हङ्गललिपिः (Hangul Script)

कोरीया‍ईभाषालिपिः हङ्गललिपिः इति नाम। सा लिपिः यथा देवनागरीलिपिः अस्ति तथा एव अस्ति। एतस्यां लिप्यां प्रथमं तु स्वरः व्यञ्जनः इति विभाजनम् अस्ति। एकस्मिन् अक्षरे एकः स्वरः अथवा एकः व्यञ्जनः तस्य परं स्वरः तस्य परं विकल्पेन पुनः व्यञ्जनः अथवा अनुनासिकः भवितुं शक्नोति। या देवनागरीलिप्यां मात्रा अस्ति सा हङ्गललिप्यां स्वरः अस्ति। हङ्गललिप्यां लघुः-दीर्घः इति भेदः नास्ति किन्तु तस्मात् भिन्नौ वर्णौ स्तः। लिप्यां य यि यु व वि वु इति संयोगेभ्यः भिन्नः वर्णाः सन्ति। तस्मात् एकविंशतिः स्वराः सन्ति एकोनविंशतिः व्यञ्जनाः सन्ति।

व्यञ्जनानां लिप्यां आकारः यथा मुखे जिह्वा तस्य व्यञ्जनस्य उच्चारणाय भवति तथा अस्ति। देवनागरीदृशं कवर्गः इत्यादयः वर्गाः सन्ति किन्तु तेषाम् एका अधिका विशेषता अस्ति। प्रत्येकस्मिन् वर्गे व्यञ्जनानाम् आकारः मूलरूपेण एकः एव अस्ति, अल्पपरिवर्तनाय तस्मिन् वर्गे अन्याः व्यञ्जनाः भवन्ति। तस्मात् हङ्गललिप्याः शिक्षणं देवनागरीलिप्याः शिक्षणात् सुकरः अस्ति।

स्वराः यदि व्यञ्जनविहायः अस्ति अथवा व्यञ्जनास्य परम् मात्रारूपेण अस्ति तथापि तस्य आकारः एकः एव अस्ति। किन्तु स्वरः एकलः अस्ति तस्य सङ्केतः स्वरस्य पूर्वम् एकः शून्य-इव-आकारेण क्रीयते।

२००८-०७-०८ मङ्गलवासरः (2008-07-08 Tuesday)

Leave a Reply