झलां किं भवति (What becomes of jhal?)

लघुसिद्धान्तकौमुद्यां हल्संधिः प्रकरणे ४०सूत्राणि सन्ति। तेषु झल्-वर्णानां चर्चा सर्वत्र भवति। अहं मन्ये यदि अधोलिखिते इमे द्वे सूत्रे स्मरामि तर्हि मूलवस्तुं अवगच्छामि।
झलां जश् झशि।
झल् – वर्गाणां प्रथम-द्वितीय-तृतिय-चतुर्थवर्णाः श ष स ह
झश् – वर्गाणां तृतीय-चतुर्थवर्णाः
जश् – वर्गाणां तृतीयवर्णाः
अप् + धि = अब्धि बुध् + धि = बुद्धि लभ् + धि = लब्धि
खरि च।
खर् – वर्गाणां प्रथम-द्वितीयवर्णाः श ष स
चर् – वर्गाणां प्रथमवर्णाः श ष स।
अनुष्टुभ्  + छन्दः = अनुष्टुप्छन्दः
भिद् + त्वा = भित्त्वा
यदि झलां परतः वर्णानां कोऽपि प्रथमद्वितीयवर्णः अस्ति तर्हि झलस्य प्रथमवर्णः भवति किन्तु यदि कोऽपि तृतीय-चतुर्थवर्णः भवति तर्हि तृतीयवर्णः भवति।

२००८-०६-०७ शनिवासरः (2008-06-07 Saturday)

Leave a Reply