कमलेशवर्यस्य उपदेशः (Kamaleshji’s Preaching)
अद्य मन्दिरे भारतवर्षात् श्रीकलमेशवर्यः शैलेशवर्यः च उपदेशं दातुम् आगच्छताम्। तौ दादाभगवान् नाम गुरोः शिष्यौ स्तः। कमलेशवर्यः त्रीन् आशयान् अकथयत् -
१ प्रातः उत्थाय अहं कायेन-वाचा-मनसा किमपि न पीडयिष्यामि इति पञ्चवारम् उक्तव्यम्।
२ यः कः अपि दिवसे मिलति किमपि करति च सः निर्दोषः अस्ति इति चिन्तितव्यम्।
३ रात्रौ शयनस्य पूर्वं हे भगवन् अहं यत् किमपि अनिष्टम् अकरवम् तत् क्षमस्व इति पञ्चवारम् उक्तव्यम्।
२००९-०३-२९ रविवासरः (2009-03-29 Sunday)