वरिष्ठजनाय योजनाकार्यगोष्ठी (Workshop for planning for Senior Citizens)

अद्य मन्दिरं समुद्दिश्य वरिष्ठजनाय एका योजनाकार्यगोष्ठी आसीत्। चत्वारिंशत् सदस्याः आसन्। काश्चन् मम प्रियमित्राणि आसन्। सूत्रधारः किरणवर्यः आसीत्। प्रातःकाले एकः सदस्यः दूरभाषम् अकरोत्। सः ज्ञातुम् एच्छत् अपि ताभ्यां किमपि यातायातम् अस्ति। तौ अस्माकम् इव स्ताम्। तौ नियतौ नागरिकौ स्ताम् प्रायः पञ्चाशत्वर्षीयौ स्ताम्। मया सः कथितः – अहं भ्रमितः अस्मि इति भवान् कथं यातायातस्य अपेक्षां करोति इति कथं स्वयानेन नागच्छति इति। सः प्रत्यवदत् – आवाभ्यां सह यानम् अस्ति किन्तु यदि कोऽपि अन्यः आवयोः तत्र नयिष्यति तर्हि वरम् भवेत्। अहं अकथयम् अहं भ्रमितः अस्मि किम् उत्तरं दातव्यम् इति न बोधामि इति। सर्वं श्रुत्वा तेन दूरभाषम् समाप्तम्। तौ कार्यगोष्ठ्यां नागच्छताम्।

२००९-०५-३० शनिवासरः (2009-05-30 Saturday)

About these ads