रक्षकः रक्षति (protector protects)
रक्षकः रक्षति। कन्या रक्षति। चोरः न रक्षति। अपि भवती कन्यां रक्षति। अनेकवारं नेतारः लोकान् न रक्षन्ति। त्वं धनं सदैव रक्षसि। अहं गृहं रक्षामि।
२००८-१०-२२ बुधवासरः (2008-10-22 Wednesday)
रक्षकः रक्षति। कन्या रक्षति। चोरः न रक्षति। अपि भवती कन्यां रक्षति। अनेकवारं नेतारः लोकान् न रक्षन्ति। त्वं धनं सदैव रक्षसि। अहं गृहं रक्षामि।
२००८-१०-२२ बुधवासरः (2008-10-22 Wednesday)
गायकः गायति। सः बालकः गायति। सा बालिका गायति। अयं बालकः गायति। इयं बालिका गायति। भवान् गायति। भवती गायति। त्वं गायसि। अहं गायामि।
(सुरभारती – पञ्चमः भागः, संस्कृतः कार्यालयः, श्रीअरविन्दाश्रमः पुद्दुचेरी-६०५००२)
२००८-१०-२० सोमवासरः (2008-10-20 Monday)
अर्थः, ग्रन्थः, पदार्थः, रथः, मनोरथः, शपथः, शोथः इति पुंलिङ्गाः शब्दाः सन्ति।
शोथः इति swelling, tumour; शोथकृत् इति causing swellings; शोथहूत् इति tumour removing.
शोथकृत् शोथकृतौ शोथकृतः
शोथकृतम् शोथकृतौ शोथकृतः
शोथकृता शोथकृद्भ्याम् शोथकृद्भिः
शोथकृते शोथकृद्भ्याम् शोथकृद्भ्यः
शोथकृतः शोथकृद्भ्याम् शोथकृद्भ्यः
शोथकृतः शोथकृतोः शोथकृताम्
शोथकृति शोथकृतोः शोथकृत्सु
हेशोथकृत् हेशोथकृतौ हेशोथकृतः
२००८-१०-१९ रविवासरः (2008-10-19 Sunday)
तव प्रदेशः कुत्र अस्ति तस्य निर्देशः मां दातव्यम्। मम प्रदेशः गुर्जरप्रदेशः अस्ति राजस्थानप्रदेशः अपि अस्ति। ओस्ट्रेलियादेशे मम प्रदेशः ए-सी-टी इति कथ्यते तस्य नाम केन्बरानगरम् अपि अस्ति। निर्देशकः कोऽपि चलचित्रस्य प्राणः अस्ति। बालकान् पितृभ्यां सम्यग् निर्देशः दातव्यः।
२००८-१०-१८ शनिवासरः (2008-10-18 Saturday)
इ/ई + ए (गुणः)।
तस्य आक्षेपः अहं सोढुं न शक्नोमि। आक्षेपः शब्दः क्षिप् इति धातोः प्रभवति। अहं गत षड्विंशत्याः वर्षात् विदेशे वसामि। अयं ओस्ट्रेलियादेशः मत्कृते विदेशः अस्ति। कदा विदेशः स्वदेशः भविष्यति इति अहं न जानामि।
२००८-१०-१७ शुक्रवासरः (2008-10-17 Friday)
sodum ityukte kim? asahaniiyaH va?
can we keep a sanskrit dictionary ready at hand on the bottom bar like how we keep an english dictionary “W”?
dhanyavaadaH
इ/ई + ए (गुणः)।
विद् + अ = वेद। एकः वेदः ऋग्वेदः, अन्यः वेदः सामवेदः, तृतीयः वेदः यजुर्वेदः, चतुर्थः वेदः अथर्ववेदः।
लिख् + अ = लेख। एषः मम लेखः अस्ति, अपि तव लेखः कुत्र अस्ति।
वेदः इति पुंलिङ्गः शब्दः अस्ति तस्मात् लेखः अपि पुंलिङ्गः अस्ति इति स्मर्तव्यम्।
२००८-१०-१६ गुरुवासरः (2008-10-16 Thursday)
काव्यमीमांसायां राजशेखरः समासानां परिचयं सरसतया प्रदत्तवान्। तेन लिखितम्
द्वन्द्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययीभावः।
तत् पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः॥
द्वन्दः – चकारबहुलः द्वन्दः। तद्यथा – सुखदुखे, सीतारामौ, लाभालाभौ।
द्विगुः – सङ्ख्यापूर्वः द्विगुः। त्रिलोकी, पञ्चवटी, अष्टाध्यायी, त्रिभुवनम्।
अव्ययीभावः – पूर्वे अव्यये सति अव्ययीभावः। अव्ययीभावसमासे पूर्वपदम् अव्ययं भवति। तद्यथा – यथाशक्ति, यथाविधि, यथाबलम्, यथाकालम्, यथेच्छम्।
तत्पुरुषः – अमादौ सति तत्पुरुषः। तद्यथा – दुखम् अतीतः इति दुखातीतः, हस्तेन लिखितः इति हस्तलिखितः, देशाय हितम् इति देशहितम्, चोरात् भयम् इति चोरभयम्, देवस्य आलयः इति देवालयः, वने वासः इति वनवासः।
कर्मधारयः – स चासौ कर्मधारयः। तद्यथा – नीलश्च असौ आकाशश्च इति नीलाकाशः, सिद्धश्च असौ पुरुषश्च इति सिद्धपुरुषः, मधुरं च तद् वचनं च इति मधुरवचनम्, पवित्रं च तत् स्थानं च इति पवित्रस्थानम्।
बहुव्रीहिः – यस्य येन बहुव्रीहिः। पीतम् अम्बरं यस्य स पीताम्बरः, गजस्य आननम् इव आननं यस्य स गजाननः, त्रीणि नेत्राणि यस्य स त्रिनेत्रः, वीणा पाणौ यस्याः सा विणापाणिः, धृतं राष्ट्रं येन स धृतराष्ट्रः, धृतं वामनरूपं येन स धृतवामनरूपः।
(सुरभारती – पञ्चमः भागः, संस्कृतः कार्यालयः, श्रीअरविन्दाश्रमः पुद्दुचेरी-६०५००२)
२००८-१०-१५ बुधवासरः (2008-10-15 Wednesday)
आसीत् आस्ताम् आसन्
आसीः आस्तम् आस्त
आसम् आस्व आस्म
सः कथयति तत्र रामः आसीत् इति। अहं मन्ये सितारामौ आस्ताम् इति। अपि त्वं मन्यसे तत्र राम-सीता-लक्ष्माणाः आसन् इति।
त्वं कथं जानासि अपि त्वं तत्र आसीः। युवां तत्र आस्तम्। न केवलं युवाम् किन्तु सः मन्यते यूयं तत्र आस्त। अहं तत्र न आसम्। आवाम् अन्यत्र आस्व। वयं कदापि तत्र न आस्म।
२००८-१०-१४ मङ्गलवासरः (2008-10-14 Tuesday)
आवयोः पुत्रौ अद्य माम् अकथयतां तयोः मित्रस्य पितरौ श्रीलङ्कादेशे आतङ्कवादिभिः मारितौ इति। मित्रस्य पिता अत्र केन्बरानगरे श्रीलङ्कदेशस्य उच्चायुक्तः आसीत्। तस्य भूतपूर्व-उच्चायुक्तस्य एकः पुत्रः द्वे कन्ये अधुना ओस्ट्रेलिया-राष्ट्रीय-विश्वविद्यालये पठन्ति। द्वे कन्ये तस्मिन् एव दिवसे विमाने श्रीलङ्कादेशं पितरौ मिलनाय गम्यमाने आस्ताम्।
२००८-१०-१३ सोमवासरः (2008-10-13 Monday)
बभूव बभूवतुः बभूवुः
बभूविथ बभूवथुः बभूव
बभूव बभूविव बभूविम
सः बभूव। तौ बभूवतुः। ते बभूवुः।
सा बभूव। ते बभूवतुः। ता बभूवुः।
त्वं बभूविथ। युवां बभूवथुः। यूयं बभूव।
अहं बभूव। आवां बभूविव। वयं बभूविम।
२००८-१०-१२ रविवासरः (2008-10-12 Sunday)
Hi! I’d like to learn numbers (till 108) in Sanskrit. Could you guide me? Thank you in advance, Diffio
KAMAL 5:25 pm on November 23, 2008 Permalink |
It is my humble request to enrol me to learn the great launguage
Lehel 7:29 am on November 26, 2008 Permalink |
intresting:)
अनिल कुमार 7:02 pm on December 8, 2008 Permalink |
“अनेकवारं नेतारः लोकान् न रक्षन्ति” –> “भारतवर्षे अनेकवारं नेतारः लोकान् न रक्षन्ति”? मेरा व्याकरण ठीक है क्या? कृपया उत्तर देने का कष्ट करें!