यस्मिन् परिषदि अहं सोलनगरे अस्मि तस्मिन् परिषदि अद्य मध्याह्नभोजानकाले ते कोरीयाईभाषालिपिं शिक्षणाय एकं पाथं योजितवन्तः। पाठास्य प्रचारः Learn to Read Korean in 50 Minutes इति आसीत्। इदं पठित्वा मम मनसि कौतुकं जागृतम् कथं एतस्यां क्लिष्टायां लिप्यां ज्ञानं अस्मिन् अतिन्यूनकाले भविष्यति इति। किन्तु वस्तुतः तस्यां लिप्यां बोधं मां पञ्चदशनिमिषे अभवत्।
२००८-०७-०७ सोमवासरः (2008-07-07 Monday)