सिङ्गापुरं प्राप्तम् (Reached Singapore)

अद्य प्रातः सार्धदशवादने केन्बरानगरात् सिडनीनगराय प्रस्थानं कृतम्। सिडनी-विमानस्थले यावत् भ्रमणं करोमि तदा अस्माकं सहकर्मिनौ श्रीनाथः महेन्द्रः च मिलतः स्म। तौ अपि यस्यां परिषदि अहं गच्छामि तस्याम् एव परिषदि गच्छतः किन्तु तयोः विमानः मम विमानात् अन्यः अस्ति। सिडनीनगरात् अहं A380 इति नूतन-विमाने उतपतम्। विमानस्य अन्तर् व्यचस्वत् (with wide room) अस्ति। विमाने द्वौ प्रस्तरौ स्तः तस्मात् प्रवेशद्वाराणि अपि भिन्नानि सन्ति। मया सिङ्गापुरं रात्रौ सार्धदशवादने प्राप्तम्।

२००८-०७-०५ शनिवासरः (2008-07-05 Saturday)

Leave a Reply