अद्य मया भिन्नसंस्कृत-वृत्तपत्रात् त्रयः शब्दाः प्रतिगृहिताः।
मया बालकाः दूरदर्शनात् अनेकवारं वारिताः किन्तु ते न शृण्वन्ति।
ह्यः मीता बालकेभ्यः मिष्टान्नं उपाहरत्।
२००८-०६-३० सोमवासरः (2008-06-30 Monday)
अद्य मया भिन्नसंस्कृत-वृत्तपत्रात् त्रयः शब्दाः प्रतिगृहिताः।
मया बालकाः दूरदर्शनात् अनेकवारं वारिताः किन्तु ते न शृण्वन्ति।
ह्यः मीता बालकेभ्यः मिष्टान्नं उपाहरत्।
२००८-०६-३० सोमवासरः (2008-06-30 Monday)
चन्द्रशेखरवर्यः मम सहपाठी आसीत्। आवां आवयोः पीएचडी-कार्यक्रमे सहपाठिनौ आस्वः। सः अद्य सपरिवारः केन्बरानगरं अस्माकं गृहम् आगच्छति। अधुना सः मेल्बोर्ननगरे वसति। यदा सः आगमिष्यति तदैव अहं मंस्यामि सः अत्र अस्ति। चन्द्रशेखरवर्यस्य कार्याक्रमाः सदैव अग्रे-अग्रे एव नुदन्ति (Chandra’s programs gets pushed ahead and ahead)। दशनिमिषा-पूर्वं सः दूरभाषाम् अकरोत् तेषां निर्गच्छनकाले किञ्चित् विलम्बः भविष्यति तस्मात् ते कदाचित् उत्तररात्रौ आगमिष्यन्ति इति। अहं मन्ये अद्य तस्य पञ्च-दश-दूरभाषा-संदेशाः भविष्यन्ति।
२००७-०६-२९ रविवासरः (2008-06-29 Sunday)
द्वन्द्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययीभावः।
तत् पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः॥
२००८-०६-२८ शनिवासरः (2008-06-28 Saturday)
भूतपूर्वः भारतीयः सेनापतिः माणेकवर्यः अद्य दिवं गतः। तं कः न जानाति। मया सः द्विवारं दृष्टः। एकवारं वयं छात्राः १९७२वर्षे विद्यालयस्य शिक्षणयात्रायां देहलीनगरात् हैदराबादनगरं गच्छामः स्म। अस्माकं संयानम् (train) नागपुरस्थेशने विरमितम् अस्ति स्म। तदा अधुनादृशं स्थेशने विशालजनसमुदायः नासीत् मुक्त-भ्रमणाय अवकाशम् भवति। वयं स्थेशने भ्रमणं कुर्मः पुरते संयाने (in train on the other side) माणेकवर्यं पश्यामः स्म। अहो आश्चर्यम्। वयं तस्मिनेव क्षणे याने आरोहाम माणेकवर्यम् अमिलाम च। सः अतीव भद्रः आसीत्। येन प्रकारेण सः अस्मान् स्वागतम् अकरोत् वयं स्तब्धाः अभवाम। वयं पञ्चदश-षोडश-वर्षीयाः बालकाः आस्मः। द्वितीयवारं मया सः अस्माकं विद्यालये अपश्यम्। तदा सः औपचारिके अभ्यागमने आगच्छत्।
वयं प्रार्थामहै तस्य आत्मा मोक्षं प्राप्नुयात्।
२००८-०६-२७ शुक्रवासरः (2008-06-27 Friday)
अद्य मया एकं प्रस्तुतिकरणं सज्जीकृतम्। जुलाई-मासस्य द्वितीये सप्ताहे अहं कोरीयादेशे एकायां परिषदि गमिष्यामि तत्र मम त्रीणि प्रस्तुतिकरणानि सन्ति। तस्मात् एकं प्रस्तुतिकरणम् अद्य मया सज्जीकृतम्।
२००८-०६-२६ गुरुवासरः (2008-06-26 Thursday)
मन्दिरस्य पण्डितवर्यस्य गृहे गत गुरुवासरे १९-जून-२००८-दिनाङ्के एकायाः कन्यायाः जन्म अभवत्। तस्मात् ३०-जून-२००८-दिनाङ्क-पर्यन्तं सः मन्दिरे पूजां न कर्तुं शक्नोति। वयं पूजाकार्यस्य अनेकेषु सदस्येषु भाजनम् अकुर्मः। अद्य सायंकाले पूजाकार्यस्य मम वारम् आसीत्। अहं तत्र सार्धषठ्वादनात् आसम् यावत् सार्धसप्तवादने आरात्रिकायै सज्जीकृतः अभवं तदा एकः परिवारः प्रसादेन सह आगच्छत्। मया प्रसादः विस्मृतः किन्तु देवयोगात् सः परिवारः आगच्छत्। तेन सह मया आरात्रिकम् अकरवं प्रसादम् अपि अभुञ्जि।
२००८-०६-२५ बुधवासरः (2008-06-25 Wednesday)
आवयोः ज्यायसी कन्या शुचिता विश्वविद्यालये संस्कृतं पठति। तस्य अस्मिनेव सप्ताहे प्रथमं सत्रं समाप्तम् अभवत्। ते एकेन पुस्तकेन पाठयन्ति किन्तु मम प्रियतमं पुस्तकं अस्ति श्रीअरविन्दाश्रमेण प्रकाशिता सरलसंस्कृतसरणिः इति। अद्य अहं शुचितां सरण्याः प्रथमः पाठः अपाठयम्। पाठस्य परं सा अवदत् – इदं पुस्तकं अस्माकं पुस्तकात् वरम् अस्ति इति।
२००८-०६-२४ मङ्गलवासरः (2008-06-24 Tuesday)
सोमवासरे अव्यवसायी ए-बी-सी नाम दूरदर्शन-स्रोते फोर-कोर्नर्स इति नाम सामयिक-कार्यक्रमः दृश्यते। सः कार्यक्रमः रात्रौ सार्ध अष्टवादनात् सपादनववादन-पर्यन्तं दृश्यते। तस्य कार्यक्रमस्य परं मीडीया-वोच इति नाम कार्यक्रमः दृश्यते। तौ कार्यक्रमौ मम प्रियतरौ स्तः। अद्य मया तौ कार्यक्रमौ दृष्टौ। तत् परं अहं किञ्चित् अलसम् अन्वभवं तथा अन्ये व्यवसायिनः स्रोते बोस्टन-लीगल नाम निकृष्टः कार्यक्रमः अपि अपश्यम्। तत् परं रात्रौ सार्धदशवादने अस्वपम्।
२००८-०६-२३ सोमवासरः (2008-06-23 Monday)
१ – एकस्मिञ्जीर्णकोटरे (७।१) जायया (३।१) सह निवसतः (६।१) पश्चिमे (७।१) वयसि (७।१) वर्तमानस्य (६।१) कथमपि पितुः (६।१) अहमेवैको (१।१) विधिवशात् (५।१) सूनुः (१।१) अभवम्।
कोटर – hollow of a tree, जाया – wife, निवसन् – living, पश्चिम – later, सूनु – son.
Living in one old hollow of a tree with his wife in later life to some father, I the only one son was born, from the circumstances of fate.
In the brackets the two numbers correspond to vibhakti and vacana.
२००८-०६-२२ रविवासरः (2008-06-22 Sunday)
अद्य प्रातः अष्टवादने सुनील-गुप्तवर्यः मया दूरभाष-सम्पर्कम् अकार्षीत्। सः ओसलोनगरे वसति। सः हिन्दीभाषी अस्ति, आङ्ग्लभाषा नोरवीयभाषा अपि जानाति। सः अर्बिस्ताने अपि अवसत्। किन्तु सः लेखने आलस्यं करोति तस्मात् सदैव दूरभाष-सम्पर्कम् एव करोति।
मध्याह्ने भोजनाय वयं श्रीरवीन्द्र-गुप्तवर्यस्य गृहे अगमाम। सः देहली-विश्वविद्यालये प्राचार्यः अस्ति किन्तु अधुना अस्माकं विश्वविद्यालये अभ्यागमनम् (visiting) करोति अभ्यागच्छति वा। जूलाई-मासस्य प्रथमे सप्ताहे सः स्वपरिवारेण सह देहलिनगरं प्रत्यागमिष्यति।
२००८-०६-२१ शनिवासरः (2008-06-21 Saturday)