घञ् प्रत्ययान्ताः शब्दाः पुँल्लिङ्गाः सन्ति।
पठ् + घञ् = पाठः। मया नित्यं गीतापाठः कर्तव्यः।
लिख् + घञ् = लेखः। तया लेखः लिखितः। सः लेखं लिखति।
रुध् + घञ् = रोधः। तस्य विरोधः अतीव प्रबलः अस्ति। औस्ट्रेलियादेशः भारतदेशस्य परमाणोः नित्यः विरोधं करोति।
२००८-०१-०१ मङ्गलवासरः (2008-01-01 Tuesday)