Updates from October, 2008 Toggle Comment Threads | Keyboard Shortcuts

  • Himanshu Pota 8:12 am on October 11, 2008 Permalink | Reply  

    भज्-आत्मनेपदी-लिट्-लकारः (bhaj – to serve – remote past) 

    परोक्षभूत-लिट्
    भेजे भेजाते भेजिरे
    भेजिषे भेजाथे भेजिध्वे
    भेजे भेजिवहे भेजिमहे
    ते रामं भेजिरे। मया श्रीरामायणे सुन्दरकाण्डे भेजिरे इति शब्दः  पठितः।
    आचार्येण अयं श्लोकः सूचितः।
    सुन्दरकाण्डे एकोनत्रिशः सर्गः २९ – सीतायाः शुभशकुनानि
    तथागतां तां व्यथितामनिन्दितां व्यतीतहर्षां परिदीनमानसाम्।
    शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपसेविनः॥१॥

    २००८-१०-११ शनिवासरः (2008-10-11 Saturday)

     
    • Srinivasa 10:38 pm on October 11, 2008 Permalink | Reply

      “व्यपेतहर्षां, जुष्टमिवोपजीविनः” इत्यपि पाठान्तरम्।

  • Himanshu Pota 8:23 pm on October 10, 2008 Permalink | Reply  

    अंशापणम् (Share market) 

    अद्य पुनः अंशापणम् अपतत्। प्रायः अष्टप्रतिशतमितं क्रय-मूल्यम् अपतत्। क्रय-मूल्यानाम् इदृशम् अपचयं भविष्यति कोऽपि न अजानात्। आर्थिकव्यवस्थायां किं भविष्यति इति अहम् अचिन्तयम्।

    २००८-१०-१० शुक्रवासरः (2008-10-10 Friday)

     
  • Himanshu Pota 8:19 pm on October 9, 2008 Permalink | Reply  

    विजयदशमी (The Victory Day) 

    अद्य विजयदशमी अस्ति। अद्य वयं छात्राः आचार्यं सादरप्रणामं प्रेषितवन्तः। आचार्यः अध्येयं व्याकरणम् इति उत्तरं प्रेषितवान्।

    २००८-१०-०९ गुरुवासरः (2008-10-09 Thursday)

     
  • Himanshu Pota 7:59 pm on October 8, 2008 Permalink | Reply  

    ज्ञा-परस्मैपदी लङ्-लकारः (Indefinite Past – to know) 

    अजानात् अजानीताम् अजानन्
    अजानाः अजानीतम् अजानीत
    अजानाम् अजानीव अजानीम
    सः सर्वम् अजानात्। त्वं सर्वम् अजानाः इति अहं मन्ये। अहं किमपि न अजानाम्।

    २००८-१०-०८ बुधवासरः (2008-10-08 Wednesday)

     
  • Himanshu Pota 8:33 am on October 7, 2008 Permalink | Reply  

    आरभते (Starts) 

    एकसप्ताहस्य अवकाशस्य परम् अद्य मम पाठनकार्यं पुनः आरभते। एकसप्ताहः कुत्र अगच्छत् अहं न जानामि। अद्य अपि अहं कार्यालयं गन्तुं विलम्बितः अस्मि।

    २००८-१०-०७ मङ्गलवासरः (2008-10-07 Tuesday)

     
  • Himanshu Pota 10:59 pm on October 6, 2008 Permalink | Reply  

    श्रमिकदिवसाय अवकाशः (Labour Day Holiday) 

    अद्य अत्र श्रमिकदिवसाय अवकाशः आसीत्। श्रमिकदिवसः अस्ति श्रमिकान् एकस्मिन् दिवसे अष्टहोरापर्यन्तमेव कार्यं कारयन्तु इति निर्णयस्य उत्सवः।

    २००८-१०-०६ सोमवासरः (2008-10-06 Monday)

     
  • Himanshu Pota 10:53 pm on October 5, 2008 Permalink | Reply  

    रविवर्यस्य पञ्चाशत्तमः जन्मदिवसः (Ravi’s 50th Birthday) 

    अद्य अस्माकं मित्रस्य रविवर्यस्य पञ्चाशत्तमस्य जन्मदिवसस्य भोजनसमारोहः आसीत्। वयं तत्र गत्वा एव अजानीम यतो हि रविवर्यस्य जन्मदिवसाय अयं समारोहः अस्ति इति। भोजनस्य परं रविवर्यः विष्णुवर्यः मम भार्या च गीतानि अगायन्। गतरात्रौ समयपरिवर्तनम् अभवत् तस्मात् कतिपयाः जनाः विलम्बेन आगच्छन्।

    २००८-१०-०५ रविवासरः (2008-10-05 Sunday)

     
  • Himanshu Pota 10:40 pm on October 4, 2008 Permalink | Reply  

    श्रीयन्त्रसाधनपूजा (Shree Yantra Sadhanaa Puja) 

    अद्य प्रातः नववादनात् अपराह्ने एकवादनपर्यन्तं मन्दिरे श्रीयन्त्रसाधनपूजा आसीत्। दिल्लीनगरात् श्रीरविन्द्रवर्येण रजतश्रीयन्त्राणि प्रेषितानि। पूजायां षष्टिः दम्पत्यः आसन्। मया पूजायां अत्यन्तानन्दः प्राप्तः।

    २००८-१०-०४ शनिवासरः (2008-10-04 Saturday)

     
    • uday shankar 11:25 pm on October 21, 2009 Permalink | Reply

      tkkkkkk

    • Luke 11:14 am on October 26, 2009 Permalink | Reply

      Sorry I seem to have lost my place, I was wondering if anyone could tell me the Sanskrit for (in writing obviously); ‘NEW ORDER OF THE AGES’.

      Thank you!

  • Himanshu Pota 10:30 pm on October 3, 2008 Permalink | Reply  

    नववादने मातास्तुतिः (Mata-ki-chowki at 9pm) 

    इदानीं शरद-नवरात्र्यां मन्दिरे प्रत्येकरात्रौ भक्ताः गरबा-रास-नृत्यं कुर्वन्ति। भक्ताः कुतः आगच्छन्ति अहं न जानामि किन्तु प्रत्येकरात्रौ द्वि-त्रिशतं भक्ताः आगच्छन्ति। अद्य रासात् परं मातास्तुतिः आसीत्। स्तुत्यां न्यूनाः भक्ताः आसन्।

    २००८-१०-०३ शुक्रवासरः (2008-10-03 Friday)

     
  • Himanshu Pota 10:36 pm on October 2, 2008 Permalink | Reply  

    श्वश्रूः (Mother-in-law) 

    अद्य अहं सायंकाले मम श्यालस्य गृहं गत्वा मम श्वश्रूम् अस्माकं गृहम् आनयम्। मम भार्या न अजानत् यतो हि तस्याः माता गृहम् आगमिष्यति। यदा आवां गृहम् आगच्छाव तदा मम भार्या मह्यं कुप्यति कथं कार्यालयात् गृहम् आगन्तुं विलम्बः अभवत् इति। यदा सा स्वमातरम् अपश्यत् तदा तस्याः क्रोधः विलीनः अभवत्।

    २००८-१०-०२ गुरुवासरः (2008-10-02 Thursday)

     
c
compose new post
j
next post/next comment
k
previous post/previous comment
r
reply
e
edit
o
show/hide comments
t
go to top
l
go to login
h
show/hide help
shift + esc
cancel
Follow

Get every new post delivered to your Inbox.

Join 312 other followers