अद्य अहं सिडनीनगरे आसम्। प्रातःकाले समाचारपत्रम् अपठम्। द्वादशवादने स्टीववर्येण स्टेनवर्येण सह चर्चाम् अकरवम्। वयम् एकम् वातपुरस्य (air pump) नियन्त्रणाय कार्यं कुर्मः। तत् परं राजीवस्य गृहे अतिस्वादु भोजनम् अकरवम्। तत् परं राजीवस्य स्वसुः गृहं गतम्। तत्र विष्णुसहस्रनामस्त्रोतस्य पाठः कृतः। सिडनीनगरतः निर्गम्य रात्रौ एकादशवादने केन्बरानगरे अस्माकं गृहं प्राप्तम्।
२००९-०१-३१ शनिवासरः (2009-01-31 Saturday)
ह्यः औस्ट्रेलियादिवसः आसीत्। प्रधानमन्त्रि-केविन-रडवर्यः एतम् उत्सवं प्रार्चत् (celebrated)। उत्सवाय राजदूताः, राजदूतावासस्य कार्यकर्तारः तेन स्वगृहे निमन्त्रिताः। तस्य भार्या अपि तत्र आसीत्। तेन कथम् अहं आमन्त्रितः इति अहं न जानामि। अहं मन्ये तत्र द्विशतं लोकाः आसन् किन्तु तत्र आयोजकाः प्रत्येकस्य जनस्य नाम जानाति। ते मां पूर्वं न अमिलन् तस्मात् एका महिला मम निकषा आगम्य मम नाम अपृच्छत्। यदा अहं मम नाम अकथयं सा अकथयत् जानामि भवान् कः अस्ति इति।