मन्दिरे प्रसादः (Prasad at the temple)

मन्दिरस्य पण्डितवर्यस्य गृहे गत गुरुवासरे १९-जून-२००८-दिनाङ्के एकायाः कन्यायाः जन्म अभवत्। तस्मात् ३०-जून-२००८-दिनाङ्क-पर्यन्तं सः मन्दिरे पूजां न कर्तुं शक्नोति। वयं पूजाकार्यस्य अनेकेषु सदस्येषु भाजनम् अकुर्मः। अद्य सायंकाले पूजाकार्यस्य मम वारम् आसीत्। अहं तत्र सार्धषठ्वादनात् आसम् यावत् सार्धसप्तवादने आरात्रिकायै सज्जीकृतः अभवं तदा एकः परिवारः प्रसादेन सह आगच्छत्। मया प्रसादः विस्मृतः किन्तु देवयोगात् सः परिवारः आगच्छत्। तेन सह मया आरात्रिकम् अकरवं प्रसादम् अपि अभुञ्जि।

२००८-०६-२५ बुधवासरः (2008-06-25 Wednesday)

One Response to “मन्दिरे प्रसादः (Prasad at the temple)”

  1. सूर्यनारायन्णः Says:

    एकस्याः कन्यायाः जन्म अभवत् । सार्धषडवादनात् ।


Leave a Reply