एकः शब्दः (One word)
एकः शब्दः सम्यग्ज्ञातः शासन्वितः।
सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति।
अयं श्लोकः मया सदानदावर्यस्य मुखात् प्रथमवारः श्रुतः। ह्यः अयमेव श्लोकः Sankrit Quote of the Day इति सेवायां प्राप्तः। सा सेवा प्रापनाय कृपया गच्छतु – http://www.vediclife.biz/sanskrit.html
२००९-०३-३१ मङ्गलवासरः (2009-03-31 Tuesday)
महायशाः इति एकवचनान्तः। अत्वसन्तस्य चाधातोः (6.4.14) इति उपधादीर्घः। लघुकौमुद्यां केवलं अदन्तस्य दृष्टान्तः दत्तः। असन्तानां शब्दानां ( सुपयाः, सुयशाः, सुश्रोताः) सिद्धिः काशिकायां द्रष्टव्यं।