bhagvad Gita doesn’t reveal/inform?!!
July 15, 2009 at 3:14 pm
Mr. Anil Kumar has put in at the end the note – “Chapter 11 is associated with business reorganization bankruptcy in the USA.”
May I know why Chapter 11 is associated with reorganisation /bankruptcy in US?
Chapter 11 is on Vishwa-roop-darshan. What can be the connection between Vishwa-roop-darshan and bankruptcy?
July 18, 2009 at 9:29 am
In the USA, business organization bankruptcy falls under chapter 11 of constitution. So it was a joke.
June 13, 2009 at 8:55 pm
मेरा मानना है कि श्रीमद्भग्वद्गीता दैनंदिन जीवन की समस्याओं का हल प्रस्तुत करती है. यही मैंने अपने प्रोफाइल में भी लिखा है.
July 18, 2009 at 9:41 am
Dear Anil Kumar,
What a wit!!!!