आवयोः अपत्याः अद्य प्रातः चतुर्वादने मेल्बोर्ननगरात् केन्बरानगरं प्रत्यागच्छन्। ह्यः रात्रौ तेषां माता अकथयत् भवान् चिन्तां मा करोतु अहं तान् सर्वयानस्थलात् (from the bus stop) गृहं आनेष्यामि इति। किन्तु यदा अवां प्रातःकाले सार्धत्रिवादने जागृतवन्तौ तदा साः किमपि न अवदत् तत् दृष्ट्वा अहं उद्यतः भूत्वा बालकान् नेतुम् अगच्छम्। बालकाः मेल्बोर्ननगरे मम मित्रस्य चन्द्रशेखरस्य गृहे न्यवसन्।
२००८-०७-१४ सोमवासरः (2008-07-14 Monday)