प्रतिकृतम् (Returned)
यत् पत्रं मया ह्यः प्रेषितं तत् पत्रम् अद्य प्रतिकृतम्।
ते प्रतिकर्तुम् (to counter act) ईदृशम् कुर्वन्ति।
२००९-०६-२६ शुक्रवासरः (2009-06-26 Friday)
यत् पत्रं मया ह्यः प्रेषितं तत् पत्रम् अद्य प्रतिकृतम्।
ते प्रतिकर्तुम् (to counter act) ईदृशम् कुर्वन्ति।
२००९-०६-२६ शुक्रवासरः (2009-06-26 Friday)
अद्य विश्वविद्यालये अहं यत् शोधं करोमि तत् अधिकृत्य एकं वक्तव्यम् आसीत्। वक्तव्ये प्राचार्याः छात्राः च सन्ति। छात्राः प्रायः आङ्ग्लभाषां बोधितुं न शक्नुवन्ति तस्य उपरि मम उच्चारणं तेभ्यः अतीव क्लिष्टम् आसीत्।
२००९-०६-२५ गुरुवासरः (2009-06-25 Thursday)
अद्य अत्र ब्राजीलदेशे विश्वविद्यालये अहं मम सङ्गणित्रं बृहत्जालेन सह संयोजनस्य प्रयासम् अकरवम्। इतः एका कार्यकारिणी अकथयत् अहं संयोजनं सम्यग् करिष्यामि इति किन्तु सा किं कृता अहं न जानामि किन्तु तत् परं अहं सङ्गणित्रे प्रवेष्टुम् अपि कर्तुं न शक्नोमि। तत् परं ते किमपि अकुर्वन् मम प्रवेशः सम्भवम् अकारयन् किन्तु अहम् अतिन्यूनम् एव कार्यं कर्तुं शक्नोमि।
२००९-०६-२४ बुधवासरः (2009-06-24 Wednesday)
अद्य मया केन्बरानगरतः ब्राजीलदेशं प्रस्थितम्। केन्बरानगरतः प्रातः सार्धषट्वादने मम प्रस्थानम् आसीत्। ततः सिडनीनगरं ततः सेन्तियागोनगरं ततः सा-ओ-पावलोनगरम्। सा-ओ-पावलोनगरे मम सहकरर्मी होड्रिगोवर्यः स्वभार्यया सह मम नेतुम् आगच्छत्। तेन सह अहं सा-ओ-कर्लोसनगरं गतवान्। सा-ओ-पावलोनगरतः सा-ओ-कर्लोसनगरस्य यात्रा स्वयानेन त्रिहोरापर्यन्तम् आसीत्। तत्र वयं रात्रौ एकादशवादने प्राप्तवन्तः।
२००९-०६-२३ मङ्गलवासरः (2009-06-23 Tuesday)
अद्य मीता-शुचिता-ज्वलिताः आरती-वेणु-महाभागे च मेल्बोर्ननगरात् प्रत्यागच्छन्। ताः त्रिदिवसाय मेल्बोर्ननगरम् अगच्छन्। मया मन्यते ताः मेल्बोर्ननगरस्य भ्रमणं करिष्यन्ति इति किन्तु ताः केवलं क्रयणम् (shopping) एव अकुर्वन्।
२००९-०६-२२ सोमवासरः (2009-06-22 Monday)
पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
द्वौ द्वे द्वे
द्वौ द्वे द्वे
द्वाभ्याम् द्वाभ्याम् द्वाभ्याम्
द्वाभ्याम् द्वाभ्याम् द्वाभ्याम्
द्वाभ्याम् द्वाभ्याम् द्वाभ्याम्
द्वयोः द्वयोः द्वयोः
द्वयोः द्वयोः द्वयोः
२००९-०६-२१ रविवासरः (2009-06-21 Sunday)
पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
एकः एका एकम्
एकम् एका एकम्
एकेन एकया एकेन
एकस्मै एकस्यै एकस्मै
एकस्मात् एकस्याः एकस्मात्
एकस्य एकस्याः एकस्य
एकस्मिन् एकस्याम् एकस्मिन्
२००९-०६-२० शनिवासरः (2009-06-20 Saturday)
एकत्रिंशत् जनाः सन्ति।
द्वात्रिंशत् स्त्रियः सन्ति।
त्रयत्रिंशत् मोदकानि सन्ति।
चतुस्त्रिंशत् बालकाः सन्ति।
पञ्चत्रिंशत् कन्याः सन्ति।
षट्त्रिंशत् वृक्षाणि सन्ति।
सप्तत्रिंशत् बान्धवाः सन्ति।
अष्टात्रिंशत् बालिकाः सन्ति।
नवत्रिंशत् गृहाणि सन्ति।
२००९-०६-१९ शुक्रवासरः (2009-06-19 Friday)
Policy of this blog seems to be not to publish IDs of bloggers. See, if you can send an email to sl_abh@yahoo.com
त्रिंशत्
त्रिंशतम्
त्रिंशता
त्रिंशते
त्रिंशतः
त्रिंशतः
त्रिंशति
२००९-०६-१८ गुरुवासरः (2009-06-18 Thursday)
Shouldn’t त्रिंशत् be 300 rather than 30?
I checked up in Sanskrit Dictionary. त्रिंशत् (trinshat) means thirty. For three hundred the word is त्रिशत (trishata). The differences are ‘n’ in त्रिंशत् (trinshat) and त (ta) in त्रिशत (trishata).
त्रिशतम् इति ३०० अस्ति। त्रिंशत् इति ३० एव अस्ति।
हिमांशुः
Hmm this was tough… Last time I read a Sanskrit textbook was in 8th standard – about 17 years back. I need to refresh my knowledge. Did you know that NCERT books are online now, including Sanskrit? http://ncert.nic.in/textbooks/testing/Index.htm
Many thanks, Anil Kumar!!
The link you mentioned about NCERT books on Sanskrit is really great!!! One section of this forum is संस्कृतं शिक्षामहै । It is meant for “Learning Sanskrit”. What better way than a graded set of text-books? And lo! they are available for free download!! That is something very progressive of NCERT, in turn of Government of India. My compliments to NCERT and to Government of India!!!
Just for information of those interested to follow the link, Sanskrit textbooks are for standards vi onwards and titles of books for Sanskrit are “Ruchira” रुचिरा meaning “tasty”.
विंशतिः
विंशतिम्
विंशत्या
विंशत्यै-विंशतये
विंशत्याः-विंशतेः
विंशत्याः-विंशतेः
विंशत्याम्-विंशती
२००९-०६-१७ बुधवासरः (2009-06-17 Wednesday)
Hi..
this is Preeti from The Times of India, Bangalore. I need some inputs for a story on Sanskrit bloggers.. How can i contact you?